Page loading... Please wait.
1|4|24 - ध्रुवमपायेऽपादानम्
॥ तस्मै पाणिनये नम: ॥
1|4|24
SK 586
ध्रुवमपायेऽपादानम्  
सूत्रच्छेद:
ध्रुवम् - प्रथमैकवचनम् , अपाये - सप्तम्येकवचनम् , अपादानम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1] , कारके  [1|4|23]
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
ध्रुवं यदपाययुक्तम् अपाये साध्ये यदवधिभूतं तत् कारकम् अपादानसंज्ञं भवति। ग्रामादागछ्हति। पर्वतादवरोहति। सार्थाद्धीनः। रथात् पतितः। जुगुप्साविरामप्रमादार्थनाम् उपसङ्ख्यानम्। अधर्माज् जुगुप्सते। अधर्माद् विरमति। धर्मात् प्रमाद्यति। अपादानप्रदेशाः अपादाने पञ्चमी 2|3|28 इत्येवम् आदयः।
अपायः = विश्लेषःक; विभाग इत्यर्थः। तस्य द्विष्ठत्वाद्याथा तेन विभागेन योऽपैति सोऽपाययुक्तः, तथा यतोऽपैति सोऽप्यपाययुक्तः; तस्मादुभयत्र पञ्चम्या भवितव्यमित्यत एवाह-- `ध्रुवं यदापायमुक्तम्` इति। `अपाये साध्ये` इति। विषयसप्तमीयम्। अपायस्य साध्यत्वेन विषयभूत इत्यर्थः। यद्यपि ध्रुवशब्दो लोक एकरूपतामाचष्टे-- ध्रुवमस्य शीलम्, ध्रुवमस्य रूपमिति; तथाप्ययाये साध्येऽभिहितया तया न कश्चिदर्थः सम्पद्यत इति नात्र ध्रुवताऽपायं प्रत्युपयुज्यते? सैवोपदीयते, सा चावधिभाव एव। तस्यादपायस्य सन्निधौ ध्रुवशब्दः सम्बन्धात् सश्लेषलक्षणात् प्रच्यवमानस्यावधिभावमाचष्टे, इत्यत आह-- `अवधिभूतम्` इति। अत एवापाये साध्येऽवधिभूतं यत्तदिह ध्रुवशब्देनोच्यते। तेन धावतोऽआआत् पतित इत्येवमादावप्यपादानसंज्ञा अआआदेः सिद्धा भवति। असति ह्रत्रापि सत्यपि चलत्वेऽआआदेरप्यपायेऽवधिभावः।अथेह कथमपादानसंज्ञा-- अधर्याज्जुगुप्सते, अधर्माद्विरमति, धर्मात्प्रमाद्यतीति, न ह्रत्रापायोऽस्ति? कथम्? कार्यसम्प्राप्तिपूर्वको ह्रपायो भवति, न चेह कार्यसम्प्राप्तिरस्तीति आह-- `जुगुप्सा` इत्यादि। जुगुप्साद्यर्थानां धातूनां प्रयोगेऽपादानासंज्ञाया उपसंख्यानम् = प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्-- `अपादानम्िति महती संज्ञा क्रियते, महाविषयेयं संज्ञेति सूचनार्थम्। एवञ्च महाविषया भवतीयम्-- यदि सूत्रोपात्तात् संज्ञिनोऽन्योऽप्यस्या विषयो भवति, नान्यथा; तेन दजुगुप्सादीनां प्रयोगेऽसत्यपायेऽपादानसंज्ञा भविष्यतीति। अथ वा-- अस्त्येवाऽत्रापायः, न हि कार्यसम्प्राप्तिपूर्वक एवापायो भवतीति, किं तर्हि? चित्तसम्प्राप्तिपूर्वकोऽपि भवति। इह तावदधर्माज्जुगुप्सते, अधर्माद्विरमतीति, य एव मनुष्यः प्रेक्षापूर्वकारी भवति स एवं पश्यति-- दुःख हेतुरयमधर्मो नाम, अतो नार्हत्येनं सचेताः कर्त्तुमिति; एवं पश्यति-- `नास्माद्धर्मात् किञ्चिदिष्टं सम्पद्यते, दुःखमेव केवलं तदारम्भ निमित्तकं भवति` स एवं विचारयंस्तं बुद्ध्या प्राप्नोति, प्राप्य च ततो निवत्र्तते। तथा च