Page loading... Please wait.
1|4|27 - वारणार्थानां ईप्सितः
॥ तस्मै पाणिनये नम: ॥
1|4|27
SK 590
वारणार्थानां ईप्सितः  
सूत्रच्छेद:
वारणार्थानाम् - षष्ठीबहुवचनम् , ईप्सितः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
वारणार्थानाम् धातूनाम् प्रयोगे य ईप्सितो ऽर्थः तत् कारकम् अपादानसंज्ञं भवति। प्रवृत्तिविघातो वारनम्। यवेभ्यो गा वारयति। यवेभ्यो गा निवर्तयति। ईप्सितः इति किम्? यवेभ्यो गा वारयति क्षेत्रे।
वारणमर्थो येषां ते वारणार्थाः। `यवेभ्यो गा वारयति` इति। `गाः` इति गवामीप्सिततमत्वेन विवक्षितत्वात्कर्मसंज्ञा, गोशब्दाच्छस, `औतोऽम्शसोः` 6|1|90 इत्यात्त्वम्, रुत्वे कृते `भोभगोअधोअपूर्वस्य` 8|3|17 इति यत्वम्, `हलि सर्वेषाम्` 8|3|22 इति यलोपः। `वारयति` इति। `वृञ् आवरणे` (धातुपाठः-1813), चुरादिणिच्। `निवर्तयति` इति। `वृतु वर्तने` (धातुपाठः- 758), हेतुमण्णिच्। `यवेभ्यो गा वारयति क्षेत्रे` इति। अत्र क्षेत्रस्यानीप्सितस्य न भवति संज्ञा; ईप्सितग्रहणम्। ननु चात्र परत्वादरधिकरणसंज्ञयैव बाधितत्वादपादानसंज्ञायाः, क्षेत्रस्यापादानसंज्ञा न भविष्यतीत्यतो न कर्तव्यमीप्सितग्रहणमिति, एतन्नाशङ्कनीयम्; उक्तोत्तरत्वात्॥
ईप्सितशब्दोऽयमस्त्यभिप्रेतपर्यायः, तस्य ग्रहणे यवानामान्मीयत्वे गवां च परकीयत्व एव स्याद्, न विपर्यते? न खल्वस्यैतदभिप्रेतं यदुतात्मीया गावः परकीयान्यवान्मा घसन्निति, मा भूवन्यवा वारयितुमीप्सिताः; वार्यमाणानां तु गवामीप्सिताः, न वात्र विशेषः श्रुतः कर्तुरीप्सित इति। इह तर्हि न स्याद्-अग्नेर्माणवकं वारयति कूपादन्धमिति, न ह्यग्रिकूपौ वारयितुर्वार्यमाणस्य वाभिप्रेतौ? क्रियाशब्दस्य तु ग्रहणे वार्यमाणस्यान्थादेर्गमनादिक्रियया कूपादेराप्यमानत्वात् सिद्ध्यति, अन्धश्चापश्यन्नपि गन्तव्यं जिगमिषति, अन्यथा न क्वचितस्य प्रवृत्तिः स्यात्। यवेभ्यो गा वारयतीति। ठ्वृञ् आवरणेऽ चुरादिः। अथात्र गवामपादानसंज्ञा कस्मान्न भवति, ईप्सिततमोऽपीप्सितो भवत्येव, यथा शुक्लतमोऽपि शुक्लः? परत्वात्कर्मसंज्ञा भविष्यति। कर्मसंज्ञाया अवकाशः- वारणार्थेभ्योऽन्यत्र, अपादानसंज्ञायास्तु प्रकर्षरहितमीत्सितम्, इप्सिततमस्य तूभयप्रसङ्गे परत्वात्कर्मसंज्ञा। अयमपि प्रपञ्चः, अस्ति ह्यत्रपि बुद्धिव्यवस्थितोऽपायः, कथम्? पश्यत्ययम्-यदि गावः क्षेत्रे गच्छेयुर्ध्रुवं सस्यविनाशः, सस्यविनाशेऽधर्मश्च राजभयं च; स बुद्ध्या संप्राप्य नविर्तयतीत्यतो न चोदनीयम्-प्रत्युदाहरणे क्षेत्रस्याधिकरणसंज्ञा भविष्यतीति॥
सिद्धान्तकौमुदी
