॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|32
SK 569
1|4|32
कर्मणा यमभिप्रैति स सम्प्रदानम्
SK 569
सूत्रच्छेद:
कर्मणा - तृतीयैकवचनम् , यम् - द्वितीयैकवचनम् , अभिप्रैति (तिङन्तपदम्) सः - प्रथमैकवचनम् , सम्प्रदानम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Menwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्मणा करणभूतेन कर्ता यम् अभिप्रैति तत् कारकं सम्प्रदानसंज्ञं भवति। अन्वर्थसंज्ञाविज्ञानाद् ददातिकर्मणा इति विज्ञायते। उपाध्यायाय गां ददाति। माणवकाय भिक्षां ददाति। क्रियाग्रहणम् अपि कर्तव्यम्। क्रियया ऽपि यम् अभिप्रैति स सम्प्रदानम्। श्राद्धाय निगर्हते। युद्धाय सन्नह्यते। पत्ये शेते। सम्प्रदानप्रदेशाः चतुर्थी सम्प्रदाने 2|3|13 इत्येवम् आदयः। कर्मणः करणसंज्ञा वक्तव्या सम्प्रदानस्य च कर्मसंज्ञा। पशुना रुद्रं यजते। पशुं रुद्राय ददाति इत्यर्थः।
`कर्मणा करणभूतेन` इति। ननु च कथं कर्म करणं भवति? क्रियाभेदसम्बन्धात्। तथा हि ददातिक्रिययाऽ‌ऽस्तुमिष्टतमत्वात् तस्याः कर्मत्वम्, अभिप्रयाणक्रियां प्रतितस्य साधकतमत्वात् करणत्वम्। `अभिप्रैति` इति। अभिसम्बध्नातीत्यर्थः। यदि कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञो भवति, एवमजां नयति ग्राममित्यजादिभिर्नयनक्रियाकर्मभिः सम्बध्यमानस्य ग्रामस्य सम्प्रदानसंज्ञा प्रसज्येतेत्यत आह-- `अन्यर्थसंज्ञाविज्ञानात्` इत्यादि। सम्प्रदानमिति। तेन ददातेः कर्मणा यमभिप्रैति तत् सम्प्रदानमिति विज्ञायते। नन्वेवमपि रजकस्य वस्त्रं ददाति, घ्नतः पृष्ठं ददातीत्यतत्र प्राप्नोति, नैतदस्ति; दानं हि नाम पूजानुग्रहकाम्यया स्वकीयद्रव्यपरित्यागः परस्वत्वापत्तिः, तच्चेह नास्ति, अतो न भविष्यति। कर्मणेति किमर्थम्? ` यमभिप्रैति स सम्प्रदानम्` इत्युच्यमाने यमभिप्रैति तस्य कर्मण एव सम्प्रदानसंज्ञत्रा स्यात्। कर्मसंज्ञायास्तु ददातिकर्मणोऽन्यत्रावकाशः स्यात्-- ओदनं पचतीति। `यं स` ग्रहणं किमर्थम्? `कर्मणाभिप्रैति सम्प्रदानम्` इत्युच्यमाने कयोऽभिप्रैति तस्य सम्प्रदानसंज्ञा स्यात्। ततश्च कर्तुः सम्प्रदानसंज्ञा स्यात्, कर्तसंज्ञायास्तु यत्र कर्मसम्बन्धो नास्ति, सोऽवकाशः स्यात्--आस्ते, शेते इति। अथाभिप्रग्रहण किमर्थम्? `कर्मणा यमेति स सम्प्रदानाम्` इत्युच्यमाने कालविशेषविक्षा स्यात्, वर्तमान एव स्यात्। ततश्चोपाध्यायस्य गामदात्, उपाध्यायायं