॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|34
SK 572
1|4|34
श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः  
SK 572
सूत्रच्छेद:
श्लाघह्नुङ्स्थाशपाम् - षष्ठीबहुवचनम् , ज्ञीप्स्यमानः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
श्लाघ ह्नुङ् स्था शप इत्येतेषाम् ज्ञीप्स्यमानो यो ऽर्थह्, तत् कारकं सम्प्रदानसंज्ञं भवति। ज्ञीप्स्यमानः ज्ञपयितुम् इष्यमणः, बोध्यितुम् अभिप्रेतः। देवदत्ताय श्लाघते। देवदत्तं श्लाघमानस्ताम् श्लाघां तम् एव ज्ञपयितुम् इच्छति इत्यर्थः। एवम् देवदत्ताय ह्नुते। यज्ञदत्ताय ह्नुते। देवदत्ताय तिष्ठते। यज्ञदत्ताय तिष्ठते। देवदत्ताय शपते। यज्ञदत्ताय शपते। ज्ञीप्स्यमानः इति किम्? देअदत्ताय श्लाघते पथि।
`ज्ञीप्स्यमानः` इति। `मारणतोषणनिशामनेषु ज्ञा` (धातुपाठः-811) इति घटादिषु पठते। तस्मात् निशामने ज्ञाने वत्र्तमानात् हेतुमण्णिच्। अथ वा `ज्ञप मिच्च` (धातुपाठः-1624) इति चुरादौ पठते। तस्माच्चुरादिणिच्, मित्त्वात् ह्यस्वत्वम्, सन्, द्विर्वचनम्, `आप्ज्ञप्यृधामीत्` 7|4|55 इतीत्वम्, `अत्र लोपऽभ्यासस्य` 7|4|58 इत्यभ्यासलोपः, कर्मणि लकारः, शानच् यक्, `अतो लोपः` 6|4|48 । `श्लाघते` इति। `श्लाघु कत्थने` (धातुपाठः-115) अनुदात्तेत्। `{ह्नुते- काशिका, `निह्नुते-पदमञ्जरी।} अपह्नते` इति। `ह्नुङ अपनयने` (धातुपाठः-1082), आदादिकः। `तिष्ठते` इति। `प्रकाशनस्थेयाख्ययोश्च` 1|3|23 इति तङ। `शपते` इति। `{शप आक्रोशे- धातुपाठः-} शप उपलम्भने` (धातुपाठः-1000) इत्यनेनोपलसंख्यानन तङ॥
ज्ञीप्स्यमान इति। ठ्मारणतोषणनिशामनेषु ज्ञाऽ इति घटादिषु पठ।ल्ते, तस्मान्निशामनेऽर्थे हेतुमण्णिचि सनि ठाप्ज्ञपृधामीत्ऽ,ठत्र लोपोऽभ्यासस्यऽ,कर्मणि लटः शानजादेशः। निशामनं चेह ज्ञानमात्रमुच्यते, न चक्षुर्विज्ञानमेव, यदाह-बोघयितुमभिप्रेत इति। कथं तर्हि प्रयुज्यते--तज्ज्ञापयत्याचार्थः, विज्ञापना भर्तृषु सिद्धिमेतीति? तस्मान्निशानेष्विति पाठः। ठ्शो तनूकरणेऽ ल्युडन्तः, संज्ञपितः पशुरित्युदाहरणम्। ज्ञीप्स्यमानो ज्ञपयितुमिष्यमाण इति प्रयोगःठ्ज्ञप मिच्चऽ इति चुरादिणिजन्तस्य। अन्ये तु -ठ्मितां ह्रस्वःऽ इत्यत्र ठ्वा चितविरागेऽ इत्यतो वेत्यनुवृतेर्व्यवस्थितविभाषाविज्ञानाच्चानिष्टे विषये ह्रस्वाभावमाहुः। देवदतं प्रति श्लाघमानास्तां श्लाघां तमेव ज्ञपयितुमिच्छतीत्यर्थ इति। श्लाघा स्तुतिः, प्रत्यक्षेण देवदतं स्तौतीति यावत्। एवं हि तां देवदतः शक्यते ज्ञापयितुम्। अन्ये त्वाहुः- देवदतायात्मानं परं श्लाघ्यं कथयतीत्यर्थ इति। तथा च भट्टिकाव्यम्-- श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसाधिपः॥ इति। आत्मानं श्लाघ्यं परस्त्रीभ्यः कथयन्नित्यर्थः। एवं देवदताय निह्नुत इति। ठ्ह्नुङ् अपनयनेऽ देवदतं प्रति निह्न्वानस्तां निह्नुतिं तमेव ज्ञापयितुमिच्छतीत्यर्थः। इत्येष एवंशब्दस्यार्थः। निह्नुतिरपलापः, संनिहितमेव देवदतं धनिकादेरपलपतीत्यर्थः। अन्ये तु ह्नोतव्यं किञ्चिद्देवदतं ज्ञापयतीत्यर्थ इत्याहुः- देवदताय तिष्ठत इति। ईद्दशोऽहमिति देवदतस्य स्थनेन प्रकाशयतीत्यर्थः। देवदताय शपते इति। शपथेन किञ्चित्प्रकाशयतीत्यर्थः। देवदतः श्लाघते इति। ज्ञीप्स्यमानवचनात् कर्मसंज्ञैव बाध्यते, न कर्तृसंज्ञेत्यर्थः। एवं गार्गिकया श्लाघते सभायामिति करणाधिकरणसंज्ञे न बाध्येते। क्वचितु देवदतं श्लाघते इति पाठः। तत्रायं भावः-यस्मायाख्यायते स ज्ञीप्स्यमान इत्याख्यायामाना द्विनीयैव न्याय्येति। ये त्वाख्यायमानं ज्ञीप्स्यमानं वदन्ति तेषां यस्मायाख्यायते ततः षष्ठी भवति--देवदताय श्लाघते यज्ञदतो विष्णुमित्रस्येति॥
सिद्धान्तकौमुदी
एषां प्रयोगे बोधयितुमिष्टः संप्रदानं स्यात् । गोपी स्मरात्कृष्णाय श्लाघते ह्नुते तिष्ठते शपते वा । ज्ञीप्स्यमानः किम् ? देवदत्ताय श्लाघते पथि ॥
श्लाघह्नुङ्। `श्लाघृ कत्थने` `ह्नुङ् अपनयने` `ष्ठा गतिनिवृत्तौ` `शप उपालम्भे` एषां द्वन्द्वः। `शपा`मित्यनन्तरं `प्रयोगे` इत्यध्याहार्यम्। श्लाघादीनां स्तुत्यादिना बोधनमर्थः, ज्ञीप्स्यमान इति लिङ्गात्। ज्ञापनवाचिनो ज्ञपेः सन्नन्तात्कर्मणि शानच्। तदाह--एषां प्रयोगे इत्यादिना। गोपी स्मरादीति। मन्मथपीडावशाद्नोपी आत्मस्तुत्या विरहवेदनां कृष्णं बोधयतीत्यर्थः। कृष्णस्यैव स्तुत्यत्वे तु द्वितीयैवेत्याहुः। ह्नुते इति। सपत्न्यपनयनेन स्वाशयं कृष्णं बोधयतीत्यर्थः। तिष्ठते इति। गन्तव्यमित्युक्तेऽपि स्थित्या स्वाशयं कृष्णं बोधयतीत्यर्थः। `प्रकाशनस्थेयाख्ययोश्चे`त्यात्मनेपदम्। शपते इति। उपालम्भेन स्वाशयं कृष्णं बोधयतीत्यर्थः।
श्लाघह्नुङ्। `श्लाघृकत्थने,` `ह्नुङ् अपनयने` `ष्ठा गतिनिवृत्तौ,``शप उपलम्भे`। कृष्णाय श्लाघत इति। अ�स्मस्तु पक्षे शेष षष्ठ�आं प्राप्तायां वचनम्। ह्नुति इति। सपत्नीभ्यः कृष्णं ह्नुवाना तमेवाऽर्थं कृष्णं बोधयतीत्यर्थः। यस्य कस्यचिथ्नुति बोधयतीति वा। तिष्ठत इथि। स्थित्या स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः। `प्रकाशनस्थेयाख्ययोश्चे `ति तङ्। शपत इति। उपालम्भेन स्वाभिप्रायं कृष्णं बोधयतीत्यर्थः। `शप उपालम्भे` इति तङ्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!