प्रवृत्तिविघातो वारणम् । वारणार्थानां धातूनां प्रयोगे ईप्सितोऽपादानं स्यात् । यवेभ्यो गां वारयति । ईप्सितः किम् ? यवेभ्यो गां वारयति क्षेत्रे ॥
वारणार्थानां ईप्सितः - वारणार्थानामीप्सितः । प्रवृत्तिविमुखीकरणं वारणम् । यवेभ्य इति । यवेषु प्रवर्तितुकामां गां प्रवृत्तिविमुखीकरोतीत्यर्थः । संयोगपूर्वकविश्लेषाऽभावात् "ध्रुवमपाये" इत्यप्राप्ताविदं वचनम् । तत्र यवानां स्वकीयतया संरक्षणीयत्वेन ईप्सितत्वादपादानत्वं, नतु गोः, तस्याः परकीयत्वेनानीप्सितत्वात्, वारणीयतया ईप्सितत्वाव्याघाताच्च । तथाचतथायुक्तं चे॑ति गोः कर्मत्वाद्द्वितीया । यदा तु यवाः परकीयाः, गौस्तु स्वकीया, तदा वारणमसंभावितमेव । वस्तुतस्तु यवानां परकीयत्वेऽपि तद्विनाशादधर्मः स्यात्, यवस्वामी गामपह्मत्य बध्नीयात्, गोस्वामिनं च यवस्वामी दण्डयेत्, अतो यवानां रक्षितुमिष्टत्वादीप्सितत्वादपादानत्वमस्त्येव । गोस्तु स्वकीयत्वेऽपि बाधकनिवृत्त्यै वारयितुमिष्टतमत्वात्कर्मत्वम् । नच गोरीप्सिततमत्वेऽपि ईप्सितत्वस्यापि सत्त्वादपादानत्वं किं न स्यादिति वाच्यम्, ईप्सिततमत्वेवारणार्थाना॑मित्यपादानत्वं बाधित्वाकर्तुरीप्सिततम॑मिति कर्मत्वस्यैव परत्वात्प्राप्तेः । नचवारणार्थानामीप्सितः॑ इत्यपादानत्वस्यकर्तुरीप्सततम॑मिति कर्मत्वापवादत्वं शङ्क्यं,कर्तुरीप्सिततम॑मिति कर्मत्वं हि ईप्सिततममात्रविषयम् । वारणार्थानामित्यपादानत्वं तु ईप्सितविषयम् । तस्य प्रकृते ईप्सितेषु यवेषु परकीयेषु सावकाशत्वान्नकर्तुरीप्सततम॑मिति कर्मत्वापवादत्वम् । अतः परत्वाद्गोः स्वकीयायाः परकीययवापेक्षया ईप्सिततमत्वात्कर्मत्वमेव । नचअग्नेर्माणवकं प्रवृत्तिविमुखीकरोतीति हि तदर्थः । तत्राग्निस्पर्शे माणवकस्य दाहप्रसङ्गात्तद्विषयप्रवृकत्तिविमुखीकरणात्मकवारणक्रिययाऽ‌ऽप्तुमिष्टतमत्वेन वारयितुरीप्सिततमत्वान्माणवकस्य कर्मत्वम् । अग्नेस्तु वारणक्रियेप्सिततममाणवकीयस्पर्शक्रियया आप्तुमिष्टतमत्वेऽपि वारयितुरीप्सिततत्वादपादानत्वम् । एतेन तयोः पृथग्ग्रहणेन । एतावतैव हरिं भजति, ग्रामं गच्छंस्तृणं स्पृशति, विषं भुङ्क्ते इत्यादिसर्वलक्ष्यसङ्ग्रहादिति निरस्तम् । कर्तृव्यापारजन्यफलाश्रयः कर्मेत्युक्तौ हिवारणार्थाना॑मिति सूत्रमस्यापवादः स्यात्, विशेषविहितत्वात् । तथाच माणवक्सय कर्मत्वं न स्यात् । नचाग्नौबाकणार्थाना॑मिति सावकाशमिति वाच्यं, वारयतेह्र्रत्र स्पर्शफलकप्रवृत्तिविघटनमर्थः । तच्चान्यतो नयनादिरूपम् । तादृशव्यापारप्रयोज्यफलं मामवककर्तृकस्पर्शफलकप्रवृत्तिविरहः । तत्र स्वर्शाशोऽग्निनिष्ठः माणवकनिष्ठश्च, संयोगरूपस्य स्पर्शस्य द्विनिष्ठत्वात् । प्रवृत्तिविरहश्च