Page loading... Please wait.
1|4|30 - जनिकर्तुः प्रकृतिः
॥ तस्मै पाणिनये नम: ॥
1|4|30
SK 593
जनिकर्तुः प्रकृतिः  
सूत्रच्छेद:
जनिकर्तुः - षष्ठ्येकवचनम् , प्रकृतिः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
जनेः कर्ता जनिकर्ता। जन्यर्थस्य जन्मनः कर्ता जायमानः, तस्य या प्रकृतिः कारणम्, हेतुः, तत् कारकम् अपादानंज्ञम् भवति। शृङ्गाच्छरो जायते। गोमयाद् वृश्चिको जायते।
जनिशब्दोऽत्र साहचर्याज्जन्यर्थ वर्तते। अत एवाह-- `जन्यर्थस्य` इति। `जन्मनः` इति। एतेन जन्यर्थं दर्शयति। तथा हि-- `जनी प्रादुर्भावे` (धातुपाठः-1149) इति पठते। प्रादुर्भावो जन्म एव। कः पुनस्तस्य कत्र्तेत्यत आह-- `जायमानः` इति। `ज्ञाजनोर्जा` 7|3|79 इति जादेशः। अथ प्रकृतिग्रहणं किमर्थम्? यावता ध्रुवमित्यनुवत्र्तते, ध्रुवञ्चावधिभुतमित्युक्तम्। जनिकर्त्तृश्चावधिः कारणमेव भवति; तत्रान्तरेणापि प्रकृतिग्रहणं प्रकृतेरेव भविष्यति, नैतदस्ति; पुत्रात् प्रमादो जायत इत्यादौ पुत्रादेरप्यपादानासंज्ञा यथा स्यादित्येवमर्थं प्रकृतिग्रहणम्। द्विविधं हि कारणम्-- उपादानकारणम्, सहकारिकारणञ्च। तत्र यत् कार्येणाभिन्नदेशं तदुपादानकारणम्, यथा- घटस्य मृत्पिण्डः। सहकारिकारणं यत् कार्येण भिन्नदेशम्, यथा-- तस्यैव दण्डचक्रादि। तत्रासति प्रकृतिग्रहणे प्रत्यासत्तेरुपादानकारणस्यैव स्यात्, नेतरस्य। प्रकृतिग्रहणे तु सति सर्वस्यैव कारणमात्रस्य भवति॥
जनेः कर्ता जनिकर्तेति कर्मणि षष्ठयाः समासः। अयमेव च निर्देशो ज्ञापयति-ठ्कर्तरि चऽ इति प्रतिषेधोऽनित्य इति। कः पुनरसावित्यत आह-जन्यर्थस्येति। एतदुक्तं भवति-जनिशब्दोऽयम्ठिञ्जादिभ्यःऽ इति जनेर्भाव इञमुत्पाद्य व्युत्पादितः। ठ्जनिवध्योश्चऽ इति वृद्धिप्रतिषेधो जन्यार्थवाची, न तु ठिक्स्तिपौ धातुनिर्देशेऽ इति इक्प्रत्ययान्तः, ठ्गमहनऽ इत्युपधाया लोपप्रसङ्गत्। नाप्यागन्तुकेनेकारेण धातोर्निर्देशः; शब्दात्मकस्य धातोः कर्त्रा सम्बन्धायोगात्। अथाप्यर्थद्वारको योगः स्याद्? एवमपि धातुनिर्देशे तस्यैव प्रयोगे स्याद्, न पर्यायस्य; अङ्गादङ्गास्तम्भवोऽस्तीति। अर्थग्रहणे त्वत्रापि भवतीति। प्रकृतिरित्यस्य विवरणम्--कारणमिति। उपादानकारणमित्यर्थः। अन्ये तु ध्रुवग्रहणानुवृतेरेव प्रकृतिपरिग्रहे सिद्धे प्रकृतिग्रहणं कारणमात्रपरिग्रहार्थं वर्णयन्ति। अत एव वृतावुक्तम्-कारणमिति, न पुनरुपादानकारणमिति। तेन च पुत्रात्प्रमोदो जायत इत्यादावपि भवतीति। किं पुनः सत् जायते? उतासत्? न तावत्सत्; जन्मवैयर्थ्यात्। यदि जन्मनः प्रागेव सत्, किं जन्मना? अथैवमपि जन्म, जायस्व जायस्वेत्येव घटो जायते। नाप्यसत्; असतः कर्तृत्वायोगात्, शशविषणादेरपि जन्मप्रसङ्गच्च। उक्तमत्र-- पूर्वावस्थामविजहत्संस्पृशन् धर्ममुतरम्। संमूर्च्छित इवार्थात्मा जायमानोऽभिछीयते॥ इति। एतच्च ठान्महतःऽ इत्यत्रोपपादयिष्यामः। किञ्चास्माकमनेन दुस्तर्केअण, अस्ति तावत् ठ्श्रृङ्गाच्छरो जायतेऽ इति प्रयोगः, स उपपादनीय इत्येतावत्! अयमपि प्रपञ्चः। लोके हि यद्यस्माज्जायते तततो निर्गच्छतीत्युच्यते, लोकप्रसिद्ध्यनुसारेण शब्दप्रयोगः, अर्थतत्वं तु तथा भवत्वन्यथा वा॥
