॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|37
SK 575
1|4|37
क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः
SK 575
सूत्रच्छेद:
क्रुधद्रुहेर्ष्यासूयार्थानाम् - षष्ठीबहुवचनम् , यम् - द्वितीयैकवचनम् , प्रति - अव्ययम् , कोपः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अमर्षः क्रोधः। अपकारो द्रोहः। अक्षमा ईर्ष्या। गुणेषु दोषाविष्करनम् असूया। क्रुधाद्यर्थानाम् प्रयोगे यं प्रति कोपः, तत् कारकं सम्प्रदानसंज्ञम् भवति। क्रोधस्तावत् कोप एव। द्रोहादयो ऽपि कोपप्रभवा एव गृह्यन्ते। तस्मात् सामान्येन विशेसणम् यं प्रति कोपः इति। देवदत्ताय क्रुध्यति। देवदत्ताय द्रुह्यति। देवदत्ताय ईर्ष्यति। देवदत्ताय असूयति। यम् प्रति कोपः इति किम्? भार्याम् ईर्ष्यति, मा एनाम् अन्यो द्राक्षीतिति।
क्रुधद्रुहावकर्मकौ, तत्र षष्ठआं प्राप्तायामयमारम्भः, इतरौ सकर्मकौ। तत्र द्वितीयायां प्राप्तायाम्। कथं पुनरेषां भिन्नार्थत्वे सति `यं प्रति कोपः` इति सामान्येन तद्विशेषणमुपपद्यत इत्याह-- `क्रोधस्तावत्` इत्यादि। सुगमम्। `क्रुद्ध्यति, द्रुह्रति` इति। `क्रुध कोपे`(धातुपाठः-1189), `द्रुह जिघांसायाम्` (धातुपाठः-1197) दैवादकौ। `ईष्र्यति` इति। `{ईक्ष्यं, सूक्ष्यं-धातुपाठः-}ईक्र्ष, सूक्र्ष, ईष्र्य ईष्र्यार्थाः` (धातुपाठः-510,509,511)। `असूयति` इति। असूयशब्दः कण्?डवादियगन्तः। `भार्यामीष्र्यति`इति। अस्ति भार्यायामीष्र्या, न तु तां प्रति कोपः। केवलं परैर्दृश्यमानां तां न क्षमते। अथास्मिन् द्वेष्टीत्यत्र कथं न भवति सम्प्रदानसंज्ञा? द्विषेरक्रोधाद्ययर्थत्वात्। अप्रीतौ ह्रेनं स्मरन्ति; तथा चाचेतनेष्वपि प्रयुज्यते-- औषदं द्वेष्टीति। नाभिनन्दतीति गम्यते॥
गुणेष्विति। शौचाचारादिषुः दाषा विष्करणमिति। दम्भादिदोषाध्यास इत्यर्थः। तत्र क्रुधद्रुहावकर्मकाविति कारकशेषत्वान्नटस्य श्रृणोतीतिवत् षष्ठ।लं प्राप्तायां वचनम्, इतरयोस्तु सकर्मकत्वाद् द्वितीया प्राप्नोति। अत्र च चितदोषरूपत्वं यद्यपि क्रोधादीनामविशिष्टम्, तथाप्यन्येषामेवञ्जातीयकानां द्वेषादीनामग्रहणार्थमवान्तरभेदविवक्षया पृथगिमे निर्दिष्टाः, न तु चितदोषार्थानामिति। तेनास्मान् द्वेष्टीत्यत्र न भवति, अनभिनन्दनं ह्यस्यार्थः। तथा चाचेतनेष्वपि प्रयुज्यते--औषधं द्वेष्टीति। कथं पुनरेकेन क्रुधिना सर्वे क्रुधादयः शक्या विशेषयितुमत आह--क्रोधस्तावदिति। भार्यामीर्ष्यतीत्यत्र केवलं परैर्द्दश्यमानां भार्यां, न तु तां प्रति कोपः॥
सिद्धान्तकौमुदी
क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति । द्रुह्यति । ईर्ष्यति । असूयति । यं प्रति कोपः किम् ? भार्यामीर्ष्यति मैनामन्योऽद्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्याऽक्षमा । असूया गुणेषु दोषाविष्करणम् । द्रुहादयोऽपि कोपप्रभवा एव गृह्यन्ते । अतो विशेषणं सामान्येन यं प्रति कोप इति ॥