गां दास्तीत्यत्र न स्यात्, अभिग्रहणे तु सति भवति। अभिराभिमुख्ये वत्र्तते तच्चाप्यतीतेऽप्यस्ति। प्रशब्द आदिकर्मणि, प्रारम्भे। स चासन्निहितायां भाविन्यामपि क्रियायां सम्भवतीति सर्वत्र संज्ञा सिद्धा भवति। नैतदभिप्रग्रहस्य प्रयोजनमुपपद्यते। यथैव कर्मणेत्यत्रैकत्वसंख्याया विवक्षा न भवति; यता च `यं` `सः` इत्यत्र लिङ्गसंख्योर्विवक्षा न भवति तथा कालस्यापि न भविष्यति। किं कारणम्? उपलक्षणार्थत्वात्। यथा-- `सोऽर्थो योऽनर्थ बाधते` इत्युक्ते योऽपि बाधितवान्, योऽपि बाधिष्यते सोऽप्यर्थ एव। एवं तर्हि ग्रन्थाधिक्यादर्थाधिक्यं यथा स्यादित्यवमर्थमभिप्रग्रहणम्। एतेन क्रिययापि यमभिप्रैति तस्यापि सम्प्रदानसंज्ञा सिद्धा भवति; अन्यथा हि यद्यपि क्रिया प्रार्थनाध्यवसानाभ्यां व्याप्तुमिष्टतमत्वात् कर्म, तथापि ददातिकर्मसम्बन्धाभावान्न सिद्ध्येत्। कथं पुनरेतदवसितम्-- क्रियया यमभिप्रैतिस सम्प्रदावमित्ययमर्थोऽत्र प्रतिपादयितुमिष्टतम् इति? अभिप्रग्रहणात्। अस्ति ह्रत्राचार्यस्य कश्चिदर्थोऽधिकोऽभिमतः, यस्यावभासनायाधिकं शब्दान्तरं प्रयुक्तमिति गम्यते, न त्वर्थविशेषः। न हि तत् तस्य वाचकम्। यद्यप्यवाचकं स्यात्, तथापि लक्ष्यदर्शनवशादविच्छिन्नाचार्यपारम्पर्योपदेशाच्च विशेषावगतिर्भविष्यतीत्यद्वेष्यमेतत्। `क्रियाग्रहणमपि कत्र्तव्यम्` इति। क्रियया ग्रहणं क्रियाग्रहणम्। येन क्रिया गृह्रते, तद्वयाख्यानं कत्र्तव्यम्। किं पुनस्तद्व्याख्यानम्? तच्चास्माभिरभिग्रहण्सय प्रयोजनं वर्णयद्भिः कृतमेव। का पुनरिह क्रिया, ययाभिप्रेयमाणस्य सम्प्रदानसंज्ञेष्यते? सा विवक्षिता। अत आह-- `क्रिययापि यमभिप्रैति` इत्यादि। `निगल्हते` इति। `गर्ह गल्ह कुत्सायाम्` (धातुपाठः-636,637) अनुदात्तेत्। `युद्धाय सन्नह्रते` इति। `नह बन्धने` (धातुपाठः-1166) दिवादौ स्वरितेत्। स चेह निश्चये वत्र्तते, युद्धे निश्चयं करोतीत्यर्थः। `पत्ये शेते` इति। शीङत्रोपसर्पणपूर्वके शयन वत्र्तते। पतिमुपसृत्य शेते इत्यर्थः। `कर्मणः करणसंज्ञा` इत्यादि। एतत् `पशुना रुद्रं यजते` इत्येतद्विषयमेव वेदितव्यम्। यजिः स्वरितेत्। एतच्च `व्यत्ययो बहुलम्` 3|1|85 इति सुव्यत्ययेन सिद्धमेवेति न वक्तव्यम्॥