सिद्धान्तकौमुदी
जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते ॥
जनिकर्त्तुः प्रकृतिः - जनिकर्तुः प्रकृतिः । जनिर्जननमुत्पत्तिः ।जनी प्रादुर्भावे॑दैवादिकोऽकर्मकः । "इण्जादिभ्यः" इति भावे इण् ।जनिवध्योश्चे॑ति निषेधान्नोपधावृद्धिः । जनेः कर्तेति विग्रहः । शेषषष्ठआ समासः ।तृजकाभ्यां कर्तरी॑ति निषेधस्तु कारकषष्ठआ एवेति वक्ष्यते । जायमानस्येति । जनधातोः कर्तरि लटश्शानच्, श्यन्, "ज्ञाजनोर्जा"आने मुक् । उत्पत्त्याश्रयस्येत्यर्थः । प्रकृतिशब्दं व्याचष्टे-हेतुरिति । ब्राहृण इति । हिरण्यगर्भादित्यर्थः । घटादिषु कुलालादिवत्तस्य प्रजोत्पत्तौ निमित्तकारणत्वमिति भावः । वृत्तिकृन्मतमेतदयुक्तम्, संयोगविश्लेषसत्त्वेन "ध्रुवमपाये" इत्येव सिद्धत्वात् । अतोऽत्र मूले हेतुशब्द उपादानकारणपर एव । अत एव भाष्यकैयटयोःगोमायाद्वृश्चिका जायन्ते॑ गोलोमाऽविलोमभ्यो दूर्वा जायन्ते॑ इत्युदाह्मत्य परिणामेषु प्रकृतिद्रव्यावयवानुस्यूतिसत्त्वेऽपि बुद्धिकृतविश्लेषसत्त्वात् "ध्रुवमपाये" इत्येव सिद्धमिति प्रत्याख्यानं सङ्गच्छते । एवं चब्राहृणः प्रजाः प्रजायन्ते॑ इत्यत्र ब्राहृशब्देन मायोपहितमीआरचैतन्यमेव विवक्षितम् । तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः ।
जनिकर्त्तुः प्रकृतिः - जनिकर्तुः । जननं जनिः — उत्पत्तिः ।इञजादिभ्यः॑इति जनेर्भावे इञ् ।जनिवध्योश्च॑इति वृद्धिप्रतिषेधः । तस्याः कर्तेति शेषषष्ठआ समासो, न तु कारकषष्ठआ,॒तृताभ्याम् — -॑इति यथा । तदेतदाह — जायमानस्येति । एतेनइक्श्तिपौ धातुनिर्देशे॑इति इका निर्देशोऽयं जनिरित्याश्रित्यगमहन — -॑ इत्युपधालोपमर्थाऽसङ्गतिं समासानुपपतिंत चोद्भाव्य व्याकरणाधिकरणे जरन्तो मीमांसकाः समाहिता इति भावः । इह प्रकृतिग्रहणं हेतुमात्रपरमिति वृत्तिकृन्मतम्,पुत्रात् प्रमोदो जायते॑ इत्युदाहरणात् । उपादानमात्रपरमिति तु भाष्यकैयटमतं, तदुभयसाधारणमुदाहरणमाह — ब्राहृण इति । ब्राहृआ=हिरण्यगर्भ- । स च हेतुरेव न तूपादानम् । किंच मायोपहितं चैतन्यं ब्राहृ, तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
जनिकर्तुः प्रकृतिः (270) अयमपि योगः शक्योऽवक्तुम् । कथं योगमयाद्वृश्चिको जायते। गोलोमाऽविलोमभ्यो दूर्वा जायन्ते इति ? आपक्रामन्ति तास्तेभ्यः । यद्यपक्रामन्ति किं नात्यन्तायाऽपक्रामन्ति ? सन्ततत्वात् । अथवाऽन्याश्चाऽन्याश्च प्रादुर्भवन्ति ।। 30 ।।