Page loading... Please wait.
1|4|33 - रुच्यर्थानां प्रीयमाणः
॥ तस्मै पाणिनये नम: ॥
1|4|33
SK 571
रुच्यर्थानां प्रीयमाणः  
सूत्रच्छेद:
रुच्यर्थानाम् - षष्ठीबहुवचनम् , प्रीयमाणः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
रुचिना समानार्थाः रुच्यर्थाः अन्यकर्तृको ऽभिलाषो रुदिः। रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणो यो ऽर्थः, तत् कारकं सम्प्रदानासंज्ञम् भवति। देवदत्ताय रोचते मोदकः। यज्ञदत्ताय स्वदते ऽपूपः। देवदत्तस्थस्याभिलाषस्य मोदकः कर्ता। प्रीयमाणः इति किम्? देवदत्ताय रोचते मोदकः पथि।
`रुचिना समानार्था रुच्यर्थाः` इति। रुच्यर्थानामित्यस्मादेव निपातनात-- मयूरव्यंसकादित्वान्मध्यमपदलोपो समासः। `समानार्थाः` इति। एकार्था इत्यर्थः। यद्यपि `रिचिर्दीप्तौ` (धातुपाठः-745) पठते, तथापीहाभिलाषे वत्र्तते, अनेकार्थत्वाद्धातूनाम्; तत्रैव प्रीयमाणार्थस्य सम्भवात्। यस्य ह्रभिलाषः स प्रीयमाणः। यस्त्वभिलषति स प्रीणाति। `प्रीयमाणः` इति। तृप्यमाण इत्यर्थः। `प्रीञ् तर्पणे` (धातुपाठः- 1474) इत्येतस्मात् कर्मणि विहितस्य लस्य शानच्। `अन्यकर्त्तृकः` इत्यादिना तमभिलाषविशेषं दर्शयन् रुचिशब्दस्यार्थमाचष्टे। प्रीयमाणापेक्षयाऽन्योर्थो वेदितव्यः। प्रीयमाणादन्यः कत्र्ता यस्य सोऽन्यकर्त्तुकः। `रोचते स्वदते` इति। `रुच दीप्तौ`(धातुपाठः-745) `स्वद आस्वादने` (धातुपाठः-18) अनुदात्तेत्तौ। `देवदत्तस्थस्य` इत्यादिनाऽन्यकर्त्तृकतामभिलाषस्य दर्शयति।`देवदत्ताय रोचते मोदकः पथि` इति। प्रीयमाणग्रहादिहाधिकरणस्य पथः सम्प्रदानसंज्ञा न भवति। अथ देवदत्तो मोदकमभिलषतीत्यत्र देवदत्तस्य सम्प्रदानसंज्ञा कस्मान्न भवति? रुच्यर्थाभावात् `अन्यकर्त्तृको ह्रभिलाषो रुचिः, (का। 1.4.33) इत्युक्तम्। न चेहान्यकर्त्तृकोऽभिलाषः, किं तर्हि? प्रीयमाणो देवदत्तो यस्तत्रस्थोऽभिलाषस्तत्कर्त्तृकः॥
रुचिना समानार्था इति। वस्तुकथनमेतत्। विग्रहस्तु रुचिरर्थो येषामिति। ते च रुचिना धातुना धातुना समानार्था भवन्ति। प्रीयमाण इति। ठ्प्रीञ् तर्पणेऽ इत्यस्मात् क्रैयादिकात् सकर्मकात्कर्मणि लः। दैवादिकस्तु ङ्दिकर्मकः, तर्पमाण इत्यर्थः। अन्यकर्तृक इति। योऽभिलाषस्याश्रयः प्रीयमाणस्ततोऽन्यकर्तृक इत्यर्थः। कथं पुनरन्याश्रयस्याभिलाषस्यान्यः कर्ता भवति, यावता यदाश्रयव्यापारं धातुः प्राधान्येनाचष्टे स कर्ता? नेदं कर्तृ लक्षणम्, किन्तु स्वातन्त्र्यमेव। तच्च क्वचिद्वास्तवम्, क्वचिद्वैवक्षिकम्। तदत्र माधुर्यातिशयेन स्वविषयं देवदताश्रयमभिलाषं जनयन्मोदकस्तत्र कर्तेति गीयते। न चैवं लषेरपि प्रसङ्गः, देवदतो मोदकमभिलष्यतीति? अभिधानशक्तिवैचित्र्यादाश्रयकर्तृ कोऽभिलाषो लषेर्वाच्यः, रुचेस्तु विषयकर्तृकः। द्दष्टश्चायमभिधानप्रकारनियमोऽन्यत्रापि, तद्यथा-घटः पश्यतीति द्दशेराश्रयकर्तृ कं ज्ञानं वाच्यम्। घटः प्रकाशते इत्यत्र प्रकाशेर्विषयकर्तृकम्। विषय एव हि स्पष्टालोकमध्य वर्तित्वादिना सौकर्येण देवदताश्रये ज्ञाने कर्तेति व्यपदिश्यते, न तु ज्ञानेन कश्चिदतिशयो विषयो जन्यते। कोऽयं प्रकाशो नाम, यं प्राकठ।