`अन्तर्द्धौ` इति निमित्तसप्तमीयम्। `निमित्तात् कर्मयोगे` (वा।138) इति सप्तमी, यथा-- चर्मणि द्वीपिनं हन्तीति। एतदेव ज्ञापकम्-- निमित्तात् कर्मसंयोगेऽस्ति सप्तमीति। अस्त ह्रत्रादर्शनेन कर्मणा संयोगः। `येन` इति। कत्र्तरि तृतीया। ननु च `कर्त्तृकर्मणोः कृति`
2|3|65 इति षष्ठआ भवितव्यमिति? नैतदस्ति; `उभयप्राप्तौ कर्मणि`
2|3|66 इति नियमात् कर्मण्येव, न कर्तरि। कर्म त्वत्रादर्शनस्यात्मा, तस्यान्तरङ्त्वात् स एव कर्म विज्ञायते। `तत् कारकम्` इति। यद्यप्यत्र सूत्रे तच्छब्दो नोपात्तः, तथापि स यत्तदोर्नित्याभिसम्बन्धाल्लभ्यते। `उपाध्यायादन्तर्धत्ते` इत्यत्रोपाध्यायेन कर्ता शिष्य आत्मनः कर्मभूतस्यादर्शनमिच्छति। अन्तर्द्धिनिमित्तम्। अन्तद्र्धते इति दधातेर्लट्,`स्वरितञितः`
1|3|72 इत्यात्मनेपदम्, शपः श्लुः, क`श्लौ`
6|1|10 इति द्विर्वचनम्, `श्नाभ्यसत्योरातः`
6|4|112 इत्याकारलोपः, अभ्यासस्य जश्त्वम्, `दधस्तथोश्च`
8|2|38 इति दकारस्य धकारः, परस्य धकारस्य `खरि च`
8|4|54 इति चत्र्वम् = तकारः। `निलीयते` इति। `लीङ श्लेषणे` (धातुपाठः-1139) वैवादिकः।`चौरान्न दिदृक्षते` इति। अत्र यश्चौरान् न दिदृशत इति स तैरात्मनोऽदर्शनमिच्छति, न त्वन्तर्द्धिनिमित्तम्; किन्तूपघातनिवृत्त्यर्थम्। विस्पष्टार्थञ्चान्तार्द्धिग्रहण्। परत्वात् कर्मसंज्ञैव बाधितत्वाच्चौराणामिहापादानसंज्ञा न भविष्यति। प्रपञ्चार्थोऽयं योगः, न च प्रपञ्चे गुरुलाघवं चिन्त्यत इत्युक्तम्। उपाध्यायादन्तर्धते शिष्य इति शिष्यस्यान्तद्र्धातुर्मा भूत्, नैतदस्ति; ध्रुवमित्यनुवर्तते, ध्रुवञ्चावधिभूतमित्युक्तम्; न चान्तद्र्धातावधिभूतः। एवं तह्र्रसति येनेत्येतस्मिन् वचने, सत्यामपि ध्रुवमित्यस्यानुवृत्तौ सूत्रस्यावाचकत्वं स्यात्। अतस्तन्माभूदिति येनेत्युक्तम्॥