ध्रुवमपायेऽपादानमित्येवं स#इद्धम्। `प्रमाद्यति` इति। `मदी हेर्षे` (धातुपाठः-1208), `शमामष्टानां दीर्घः श्यनि` 7|3|74 इति दीर्घः। अथेह कथमपादानसंज्ञा-- ग्रामान्नागच्छतीति? कथञ्च न स्यात्? ग्रामस्यापायेनायुक्तत्वात्। यस्यां सत्यामपायो भवति, सा प्रतिषिद्ध्यते चापादनसाधनागमनक्रिया, तदसत्यां तस्यां कुतोऽपायः? नैष दोषः अत्र ह्रपादानसंज्ञायां समुपजातायां पश्चात्प्रतिषेधेन सम्बन्धः क्रियते,अन्यथा हि प्रतिषेधस्य विषयो न दर्शितः स्यात्। तथा ह्रपादानसाधनागमनक्रिया प्रतिषेद्धुमिष्टा।तत्र यदि चादावेव निषेधः स्यात्, अपायाभावात् तदसम्बद्धस्य ग्रामस्यापादानसंज्ञा सिद्धा न स्यात्। ततश्च या प्रतिषेध्यापादानसाधनागमनक्रिया प्रतिषेधस्य विषयभूता; सा न शक्यते प्रदर्शकयितुम्; न चात्राप्रदर्शितकविषयेत प्रतिषेधः शक्यते वक्तुम्। तस्मात् पूर्वमपादानसंज्ञा भवति, पश्चात्प्रतिषेधेन योग इत्येष क्रमः।
ध्रवमिति। ध्रु गतिस्थैर्ययोः इत्यस्मात्कुटादेः पचाद्यचि रूपम्। ये तु ठ्ध्रुव गतिस्थैर्ययोःऽ इति पठन्ति, तेषामिगुपधलक्षणः कः प्रत्ययः। अपायःउ विश्लेषः, विभागस्तद्धेतुभूतश्च गतिविशेषोऽवधिसापेक्षः, तत्र विभागस्य द्विष्ठत्वात् न केवलमपयन्नेव तेन युक्तः, किं तर्हि? यतोऽपैति सोऽपि युक्त एवेत्याह-ध्रुवं यदपाययुक्तमिति। कथं पुनः सप्तमीनिर्द्देशेऽप्यपाययुक्तमिति प्रतिपद्येमहीत्यत्राह-अपाये साध्य इति। साध्यत्वेन विषयत्वात् सामर्थ्यलभ्यो योग इति भावः। ध्रुवमित्येकरूपमुच्यते- ध्रुवमस्य शीलम्, ध्रुवमस्य रूपमिति, इह तदपायेन विशेष्यते-उपाये यद् ध्रुवमिति, न तु सार्वत्रिकम्, तच्चापाये ध्रुवमुच्यते-यदपायेनानाविश्यते उपयुज्यते चापाये, तच्चार्थादवधिभूतमित्याह-यदवधिभूतमिति। एवं च सार्थाद् हीनः, रथात्पतितः, धावतः पतित इत्यादौ क्रियान्तरावेशाच्चलत्वे ततद्धावनादिक्रियानावेशातन्निमितमपायं प्रत्यौदासीन्यादस्त्येव ध्रुवत्वमिति भवत्येव संज्ञा। उक्तं च-- अपाये यदुदासीनं चलं वा चदि वा चलम्। ध्रुवमेवातदावेशात् पदपादानमुच्यते॥ इति। पततः पतित इत्यत्रापि परगतपातापेक्षया ध्रौव्यमेव। तथा हि- पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ। तस्य त्वश्वस्य पतने कुड।लदिर्ध्रुव उच्यते॥ इह तु परस्परम्मान्मेषावपसर्पत इति मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक्। मेषयोः स्वक्रिययापेक्षं कर्तृत्वं च पृथक्पृथक्॥ गतिर्विना त्ववधिना नापाय इति कथ्यते॥ जुगुप्सेति। प्रश्लेषपूर्वको विश्लेषोऽपायः, स चात्र नास्ति; बुद्धिपरिकल्पितस्तु गौणः, न च मुख्ये संभवति गौणस्य ग्रहणं युक्तम्। अत एव ठ्भीत्रार्थानाम्ऽ इत्यादेरारम्भ इति वाक्यकारस्याभिप्रायः। अत्र च कारकशेषत्वात् षष्ठी प्राप्नोति-नटस्य श्टणोतीति यथा। प्रत्याख्यानं तु साधकतममिति तमब्ग्रहणं लिङ्गम, कारकप्रकरणे यथासम्भवमेव साधकत्वमिति। तदिह-अधर्माज्जुगुप्सते इत्यादौ जुगुप्सादिपूर्विकायां निवृतौ जुगुप्सादीनां वृत्तिरिति स्थिते य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति- दुःखहेतुरधर्मो नैनं करिष्यामीति; स बुद्ध्या तं प्राप्नोति, प्राप्य तच ततो निवर्तते। