Page loading... Please wait.
1|4|39 - राधीक्ष्योर्यस्य विप्रश्नः
॥ तस्मै पाणिनये नमः ॥
1|4|39
SK 577
राधीक्ष्योर्यस्य विप्रश्नः   🔊
सूत्रच्छेदः
राधीक्ष्योः (षष्ठीद्विवचनम्) , यस्य (षष्ठ्येकवचनम्) , विप्रश्नः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 कारके  1|4|23
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
राधेरीक्षेश्च कारकम् सम्प्रदानसंज्ञं भवति। कीदृशम्? यस्य विप्रशः। विविधः प्रश्नः विप्रश्नः। स कस्य भवति? यस्य शुभाशुभं पृच्छ्यते। देवदत्ताय राध्यति। देवदत्ताय ईक्षते। नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयति इत्यर्थः।
`राध्यति` इति। `राध साध संसिद्धौ` (धातुपाठः-1262,1263),दैवादिकः। `दैवम्` इति शुभाशुभं कर्म। यस्येति ग्रहणं विस्पष्टार्थम्। तथा हि-- `यं प्रति` इत्यनुवत्र्तते, तत्र यं विप्रश्न इत्येवमभिसम्बन्धे क्रियमाणे यस्येत्यस्यार्थोऽप्रयुज्यमानस्यापि गम्यत एव।
यस्येति कर्मणि षष्ठी, यद्विविधं पृच्छयत इत्यर्थः। यत्सम्बन्धीत्यादि। यत्सम्बन्धिनः शुभाशुभस्य विप्रश्न इति। देवदताय राघ्यतीति। ठ्राधोऽकर्मकाद्वद्वावेवऽ इति दिवादौ, तत्र वृद्धावित्युपलक्षणमकर्मकादिति वचनाद् वृद्धावकर्मकत्वाव्यभिचारात्। एवकारस्तु भिन्नक्रमः- राधोऽकर्मकादेव श्यन् भवति, यथा-वृद्धाविति। तेन सत्यप्येवकारे पर्यालोचनस्य वृत्तिरविरुद्धा। तत्र धात्वर्थेनोपसंग्रहाज्जीवत्यादिवद् राधोऽकर्मत्वमविरुद्धम्। निमितं वेद नैमितिकः, उञ्छादिषु वसन्तादिषु वा निमितशब्दो द्रष्टव्यः। यस्यग्रहणमनर्थकम्, यं प्रतीत्येव, तत्र यं प्रति विप्रश्न इत्यन्वये किं नाम विवक्षितं न सिध्यति॥
सिद्धान्तकौमुदी
एतयोः कारकं संप्रदानं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति ईक्षते वा । पृष्टो गर्गः शुभाशुभं पर्यालोचयतीत्यर्थः ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
राधीक्ष्योर्यस्य विप्रश्नः - राधीक्ष्योः ।राध संसिद्धौ॑,ईक्ष दर्शने॑ । अनयोस्त्विह शुभाऽशुभपर्यालोचनमर्थस्तञ्च प्रश्नपूर्वकमित्याशयेन विवृणोति — पृष्टो गर्ग इति । शुभाऽशुभरूपयोः कर्मणोर्धात्वर्थेनोपसंग्रहादकर्मकावेतौ । अतएव राध्यतीति श्यन्,राधोऽकर्मकाद्वृद्धावेव॑ इथि दिवादिषु वक्ष्यमाणेनि गणसूत्रेणाऽकर्मकादेव तद्विधानात्, कृष्णसम्बन्धि शुभाऽशुभमित्यर्थाभ्युपगमात् षष्ठआं प्राप्तायां वचनमिदम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.