कर्मणा करणभूतेनेति। कथं पुनरेकमेव वस्तु युगपत्कर्म च करणं च भवति? क्रियाभेदाद्दानक्रियायां कर्माभिप्रायेण क्रियायां करणम्, दीयमानाया हि गवा शिष्य उपाध्यायामभिप्रैति संबध्नाति ईप्सति वा, अभप्रपूर्वो हीण् ईप्सतिना समानार्थः। अभिप्रेर्तामत्युक्ते ईप्सितमिति गम्यते। उक्तं च-- अनिराकरणात्कर्तुस्त्यगाङ्गं कर्मणोप्सितम्। प्रेरणानुमतिभ्यां वा लभते सम्प्रदानताम्॥ इति। त्यागो दानम्, त्यागस्याङ्गं शेषभूतं कर्मणा गवादिनेप्सितमाप्तुमिष्ट्ंअ संप्रदानतां लभते, अनिराकरणाद्वा, एवमस्त्विति अनुमानाद्वा, देवेभ्यः सुमनसो ददाति, याचकाय भिक्षा ददाति, उपाध्यायाय गां ददाति; न तु निराकुर्वन् संप्रदानं भवतीति श्लोकार्थः। अत्र केचिदाहुः- ठ्कुगतिप्रादयःऽ इत्यत्र वार्तिकम्- ठुदातवता तिङ गतेः समासवचनम्ऽ इति। यो जात एव प्रथमोमहस्वावो देवा क्रतुना पर्यभूषत्, यो यः शम्बरमन्वविन्दत्, यस्मान्न ऋते किं वजयन्ते, यो वै प्रयवयतामप्येनं प्रतिपद्यते-इत्याद्यौदाहरणानि। अत्र सर्वत्र ठ्यद्वृतान्नित्यम्ऽ इति निपातप्रतिषेधात् तिङ्न्तमुदातवत्, ततश्चायमभिप्रैतीत्यत्रापि समासे सति प्रातिपदिकत्वात् विभक्त्युत्पत्तिः स्यादिति। नेति वयम्; तस्य छन्दोविषयत्वात्। यदि कर्मणा यमभिप्रैति स संप्रदानम्, अजां नयति ग्राममिति अजैर्नयतिक्रिया कर्मभिस्संबध्यमानस्य ग्रामस्य संप्रदानतां प्राप्नोति? न प्राप्नोति, किं कारणम्? कर्मणेति करणे तृतीयेत्यक्तम्। न च यथा शिष्यस्योपाध्यायसम्बन्धे गौः करणम्, एवमजा ग्रामसम्बन्धे। ईप्सतिना समानार्थे तु सुतरामप्राप्तिः। तथा हि- ठ्यमभिप्रैतिऽ इत्युक्ते यमिति निर्दिष्टस्य शेषित्वम्, कर्मणेति निर्दिष्टस्य गवादेः करणस्य शेषत्वं च प्रतीयते; यथा-ठ्कर्त्रभिप्राये क्रियाफलेऽ इति कर्तुः शेषित्वं क्रियाफलस्य शेषत्वम्, न चात्र शेषशेषिभावः प्रतीयते। किं च ठ्नीवह्यएर्हरतेश्चऽ इति द्विकर्मकेषु नयतिः परिगण्यते, अतोऽपि ग्रामस्य न भविष्यति। अथ किमर्थं महती संज्ञा क्रियत इत्याह-अन्वर्थसंज्ञाविज्ञानादिति। सम्यक्प्रदीयते यस्मै तत्संप्रदानमित्यन्वर्थत्वात्सञ्ज्ञाया ददातिकर्मणा यमभिप्रैति स संप्रदानमित्यर्थः। एवमपि रजकस्य वस्त्रं ददाति, घ्नतः पृष्ठ्ंअ ददातीत्यत्र कस्मान्न भवति? अदानत्वात्, किं पुनर्दानम्? दानं किञ्चदुद्दिश्यापुनर्ग्रहणाय स्वद्रव्यत्यागाः, यथा-वृक्षाय जलं ददाति, देवेभ्यः सुमनसः, याचकाय भिक्षाम्, उपाध्यायाय गाम्, खण्डिकोपाध्यायस्तस्मै चपेटिकां ददाति, न शूद्राय मतिं दद्यादिति। करतलप्रहारःउचपेटिका। रजके तु पुनर्ग्रहणाद्दानाभावः, उपमानातु ददातिप्रमोगः,तत्र कारकशेषत्वान्नटस्य