॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|35
SK 573
1|4|35
धारेरुत्तमर्णः
SK 573
सूत्रच्छेद:
धारेः - षष्ठ्येकवचनम् , उत्तमर्णः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
धारयतेः प्रयोगे उत्तमर्णो यो ऽर्थः, तत् कारकं सम्प्रदानसंज्ञं भवति। उत्तमम् ऋणं यस्य स उत्तमर्णः। कस्य चोत्तममृणम्? यदीयं धनम्। धनस्वामी प्रयोक्ता उत्तमर्णः, स सम्प्रदानसंज्ञो भवति। देवदत्ताय शतम् धारयति। यज्ञदत्ताय शतं धारयति। उत्तार्णः इति किम्? देवदत्ताय शतम् धरयति ग्रामे।
`उत्तमर्णः` इति। ऋणे उत्तम् उत्तमर्णः। अत एव निपातनात् समासः, सप्तमीसमासे ऋणस्य पूर्वनिपातात्। ननु चोत्तमर्णे ऋणशब्देन न भवितव्यम्। `ऋणमाधमण्र्ये ` 8|2|60 इत्याधमण्र्ये तस्य निपातनात्, नैतदस्ति; कालान्तरे देयनियमोपलक्षणार्थं हि तत्राधमण्र्यग्रहणम्। अत उत्तमर्णोऽपि भवत्येव। `शतं धारयति` इति। `धृङ अवस्थाने` (धातुपाठः-1412), शतं ध्रियते स्वरूपेणावतिष्ठते, स्वभावान्न प्रच्यवते। तदन्यः प्रयुङ्क्त इति `हेतुमति च` 3|1|26 इति णिच्। `ग्रामे` इति ग्रामस्याधिकरणस्यानुत्तमर्णस्य न भवति॥
उतममृणं यस्येति। उतममूत्कुष्टतमम्, उत्कृष्टार्थवृतेरुच्छब्दातमपि द्रव्यप्रकर्षत्वादामभावः। अर्तेः क्तः, ऋणम् ठृणमाधमर्ण्येऽ इत्यत्र कालान्तरे देयद्रव्यविनिमयोपलक्षणार्थमाधमर्ण्यग्रहणमित्युतमर्णेऽपि नत्वं भवति। अत्र बहुव्रीहौ निष्ठायाः पूर्वनिपाते ठ्जातिकालसुखादिभ्यःऽपरवचनम् इति सुखादेराकृतिगणत्वादस्मादेव वा निपातनाद्दणशब्दस्य परनिपातः। शतं धारयतीति। ठ्धृङ् अवस्थानेऽ,ध्रियमाणं स्वरूपेणावतिष्ठमानं स्वभावादप्रच्यवमानं शतं प्रयुङ्क्त इति णिच्। ग्राम इति। नन्वत्र परत्वादधिकरणसंज्ञैव भविष्यति; उतमर्णेऽपि तर्हि हेतुसञ्ज्ञा स्यात्॥
सिद्धान्तकौमुदी
धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः । उत्तमर्णः किम् ? देवदत्ताय शतं धारयति ग्रामे ॥
धारेरुत्तमर्णः। `धारे`रित्यनन्तरं `प्रयोगे` इत्यध्याहार्यम्। `धृङ् अवस्थाने` इत्यस्य हेतुमण्ण्यन्तस्य धारेरिति निर्देशः। तदाह--धारयतेरित्यादिना। अन्यस्वामिकं द्रव्यं नियतकाले पुनरर्पणबुद्ध्या गृहीतम् ऋणमित्युच्यते। तत्र ऋणस्य ग्रहीता-अधमर्णः, ऋणस्यार्पयिता-धनस्वामी-उत्तमर्णः। प्रतिमासमशीतिभगादिवृद्ध्या उत्तमम्= अधिकतां प्राप्तम् ऋणं यस्येति विग्रहः। भक्तायेति। भक्तसंबन्धी यो मोक्षः= अपरिमितनित्यसुखविशेषस्तं धारयतीत्यर्थः। धरते मोक्षः, अवतिष्ठते इत्यर्थः। तं प्रेरयति धारयति, अवस्थापयतीति यावत्। पूजयन्हि भक्तस्तुलसीदलादिद्रव्यं प्रयच्छति, तच्च गृह्णन्तुष्टो हरिस्तत्प्रत्तद्रव्यं मोक्षदानेन निष्क्रीणाति। तदाहुः पौराणिकाः-`तोयं वा पत्रं वा यद्वा किञ्चित्समर्पितं भक्त्या। तदृणं मत्वा देवो निःश्रेयसमेव निष्क्रयं मनुते।` इत्यादि। तथाचात्र भक्तस्य ऋणदातृत्वेन उत्तमर्णत्वात्संप्रदानत्वं संबन्धषष्ठ�पवादः।
धारेरुत्तमर्णः। `धृङ् अवस्थाने`। हेतुमण्ण्यन्तः। उत्तमर्णो=धनस्वामी। अर्तेः क्तः। ऋणम्। ऋणमाधमर्ण्ये इथ्यत्र व्यवहारविशेषोपलक्षणार्थमाधमर्ण्यग्रहणमिति व्याख्यानादुत्तमर्णेऽपि निष्ठानत्वं भति। अस्मादेव निपातनादत्र बहुव्रीहौ निष्ठान्तस्य परनिपातो बोध्यः। भक्तायेत्यादि। इह भक्त उत्तमर्णो, हरिरधमर्णः। धृङोऽकर्मकत्वादणौ कर्तुर्मोक्षस्य णौ कर्मत्बम्। शतं धारयति ग्राम इति। परत्वादिहाऽधिकरणसंज्ञा भविष्यतीति चेदुत्तमर्णेऽपि तर्हि हेतुसंज्ञा स्यादिति हरदत्तः।ततश्चोत्तमर्णग्रहणाऽभावे हेतुसंज्ञाया इवाधिकरणसंज्ञाया अप्ययमपवादः स्यात्तद्वारणयोत्तमर्णग्रहणमिति भावः। एवं च कृतेऽप्युत्तमर्णग्रहणे `तत्प्रयोजको हेतुश्च` इति हेतुसंज्ञायां प्राप्तायां तद्बाधनार्थमिदं संप्रदानसंज्ञावचनमिति निष्कर्षमाहुः। मनोरमायां तु षष्ठ�आं प्राप्तायामिदं वचनमिति स्थितम्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!