ल्माचक्षते भाट्टाः, तत्र कारकशेषत्वेन षष्ठीप्रसङ्गे वचनम्। अन्ये तु प्रीयमाणं देवदतं मोदकः प्रीणयतीति कर्मसंज्ञां प्राप्तां मन्यन्ते। अपरे त्वेवमाहुः- देवदतो रोचयति मोदकमिति हेतुत्वे प्राप्ते वचनमिति, देवदतं हि प्राप्य रोचते मोदको न सर्वान्, नानेच्छा हि प्राणिन इति। एवमुतरेष्वपि योगेषु द्रष्टव्यम्। उक्तं च-- हेतुत्वे कर्मसंज्ञायां शेषत्वे चापि कारकम्। रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यमुच्यते॥ इति। पथीति। हेतुकर्मसंज्ञावदधिकरणसंज्ञा बाध्येतेति भावः। किं च प्रीयमाणग्रहणादेवादित्यो रोचत इति दीप्तिवाचिनामग्रहणम्॥
सिद्धान्तकौमुदी
रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः सम्प्रदानं स्यात् । हरये रोचते भक्तिः । अन्यकर्तृकोऽभिलाषो रुचिः । हरिनिष्ठप्रीतेर्भक्तिः कर्त्री । प्रीयमाणः किम् ? देवदत्ताय रोचते मोदकः पथि ॥
रुच्यर्थानां प्रीयमाणः - रुच्यर्थानां । रुच्यर्थानां धातूनामिति ।रुच दीप्तावभिप्रीतौ च॑ । दीप्तिरिह न रुच्यर्थः, प्रीयमाण इति विरोधात् । तथाच प्रीतिजननार्थानामित्यर्थः । प्रीयमाण इति । समवायेन प्रीत्याश्रय इत्यर्थः । हरये रोचते भक्तिरिति । भक्तिः स्वविषयां प्रीति हरौ जनयतीत्यर्थः । भक्तिगतव्यापारप्रयोज्यप्रीत्याश्रयत्वाद्धरेः कर्मत्वं प्राप्तं, तदपवादोऽयम् । नन्वेवं सति हरिर्भक्तिममिलषतीत्यत्रापि भक्तेः प्रीतिविषयत्वात्संप्रदानत्वं स्यादित्यत आह-अन्यकर्तृक इति । समवायेन प्रीत्याश्रयापेक्षया यदन्यत्, तत्कर्तृकाभिलाषो रुच्धात्वर्थः । प्रीत्याश्रयकर्तृकः किञ्चिद्विषयक इच्छाविशेषोऽभिलाषः । तथा च अभिलषते रुच्र्थकत्वाऽभावान्न तद्योगे संप्रदानत्वम् । प्रकृते च प्रीत्याश्रयो हरिः, तदपेक्षया यत् अन्यता=भक्तिः, तत्कर्तृकैव प्रीतिरिति रूच्यर्थयोगः । नन्विह भक्तेः संप्रदानत्वं कुतो न स्यात्, विषयतासंबन्धेन भक्तिरपि प्रीत्याश्रयत्वादित्यत आह — हरिनिष्ठप्रीतेर्भक्तिः कत्र्रीति । हरेरेव समवायसंबन्धेन प्रीत्याश्रयतया प्रीयमाणत्वाद्भक्तेः कर्त्र्या उक्तरीत्या प्रीयमामत्वाऽभावाच्च न संप्रदानत्वमिति भावः । भक्तिर्हरिं प्रीणाति, प्रीणयतीत्यादौ तु न भक्तेः संप्रदानत्वप्रसक्तिः, तिङा अभिहितत्वात्, समवायेन प्रीत्याश्रयत्वाऽभावाच्च । नापि हरेः, प्रीयमाण इति कर्मणि सानच्प्रयोगबलेन प्रीधातुयोगे रुच्यर्थानामित्यस्याऽप्रसक्तेर्विज्ञानात्, अन्यथा प्रीधातुकर्मणः संप्रदानत्वे कर्मणि शानचो दौर्लभ्यात् । मोदकः पथीति । अत्र पथः प्रीयमामत्वाऽभावान्न संप्रदानत्वमिति भावः ।
रुच्यर्थानां प्रीयमाणः - रुच्यर्थानाम् । रुचिरर्थो येषां ते रुच्यर्थास्तेषाम् । प्रीयमाणा इति ।प्रीञ् तर्पणे॑ अस्मात्कर्मंणि लिट् । हरये रोचत इति । हरिं प्रीणयतीत्यर्थः । कर्मसंज्ञायां प्राप्तायां वचनम् । यद्यपि रुचिर्दीप्तावपि पटते, तथापीह दीप्तिर्न विवक्षितेत्याह — -अन्यकर्तृकोऽभिलाष इति । अत एवआदित्यो रोचते दिक्षु॑ इत्यत्र दीप्त्यर्थे संज्ञा न भवति । हरिनिष्ठ प्रीतेरिति । एतेन अन्यकर्तृकत्वमिह प्रीत्याश्रयाऽन्यकर्तृकत्वमित्युक्तं भवति । मोदकः पथीति । देवदत्तस्यैव प्रीयमाणत्वं न तु पथ इति न कतस्य संप्रदानत्वं । प्रीयमाणपदाऽभावे चु पथोऽपि स्यादिति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!