Page loading... Please wait.
1|4|36 - स्पृहेरीप्सितः
॥ तस्मै पाणिनये नमः ॥
1|4|36
SK 574
स्पृहेरीप्सितः   🔊
सूत्रच्छेदः
स्पृहेः (षष्ठ्येकवचनम्) , ईप्सितः (प्रथमैकवचनम्)
अनुवृत्तिः
-
अधिकारः
आकडारात् एका संज्ञा  1|4|1 कारके  1|4|23
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
स्पृह ईप्सायाम् चुरादावदन्तः पठ्यते। तस्य ईप्सितो यो ऽर्थः, तत् कारकं सम्प्रदानसंज्ञम् भवति। ईप्सितः इत्यभिप्रेतः उच्यते। पुष्पेभ्यः स्पृहयति। फलेभ्यः स्पृहयति। ईप्सितः इति किम्? पुश्पेभ्यो वने स्पृहयति।
`स्पृहयति` इति। अतो लोपस्य 6|4|48 `अचः परस्मिन् पूर्वविधौ` 1|1|56 इति स्थानिवद्भावाद्गुणो न भवति। यदा तु पुष्पादीनामीप्सिततमत्वं विवक्ष्यते, तदा परत्वात् कर्मसंज्ञैव भवति-- पुष्पाणि स्पृह्रतीति॥
चुरादावदन्तः पठ।ल्त इति। तेन स्पृहयतीत्यत्रातो लोपस्य स्थानिवद्भावाल्लघूपधगुणो नेति भावः। ईप्सित इति। ठ्मतिबुद्धिऽ इत्यादिना वर्तमाने क्तः। ईप्सितमात्रे इयं संज्ञा। प्रकर्षविवक्षायां तु परत्वात् कर्मसंज्ञैव भवति--पुष्पाणि स्पृहयतीति। यदा त्वीप्सितमीप्सिततमं वा शेषत्वेन विवक्ष्यते, तदा षष्ठी भवति॥
सिद्धान्तकौमुदी
स्पृहयतेः प्रयोगे इष्टः संप्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्सितः किम् ? पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं संज्ञा । प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ॥
स्पृहेरीप्सितः - स्पृहेरीप्सितः ।स्पृह ईप्सायाम्चुरादावदन्तः । ततः स्वार्थे णिचि अल्लोपस्य स्थानिवत्त्वाल्लघूपधगुणाऽभावे स्पृहिशब्दात्षष्ठएकवचनम् । "प्रयोग" इत्यध्याहार्यम् । तदाह — स्पृहयतेरित्यादिना । ननुपुष्पेभ्यः स्पृहयती॑त्येव स्यात्, नतु पुष्पाणि स्पृहयतीत्यपि । उभयं त्विष्यते । तत्राह ईप्सितमात्र इति । यदा त्वीप्सितत्वस्यापि न विवक्षा, किं तु विषयतामात्रविवक्षा, तदापुष्पाणां स्पृहयती॑ति साधु ।कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति चे॑त्यादिदर्शनात् । वाक्यपदीये तु स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठआश्चायमपवाद इति स्थितम् । हेलाराजोऽप्येवम् । तन्मते पुष्पाणि स्पृहयति पुष्पाणां स्पृहयतीत्याद्यसाध्वेवेत्यन्यत्र विस्तरः ।
स्पृहेरीप्सितः - स्पृहेरीप्सितः ।स्पृह ईप्सायां॑ चुरादावदन्तः, तेन स्पृहयतीत्यत्र लघूपधगुणो न । परत्वादिति । तेन॒परस्परेण स्पृहणीयशोभम्, स्पृहणीयगुणैर्महात्मभिः॑ इत्यादौ कर्मण्यनीयर् सिध्यति । शेषत्वविवक्षायां तुकुमार्य इव कान्तस्य त्रस्यान्ति स्पृहयन्ति च ॑ इत्यत्र षष्ठपि सिध्यतीति हरदत्तादयः । वाक्यपदीयहेलाराजीयग्रन्थयोस्तु स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठआश्च बाधिकेयं संप्रदानसंज्ञेति स्थितम् । युक्तम चेतत् — -॒क्रियया यमभिप्रैति — -॑ इत्यनेनैवेष्टसिद्धेस्पृहेरीप्सितः॑इत्येत्सूत्रस्य हरदत्तादिमते वैयथ्र्यप्रसङ्गात् । तस्माद्वाक्यपदीयादिग्रन्थानुरोधेनपरस्परेण स्पृहणीयशोभम् इत्यादौदानीयो विप्रः॑ इतिवद्बाहुलकात्संप्रदानेऽनीयरिति व्याख्येयम् ।कुमार्य इव कान्तस्य॑ इथ्यत्र तु त्रस्यन्तीत्येतदर्थतया कृतार्थस्य कान्तस्येति षष्ठन्तस्य विभक्तिविपरिणामेनकान्ताय स्पृहयन्ती॑ति व्याख्येयमिति केचित् ।
लघुसिद्धान्तकौमुदी
बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा। अन्तरे, अन्तरा वा गृहाः; बाह्या इत्यर्थः। अन्तरे, अन्तरा वा शाटकाः; परिधानीया इत्यर्थः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.