क्रुधद्रुह। क्रुधाद्यर्थानामिति। `क्रुध क्रोधे` `द्रुह द्रोहे` श्यन्विकरणौ। `ईर्ष्य ईर्ष्यायां` शब्विकरणः। `असूञ् उपतापे` कण्ड्वादिः। एषामर्था एवार्था येषामिति विग्रहः। हरये क्रुध्यतीति। `रावणादि`रिति शेषः। हरिविषयकं कोपं करोतीत्यर्थः। घातेच्चासमनियतश्चित्तवृत्तिविशेषः कोपः। अकर्मकत्वात्षष्ठी प्राप्ता। द्रुह्यतीति। कोपाद्धरिविषयकमपकारं करोतीत्यर्थः। अकर्मकत्वात्षष्ठी प्राप्ता। अपकारो दुःखजनिका क्रिया। धात्वर्थोपसङ्ग्रहादकर्मकः। ईर्ष्यतीति। ईर्ष्या असहनम्। हरिं कोपान्न सहत इत्यर्थः। कर्मणि द्वितीया प्राप्ता। असूयति वेति। असूया गुणेषु दोषारोपः। यथाविहितकर्माचारे दम्भादिकृत्वारोपणम्। इहग कोपाद्धरिं दुर्गुणं मन्यत इत्यर्थः। मैनामिति। एनां भार्यामन्यो न पश्येदित्येतदर्थं भार्यागुणेषु दोषारोपणं करोतीत्यर्थः। नात्र भार्यां प्रति कोपः, किन्तु परेण दृश्यमानां तां न सहत इत्येव विवक्षितमिति बोध्यम्। एवंच क्रोधद्रोहेर्ष्यासूयानां कोपमूलकत्वएवेदमिति भाष्ये स्थितम्। तथाच कुप्यति कस्मै चिदित्याद्यसाध्वेव, कोपमूलकत्वाऽभावात्क्रुधार्थकत्वाऽभावाच्च। प्ररूढकोप एव हि क्रोधः, `नह्यकुपतः क्रुध्यति` इति भाष्यात्।
क्रुधद्रुह। `क्रुधे क्रोधे`, द्रुह जिघांसायाम्`, `ईर्ष्य ईर्ष्यायाम्`, असूयतिः कण्ड्वादियगन्तः, एषामर्थ इवार्थे येषां धातूनामित्यर्थः। द्रोहोऽपकार इति। द्रुह द्रोहे`इति पाठाभिप्रायेणोक्तं, जिघांसाद्रोह एवेत्यर्थतोऽनुभाषणं वा। अक्षमेति। परसंपत्त्यसहनमित्यर्थः। क्रुधद्रुहोरकर्मकत्वात्तद्योगे षष्ठी प्राप्ता, अन्ययोस्तु सकर्मकत्वाद्द्वितीया प्राप्ता। ननु चित्तदोषार्थानामित्येवास्तु, किं क्रोधादीनां विशिष्योपादानेनेति चेत्?अत्राहुः--द्विषादावतिप्रसङ्गवारणाय विशिष्योपादानम्। तेन `योऽस्मान्द्वेष्टि यं च वयं द्वि ष्मः` इत्यत्र चतुर्थी न भवति। तत्र ह्यनभनन्दनं द्विषेरर्थः। अत एवाऽचेतनेषु न प्रयुज्यते `--औषधं द्वेष्टि देवदत्त`मिति। कोपप्रभवा एवेति। कथं तर्हि `कुप्यसि कस्मैचित्`इति। न हि कोपः कोपप्रभवः। अत्र व्याचख्युः--कुपिरत्र द्रोहार्थ इति। पत्ये शेते इतिवत् `क्रिययायम्---` इत्येव सिद्धे क्रुधद्रुहोग्र्रहणं चिन्त्यप्रयोजनमित्याहुः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः किमेत एकार्थाः, आहोस्विन्नानार्थाः ? किं चातः ? यद्येकार्थाः किमर्थं पृथङ्निर्दिश्यन्ते ? अथ नानार्थाः, कथं कुपिना शक्यन्ते विशेषयितुम् ? एवं तर्हि नानार्थाः, कुपौ त्वेषां सामान्यमस्ति । नह्यकुपितः क्रुध्यति, न वाऽकुपितो द्रुह्यति, न वाऽकुपित इर्र्ष्यति, न वाऽकुपितोऽसूयति ।। 37 ।।