॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|29
SK 592
1|4|29
आख्यातोपयोगे
SK 592
सूत्रच्छेद:
आख्याता - प्रथमैकवचनम् , उपयोगे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Menwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
आख्याता प्रतिपादयिता। उपयोगः नियमपूर्वकं विध्याग्रहणम्। उपयोगे साध्ये य आख्याता तत् कारकम् अपादानसंज्ञं भवति। उपाध्यायादधीते। उपाध्यायादागमयति। उपयोगे इति किम्? नटस्य शृणोति।
`नियमपूर्वकं विद्याग्रहणम्` इति। विद्याग्रहणार्थं शिष्यप्रवृत्तिः = नियमः। स पूर्वो यस्य तत् तथोक्तम्। `शेषाद्विभाषा` 5|4|154 इति कप्। `नटस्य गाथां शृणोति` इति। सम्बन्धलक्षणा षष्ठी। नियमपूर्वकमिह विद्याग्रहणं नास्ति॥
नियमपूर्वकं विद्याग्रहणमिति। तत्रैवोपयोगशब्दस्य रूढत्वात्। यथा तेषां मन्त्राणामुपयोगे द्वादशाहमधः शय्योति नियमो भिक्षाचरणादिः। नटस्य श्रृणोतीति। किं पुनर्नटः कारकम्? उताहो न ?, यदि कारकम्? कर्म संज्ञा प्राप्नोति-ठकथितं चऽ इति। अथाकारम्? उपयोगग्रहणमनर्थकं स्यात्। अस्तु कारकम्, न ह्युपाध्यायान्नटस्य व्यापारे कश्चिदन्यो विशेषः; अन्यदतो नियमात्। दुह्यादिपरिगणनातु कर्मसंज्ञा न भवति। क्वचितु नटस्य गाथां श्रृणोति, ग्रन्थिकस्य कथां श्रृणोतीति पाठः, तत्रापि नटादिनिमितं गाथादेः श्रवणं करोतीत्यर्थ; न तु गाथादिविशेषणं नटादिः; अकारकत्वप्रसङ्गात्। ग्रन्थिकःउकथाया वाचयिता। अयमपि प्रपञ्चः, कथम्? उपाध्यायान्निस्सरन्तं शब्दं गृह्णातीति स्फुट एवात्रापायः। इदं तर्हि प्रयोजनम्-ठुपयोग इति वक्ष्यामि, नटस्य मा भूत्ऽ इति? ननु नटस्य सत्यप्यवधित्वे शेषरूपेण विवक्षणात् षष्ठी भविष्यति, यथा न माषाणामश्नीयादिति वस्तुतः कर्मत्वं माषाणाम्, सत्यम्; स एव विवक्षानियमः सूत्रकारेण प्रदर्श्यते-उपयोगेऽवधित्वं विवक्षितम्, अन्यत्र शेषत्वमिति॥
सिद्धान्तकौमुदी
नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् । उपाध्यायादधीते । उपयोगे किम् ? टस्य गाथां शृणोति ॥
आख्यातोपयोगे। आख्याता-उपयोगे इति च्छेदः। आख्यातेति तृजन्तात्प्रथमैकवचनम्। उपयोगपदं व्याचष्टे-नियमपूर्वकेति। भाष्ये तथोक्तेरिति भावः। आख्यातेति तृजन्तं व्याचष्टे-वक्तेति। अध्यपयितेत्यर्थः। उपाध्यायादधीते इति। नियमविशेषपूर्वकमुपाध्यायस्योच्चारणमनूच्चरयतीत्यर्थः। षष्ठ�पवादोऽयम्। भाष्ये तूपाध्यांयान्नर्गतं वेदं गृह्णातीत्यर्थमाश्रित्य प्रत्याख्यातमिदम्।
आख्यातोप। नयमपूर्वकेति। तत्रैवोपयोगशब्दो रूढ इति भावः। आख्यातेत्येतत्तृजन्तमित्याह---वक्तेति। उपाध्यायादिति। उपेत्य अस्मादधीयत इति उपाध्यायः, `इङश्च`इति घञ्। अध्ययनं तु गुरुच्चारणोत्तरोच्चरणं नियमपूर्वकम्। नटस्येति। गाथाकर्मकं नटसंबन्धि श्रवणमित्यर्थः। नटस्य गाथाऽन्वये तु कारकत्वाऽभावादेवाऽप्राप्तेरुपयोगग्रहणम् समर्थितं स्यात्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
आख्यातोपयोगे (269) उपयोग इति किमर्थम् ? नटस्य शृणोति, ग्रन्थिकस्य शृणोति ।। उपयोगःथ्द्य;त्यप्युच्यमानेऽप्यत्र प्राप्नोति । एषोऽपि ह्युपयोगः । आतश्चोपयोगो यदारम्भका रङ्गं गच्छन्ति नटस्य श्रोष्यामः, ग्रन्थिकस्य श्रोष्याम इति । एवं तर्ह्युपयोग इत्युच्यते, सर्वश्चोपयोगः। तत्र प्रकर्षगतिर्विज्ञास्यते ‐ साधीयो य उपयोग इति । कश्च साधीयः ? यो ग्रन्थाऽर्थयोः । अथवोपयोगः को भवितुमर्हति ? यो नियमपूर्वकः । तद्यथा ‐ उपयुक्ता माणवकाःथ्द्य;त्युच्यन्ते य एते नियमपूर्वकमधीतवन्तो भवन्ति । किं पुनराख्यातानुपयोगे कारकमाहोस्विदकारकम् ? कश्चात्र विशेषः ? आख्यातानुपयोगे कारकमिति चेदकथितत्वात्कर्मसंज्ञाप्रसङ्गः ।। 1 ।। आख्यातानुपयोगे कारकमिति चेदकथितत्वात्कर्मसंज्ञा प्राप्नोति। अस्तु तर्ह्यकारकम् । अकारकमिति चेदुपयोगवचनानर्थक्यम्।। 2 ।। यद्यकारकमुपयोगवचनमनर्थकम् । अस्तु तर्हि कारकम् । ननु चोक्तम् ‐ आख्यातानुपयोगे कारकमिति चेदकथितत्वात्कर्मसंज्ञाप्रसङ्गः इति । नैषः दोषः । परिगणनं तत्र क्रियते ‐ दुहियाचिरुधिप्रच्छिभिक्षिचिञामिति । अयमपि योगः शक्योऽवक्तुम् । कथम्-उपाध्यायादधीत इति ?. अपक्रामति तस्मात्तदध्ययनम् । यद्यपक्रामति, किं नात्यन्तायाऽपक्रामति ? सन्ततत्वात् । अथ वा ज्योतिर्वज्ज्ञानानि भवन्ति ।। 29 ।।