श्रृणोतीतिवत् षष्ठी कर्मणेति किम्, यावता उपाध्यायाय गां ददातीत्यत्र गोरुपाध्यायस्य वाभिप्रेयमाणत्वम्,यतो गौर्दानक्रियया करणभूतयाभिप्रेयते, गवा तूपाध्यायः; तत्र परत्वाद्रोः कर्मसंज्ञेति पारिशेष्याद् उपाध्यायस्यैव संप्रदानसंज्ञा भविष्यति? नैतदस्ति;सत्यप्युभयोरभिप्रेयमाणत्वेऽन्तङ्गत्वात्कर्मण एव गवादेः स्यात्। कर्मसज्ञा तु ददातिकर्मणोऽन्यत्र सावकाशा, कारकप्रकरणे च प्रकर्षो नाश्रीयते, न त्वन्तरङ्गबहिरङ्गभावोऽपि । यंसग्रहणेऽक्रियमाणेऽभिप्रेतुरेव संप्रदानसंज्ञा स्यात्; श्रुतपदार्थसम्बन्धे सति तेनैव निराकाङ्क्षत्वादध्याहारानुपपतेः। सत्यपि वाध्याहारे यः स इत्येवाध्याहारात् तत उपाध्यायाय शिष्येण गौर्दीयत इत्यत्रार्थे शिष्यायोपाध्यायस्य गौर्दीयत इति स्यात्। कर्मसंज्ञायां हि कर्तृग्रहणं स्वतन्त्रोपलक्षणार्थमिति तेन शिष्यस्य कर्तृ त्वाभावेऽपि गोः कर्मसंज्ञा युज्यत एव। तथा च सार्थाद्धीयत इति कर्मणि लकारोत्पतिः। अभिप्रग्रहणं किम्, यावता कर्मणा यमेति गच्छति प्राप्नोति संबध्नातीत्यर्थः, अभिप्रैतीत्युक्ते स एव? अभिप्रग्रहणेऽक्रियमाणे कालविवक्षा स्यात्; ततश्च यमेव संप्रत्येति तत्रैव स्यात्, यमगात् यं चैष्यति तत्र न स्यात्; अभिप्रग्रहणे पुनः क्रियमाणे न दोषो भवति। अभिराभिमुख्ये वर्तते, प्रशब्दश्चादिकर्मणि, ततश्चोपसर्गद्वयोपादानसामर्थ्यात्कालान्तरावच्छिन्ना क्रिया नाश्रीयते। ननु यथा ठ्तेन दीव्यतिऽ इत्यादौ सङ्ख्याकालयोरविवक्षा, तथेहापि संख्यावत्कालस्याप्यविवक्षा सिद्धा, सत्यम्; अयमेव न्यायसिद्धोऽर्थ उपसर्गद्वयोपादानेन प्रदर्श्यते। यदा त्वभिप्रैतीत्यस्य ईप्सतीत्यर्थः, तदाभिप्रग्रहणं कर्तव्यमेव। क्रियाग्रहणमपि कर्तव्यमिति वार्तिकम्, एतद्व्याचष्टे-क्रिययेत्यादि। ननु क्रियामपि लोके कर्मेत्युपचरन्ति-किं कर्म करिष्यसि, कां क्रियामिति, तत्र कर्मणा यमभिप्रैतीत्येव सिद्धम्। एवमपि कर्तव्यम्; ठ्कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययो भवतिऽ संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात्। क्रियापि कृत्रिमं कर्म, तथा हि-य एव मनुष्यः प्रेक्षापूर्वकारी भवति, स बुद्ध्या तावत्कञ्चिदर्थं संपश्यति-इदमीद्दशमिति, तद् द्दष्ट्ंअ प्रार्थयते-अयि ममेदं स्यादिति, ततस्तदुपायभूतां क्रियां पश्यति-अस्या एतत्फलमिति, ततः प्रार्थयते-कथमियं निष्पपाद्यतामिति, ततस्तत्साधनानि समवधार्य