विषयतयाऽग्निनिष्ठः, आश्रयतया माणवकनिष्ठश्च । तथाच कर्तृव्यापारप्रयोज्यफलाश्रयत्वलक्षणकर्मत्वस्य परत्वादुभयत्रापि प्राप्तौवारणार्थाना॑मित्यपादानत्वं निरवकाशत्वादपवादः स्यादिति माणवकादपि पञ्चमी स्यात्, तद्बाधनार्थकर्तुरीप्सिततमं कर्मे॑त्यारब्धव्यम् । एवंच ईप्सितमात्रेऽग्नौ सावकाशस्यापादानत्वस्य परत्वादीप्सिततमे माणवके बाधः सिध्यति ।कर्तुरीप्सिततम॑मित्यारब्धे च द्रेष्योदासीनसङ्ग्रहार्थंतथायुक्त॑मित्यप्यारब्धव्यमित्यास्तां तावत् । भाष्ये तु बुद्धिकल्पितसंयोगविश्लेषकृतमपादानत्वामाश्रित्य प्रत्याख्यातमिदं सूत्रम् ।
वारणार्थानां ईप्सितः - वारणार्था । यवेभ्य इति । यवसंयोगात्प्रागेव गां निवारयतीतिध्रुवमपाये — -॑इत्यनेनाऽसिद्धावयमारम्भः । बुद्धिपरिकल्पिताऽपायमङ्गीकुर्वातो भाष्यकारस्य मते तु वैयथ्र्यमेतस्य स्फुटमेव । गां वारयतीति ।वृञ् वरणे॑ चुरादिः ।गा॑मित्यत्र ईप्सितत्वप्रयुक्ताऽपादानसंज्ञा न भवति.ईप्सिततमत्वविवक्षायां परत्वात्कर्मसंज्ञाप्रवृत्तेः । नन्वेवमीप्सितग्रहणमेव व्यर्थं, क्षेत्रे वारयतीत्यत्र परत्वादधिकरणसंज्ञाप्रवृत्तेः । सत्यम । अधिकरणस्य शेषत्वविवक्षायामिदं प्रत्युदाहरणमिति पूर्वोक्तरीत्या पदप्रयोजनस्येहापि कल्पयितुं शक्यत्वात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
वारणार्थानामीप्सितः (267) किमुदाहरणम् ? माषेभ्यो गा वारयति । भवेद्यस्य माषा न गावः, तस्य माषा इर्प्सिताः स्युः । यस्य तु खलु गावो न माषाः, कथं तस्य माषा इर्प्सिताः स्युः ? तस्याऽपि माषा एवेप्सिताः । आतश्चेप्सिताः, यदेभ्यो गा वारयति । इह कूपादन्धं वारयतीति कूपेऽपादानसंज्ञा न प्राप्नोति । न हि तस्य कूप इर्प्सितः । कस्तर्हि ? अन्धः । तस्यापि कूप एवेप्सितः । पश्यत्ययम् ‐ अन्धः कूपं मा प्रापदिति । अथ वा यथैवाऽस्यान्यत्राऽपश्यत इर्प्सैवं कूपेऽपि । इह-अग्रेर्माणवकं वारयतीति माणवकेऽपादानसंज्ञा प्राप्नोति । कर्मसंज्ञाऽत्र बाधिका भविष्यति। अग्रावपि तर्हि बाधिका स्यात् । तस्माद्वक्तव्यम् कर्मणो यदीप्सितमिति । इर्प्सितेप्सितमिति वा । वारणार्थेषु कर्मग्रहणानर्थक्यं कर्तुरीप्सिततमं कर्मेति वचनात् ।। 1 ।। वारणार्थेषु कर्मग्रहणमनर्थकम् । किं कारणम् ? कर्तुरीप्सिततमं कर्म 1|4|49 इति वचनात् । कर्तुरीप्सिततमं कर्मेत्येव सिद्धम् । अयमपि योगः शक्योऽवक्तुम् । कथं माषेभ्यो गा वारयतीति ? पश्यत्ययं यदीमा गावस्तत्र गच्छन्ति ध्रुवः सस्यविनाशः, सस्यविनाशेऽधर्मश्चैव राजभयं च । स बुद्ध्या सम्प्राप्य निवर्तयति । तत्र ध्रुवमपायेऽपादानम् 1|4|24 इत्येव सिद्धम् ।। 27 ।।