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। य एष नास्तिकः पुरुषः, स पश्यति-नानेन धर्मेण किंचिदाप्यते, नैनं करिष्यामीति स बुद्ध्या तं प्राप्नोति, प्राप्य च ततो निवर्तते, तत्र ध्रुमपायैत्येव सिद्धमिति। तच्चैतत्-- निर्द्दिष्टविषयं किञ्चिदुपातविषयं तथा। अपेक्षितक्रियं चेति त्रिधाऽपादानमुच्यते॥ यत्र धातुनापायलक्षणः संज्ञाविषयो निर्दिश्यते, यथा-ग्रामादागच्छतीति, तन्निर्दिष्टविषयम्। यत्र धातुर्धात्वन्तरार्थाङ्गं स्वार्थमाह, यथा-बलाहकाद् विद्योतते विद्यौद् इति, अत्र हि निः सरणाङ्गविद्योतने विद्यौतिर्वर्तते-बलाहकन्निः-सृत्य विद्योतत इत्येव; कुसुलात्पचतीत्यत्राऽऽदानाङ्गे पाके पचिर्वर्तते-कुसूलादादाय पचतीति, तदुपातविषयम्। अपेक्षितक्रियं तु-यत्र क्रिया न श्रुयते, प्रमाणान्तरेण तु प्रतीयते, यथा-आगच्छन्तं पुरुषं प्रत्यक्षेण पश्यन्नाह-कुतो भवानिति, सोऽपि तदेव प्रत्यक्षसिद्धमागमनमुपजीवन्नाह-पाटलिपुत्रादिति। ध्रुवग्रहणं किम्? ग्रामादागच्छति शकटेन--अत्र शकटस्य मा भूत्। अथ क्रियमाणेऽपि ध्रुवग्रहण इह कस्मान्न भवति--धनुषा विघ्यतीति, अत्र हि शराणामपायं प्रति अवधिभावेनैव धनुषः साधकतमत्वम्? सत्यम्; उभयप्रसङ्गे परत्वात्करणसंज्ञा भविष्यति। नन्वेवमक्रियमाणेऽपि शकटस्य नैव भविष्यति, एवं संज्ञान्तरविषये सर्वत्र। वृक्षस्य पत्रं पततीत्यत्र त्वपायस्याविवक्षितत्वादकारकत्वाच्च न भविष्यति । संज्ञिनिर्देशार्थं तु न हि ठ्कारकेऽ इति सप्तम्यन्तेन शक्यः संज्ञी निर्देअष्टुअम्, सिद्धं तु निर्द्धार्यमाणस्य संज्ञित्वादपायविषयेषु कारकेषु मध्ये यत्कारकं संज्ञान्तरस्याविषयस्तदपादानमिति, तदेवं ध्रुवग्रहणं चिन्त्यप्रयोजनम्॥
सिद्धान्तकौमुदी
अपायो विश्लेषस्तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् ॥
ध्रुवमपायेऽपादानम् - अथ पञ्चमी । ध्रुवमपाये । अपायपदं व्याचष्टे — अपायो विश्लेष इति । वियोग इत्यर्थः ।ध्रुव॑पदं व्याचष्टे-अवधिभूतमिति । द्वयोः संयुक्तयोरन्यतरस्य चलनाद्विश्लेष इति स्थितिः । तत्र तादृशचलनाऽनाश्रयभूतं ध्रुवम् । तच्चेहार्थादवधिभूतं विवक्षितमिति भावः ।