कर्तुमध्यवस्यति। प्रतीयमानक्रियापेक्षोऽपि कारकभावो भवत्येव, यथा-प्रविश पिण्डीमित्यत्र भक्षयेति गम्यते। सूत्रकारश्च सूत्रयति-ठ्क्रियार्थोपपदस्य च कर्मणि स्थानिनःऽ इति। एवमपि क्रियाग्रहणं कर्तव्यम्; ददातिकर्मत्वात्। निगर्हते इति। नास्तिक्यान्निन्दतीत्यर्थः। ठ्गर्ह गल्ह कुत्सायाम्ऽ अनुदातेत्। युद्धायेति। युद्धविषयं संनाहपूर्वकं निश्चयं करोतीत्यर्थः। नह्यतिः स्वरितेत्। पत्ये शेते इति। पतिमुपसृत्य शेत इत्यर्थः। यदि तर्हि क्रिययाभिप्रेयमाणस्यापि भवति कटङ्करोतीत्यादावपि प्राप्नोति, वचनाद्धि कर्मसंप्रदानसंज्ञयोः पर्यायः स्यात्? नैतत्सार्वत्रिकम्, किं तर्हि? प्रयोगदर्शनवशेन नियतविषयम्। कर्मणः करणसंज्ञेत्यादि। एतछन्दोविषयम्, सर्वे विधयश्च्छन्दसि विकल्पन्ते, इति यथाप्राप्तमपि प्रयोगो भवति। भाष्ये तु ददातिकर्मणेति नाश्रितम्, प्रयोगाश्च बहवः-अर्यम्णे चरुं निर्वपेत्, देवेभ्यो ब्रह्माएदनमपक्षत्, देवेभ्यो हव्यं वहन्तः च्छन्दांसि वै देवेभ्यो हव्यमूर्धा, यदङ्गमाशुषे त्वम्, शं नः करत्पर्वते इत्यादयः, तन्मते क्रियाग्रहणं न कर्तव्यम्। कथं यत्र संप्रदानत्वमिष्यते? तत्र संदर्शनादीनां क्रियायाश्च भेदो विवक्ष्यते, ततश्च तैराप्यमाना क्रियापि कृत्रिमं कर्मेति सिद्धं तयाभिप्रेयमाणस्य संप्रदानत्वम्, यत्र तु नेष्यते तत्र भेदो न विवक्ष्यते, ततश्चौदनाद्येकफलावच्छेदेनैकीकृतया क्रिययाऽऽप्यमानस्य कर्मत्वमेव भविष्यति-कटङ्करोति, ओदनं पचतीति। गत्यर्थेषु तूभयं विवक्ष्यते-भेदः, अभेदश्च; तत्र भेदविवक्षायां ग्रामं गच्छतीति प्रयोग इति ठ्गत्यर्थकर्मणिऽ इत्येतदपि न वक्तव्यं भवति॥
सिद्धान्तकौमुदी
दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात् ॥
अथ चतुर्थी। कर्मणा यमभि। कर्मसंज्केन गवादिद्रव्येण यमभिप्रैति शेषित्वेनऽध्यवस्यति स संप्रदानमित्यर्थः। शेषित्वं-भोक्तृत्वम्। संप्रदीयते यस्मै तत्संप्रदानमित्यन्वर्थसंज्ञैषा। ततश्च कस्याः क्रियायाः कर्मणेत्याकाङ्क्षायां दानस्येति गम्यते। तदाह--दानस्येत्यादिना। देयद्रव्योद्देश्यं संप्रदानमिति फलितम्। दानस्येति किम् ? पयो नयति देवदत्तस्य। अत्र देवदत्तस्य पयोनयनोद्देश्यत्वेऽपि न संप्रदानत्वं, पयसो दानकर्मत्वाऽभावात्।
कर्मणा। महासंज्ञाकरणमन्वर्थसंज्ञाविधानार्थम्। सम्यक् प्रदीयतेऽस्मै तत्संप्रदानमिति। अत एवाह---दानस्येति। दानक्रियाकर्मणा कर्ता यमभिप्रैति सम्बन्ध्नाति, सम्बन्द्धुमीप्सति वा तस्कारकं सम्प्रदानसंज्ञकमित्यर्थः। तेन `अजां नयति ग्रामं` `हस्तं निदधाति वृक्षे` इत्यादौ नाऽतिप्रसङ्गः। दानं चाऽनुपुनग्र्रहणाय स्वस्वत्विनिवृत्तिपूर्वकं परस्वत्वोत्पादनम्। अतएव `रजकस्य वस्त्रं ददाती`त्यादौ न भवति। तत्र हि ददातिर्भाक्तः। एतच्च वृत्तिमतम्। भाष्यमते तु नाऽन्वर्थतायामाग्रहः `खण्डिकोपाध्यायः शिष्याय चपेटां ददाति` इत्यादिप्रयोगात्। `राजकस्य ददाती`ति प्रयोगस्तु शेषत्वविवक्षायां भविष्यति। न चैवमजां नयति ग्राममित्यादावतिप्रसङ्गः शङ्क्यः, अजां प्रति ग्रामस्य शेषित्वाऽभावात्। `यमभिप्रैती`त्युक्त्या हि यमिति निर्दिष्टस्य शेषित्वं, कर्मणश्च शेषत्वं लभ्यते, गां प्रति तु विप्रस्य शेषित्वमस्तीति भवति तस्य संप्रदामसंज्ञा। अत्र अभि प्र एतीत्येतत्पदत्रयं, न तु समासः।` उदात्तवता गातिमता च तिङा गतेः समासो वक्तव्यः` इति वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः। भाषाविषयत्वे तु `यत्प्रकुरुते` इत्यादौ समासत्वात्सोर#उत्पत्तिः स्यात्। लिङ्गसर्वनाम नपुंसकतामभ्युपेत्य `स्वमोर्नपुंसकात्` इति लुकि कृतेऽपि `ह्रस्वो नपुंसके---` इति ह्रस्वः स्यात्,`यत्प्रकुर्वीर`न्नित्यत्र तु नलोपः स्यात्?, तस्मादुक्तवार्तिकस्य छन्दोविषयत्वंयुक्तमेव। दानीय इति। बाहुलकात्संप्रदाने अनीयरि। क्रिययेति। क्रियायाः कृत्रिमाकर्मत्वाऽभावात्तया अभिप्रेयमाणस्य सूत्रेण संज्ञा न प्राप्नोतीति वचनम्। एतच्च `क्रियार्थोपपदस्य च कर्मणि स्थानिनः` इत्यनेन सिद्धम्। `पत्ये शेते` इत्यादौ पतिमनुकूलयितुं शेते इत्याद्यर्थाभ्युपगमे वाधकाऽभावात्। भाष्यकारमते तु `कर्मणा यमभिप्रैति` इति सूत्रेणैव सिद्धम्, `संदर्शनप्रार्थनाऽध्यवसायैराप्यमाणत्वात्क्रियापि कृतिं?रमं कर्म` इति तैरुक्तत्वात्। नचैवमपि ददातिकर्मत्वाऽभावात् `क्रियया यमभिप्रैति` इत्येतद्वचनं कर्तव्यमेवेति वाच्यम्, भाष्येऽन्वर्थसंज्ञात्बस्वोकारात्। नन्वेनं कटं करोति, ओदनं पचतीत्यादावपि संप्रदानत्वप्रसङ्गस्तथा च वचनद्वयबलात्कर्मसंप्रदानयोः पर्यायत्वे `कटाय करोती`त्याद्यनिष्टप्रयोगोऽपि स्यादिति चेत्?। अत्राहुः--`पत्ये शेते` इत्यकर्मकस्थले सावकाशायाः संप्रदानसंज्ञायाः निरवकाशया कर्मसंज्ञया बाधितत्वान्नैवाऽनिष्टप्रसक्तिः। न चैवं `गत्यर्थकर्मणि द्वितीयाचतुथ्र्यौ---` इति सूत्रमावश्यकमेवेति तत्प्रत्याख्यानं भाष्यस्थं न सङ्गच्छत इति वाच्यम्। भाष्ये तत्प्रत्याख्यानस्य प्रौढिवादमात्रत्वादिति दिक्। स्यादेतत्---दानस्य तदर्थत्वात्तादर्थ्ये चतुर्थी सिद्धैव किमनया संप्रदानसंज्ञया ?। मैवम्। दानक्रियार्थं हि संप्रदानं न तु दानक्रिया तदर्था। कारकाणां क्रियार्थत्वात्।
लघुसिद्धान्तकौमुदी
दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात्॥
महाभाष्यम्
कर्मणा यमभिप्रैति स सम्प्रदानम् कर्मग्रहणं किमर्थम् ? यमभिप्रैति स सम्प्रादानमितीयत्युच्यमाने कर्मण एव सम्प्रदानसंज्ञा प्रसज्येत । कर्मग्रहणे पुनः क्रियमाणे न दोषो भवति । कर्म निमित्तत्वेनाश्रीयते । अथ यंसग्रहणं किमर्थम् ? कर्मणाऽभिप्रैति सम्प्रदानमितीयत्युच्यमाने अभिप्रयत एव सम्प्रदानसंज्ञा प्रसज्येत । यंसग्रहणे पुनः क्रियमाणो न दोषो भवति । यंसग्रहणादभिप्रयतः सम्प्रदानसंज्ञा निर्भज्यते । अथाऽभिप्रग्रहणं किमर्थम् ? कर्मणा यमेति स सम्प्रदानमितीयत्युच्यमाने यमेव सम्प्रत्येति तत्रैव स्यात् ‐ उपाध्यायाय गां ददातीति । इह न स्याद् ‐ उपाध्यायाय गामदादुपाध्यायाय गां दास्यतीति । अभिप्रग्रहणे पुनः क्रियमाणे न दोषो भवति । अभिराभिमुख्ये वर्तते, प्रशब्द आदिकर्मणि । तेन यं चाभिप्रैति, यं चाऽभिप्रैष्यति, यं चाभिप्रागादाभिमुख्यमात्रे सर्वत्र सिद्धं भवति । क्रियाग्रहणम्।। क्रियाग्रहणमपि कर्तव्यम् । इहापि यथा स्यात्-श्राद्धाय निगर्हते । युद्धाय सन्नह्यते । पत्ये शेते इति ।। तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । कथम् ? क्रियां हि नाम लोके कर्मेत्युपचरन्ति ‐ कां क्रियां करिष्यसि । किं कर्म करिष्यसीति । एवमपि कर्तव्यम् । कृत्रिमाऽकृत्रिमयोः कृत्रिमे सम्प्रत्ययो भवति ।। क्रियाऽपि कृत्रिमं कर्म । न सिध्यति । कर्तुरीप्सिततमं कर्म 1|4|49 इत्युच्यते, कथं च नाम क्रियया क्रियेप्सितमा स्यात् ? क्रियापि क्रिययेप्सिततमा भवति । कया क्रियया ? सन्दर्शनक्रियया वा, प्रार्थयतिक्रियया वा, अध्यवस्यतिक्रियया वा । इह य एष मनुष्यः प्रेक्षापूर्वकारी भवति स बुद्ध्या तावत्कंचिदर्थं पश्यति, संदृष्टे प्रार्थना, प्रार्थनायामध्यवसायः, अध्यवसाय आरम्भः, आरम्भे निर्वृत्तिः, निर्वृत्तौ फलाऽवाप्तिः । एवं क्रियाऽपि कृत्रिमं कर्म । एवमपि ‐ कर्मणः करणसंज्ञा वक्तव्या, सम्प्रदानस्य च कर्मसंज्ञा । पशुना रुद्रं यजते । पशुं रुद्राय ददातीत्यर्थः । अग्नौ किल पशुः प्रक्षिप्यते तद्रुरुद्रायोपह्रियत इति ।। 32 ।।