ध्रुवमपायेऽपादानम् - ध्रुवमपाये ।ध्रु गतिस्थैर्ययोः॑ अस्मात्पचाद्यचि कुटादित्वान्ङित्त्वे उवङ् ।ध्रुव स्थेर्ये॑ इति केचित् । तत्रइगुपध — ॑इति कः । ध्रुवं स्थिरम् । अपायशब्देन विवक्षितमाह — विश्लेष इति । एवं च प्रकृतधात्वर्थाऽनाश्रयत्वे सति तज्जन्यविभागाश्रयो ध्रुवमिति फलितम् । तच्चाऽर्थादवधिरेवेत्याह — अवधिभूतमिति । धावत इति । इह धावनक्रियाविशिष्टस्याऽप्यआस्य प्रकृतपतनधातूपात्तक्रियां प्रत्यवधित्वं न विरुध्यते,परस्परस्मान्मेषावपसरतः॑ इत्यत्र तु सृधातुना गतिद्वयस्याप्युपादानादेकनिष्ठां गतिं प्रति इतरस्याप्यपादानत्वं न विरुध्यते । उक्तं च हरिणा — ॒अपाये यदुदासीनां चलं वा यदि वाऽचलम् । ध्रुवमेवाऽतदावेशात्तदपादानमुच्यते । पततो ध्रुव एवास्वो यस्मादआआत्पतत्यसौ । तस्याप्यआस्य पतेन कुडआदि ध्रुवमिष्यते । मेषान्तरक्रियापेक्षमवधित्वं पृथकं पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक् पृथक्॥ इति ।पर्वतात्पततोऽआआत्पतती॑त्यत्र तु पर्वतावधिकपतनाश्रयो योऽआस्तदवधिकं देवदत्तादिनिष्ठं पतनमर्थः, पञ्चम्यर्थाऽवधौ अभेदेन संसर्गे प्रकृत्यर्थः परवतादिर्विशेषणम्, प्रत्ययार्थस्तु पतनक्रियायाम्, स चाऽवधिरूपो धर्मी, न तु धर्ममात्रम्,उद्धृतौदन स्थाली॑ त्यात्रौदनकर्मकोद्धरणावधिभूता स्थालीति सामानाधिकरण्यदर्शमात् । एतच्च मनोरमायां स्थितम् । नन्विह ध्रुवग्रहणं किमर्थम् । न चग्रामादागच्छति शकटेने॑त्यत्र शकटेऽतिव्याप्तिवारणाय तदिति वाच्यम्, परत्वात्तत्र करणसंज्ञाप्रवृत्तेः । न च संज्ञिनिर्देशार्थं ध्रुवग्रहणम्, कारकाऽधिकारात् कारकमिति लभ्यत इति ध्रुवग्रहणं चिन्त्यप्रयोजनमिति चेत् । अत्र वदन्ति — कारकत्वरूपव्यापकधर्ममात्रविवक्षायां साधकतमत्वेन विवक्षाऽभावदशायां करणसंज्ञाप्रसङ्गेन शकटस्याऽपादानत्वं स्यात्तन्मा भूदित्येतदर्थं ध्रुवग्रहणमिति ।जुगुप्साविरामप्रमादार्थानासुपसंख्यानम् । जुगुप्सेति । जुगुप्सा-निन्दा, विरमो विरतिः, प्रमादोऽनवधानता, एतदर्थकानां धातूनां कारकमपादानसंज्ञं स्यादित्यर्थः । संयोगपूर्वको विश्लेषो विभागः, स चेह नास्ति, बुद्धिकृतस्तु गौणत्वान्नेह गृह्रत इति सूत्रेणाऽप्राप्तौ वार्तिकारम्भः । भाष्याकारस्तु — कारकप्रकरणे गौणमुक्यन्यायो नाश्रीयत इति तमब्ग्रहणेन ज्ञापितत्वाज्जुगुप्सादीनां तत्पूर्वकनिवृत्तिवाचित्वामाश्रित्येदं वार्तिकं,भीत्रार्थानाम् — -॑इत्यादि सूत्राणि च प्रत्याचख्यौ । पूर्वं हि बुद्द्याऽपायं संप्राप्य ततो दोषदर्शनान्निवर्तत इत्यस्त्येवाऽत्र बुद्धिकृतोऽपायः ।
लघुसिद्धान्तकौमुदी
अपायो विश्लेषस्तस्मिन्साध्ये यद् ध्रुवमवधिभूतं कारकं तदपादानं स्यात्॥
महाभाष्यम्
ध्रुवमपायेऽपादानम् (264) ध्रुवग्रहणं किमर्थम् ? ग्रामादागच्छति शकटेन। नैतदस्ति । करणसंज्ञाऽत्र बाधिका भविष्यति। इदं तर्हि ‐ ग्रामादागच्छन्कंसपात्र्यां पाणिनौदनं भुङ्क्ते इति । अत्राप्यधिकरणसंज्ञा बाधिका भविष्यति । इदं तर्हि ‐ वृक्षस्य पर्णं पतति, कुड्यस्य पिण्डः पततीति । जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् ।। 1 ।। जुगुप्साविरामप्रामादार्थानामुपसंख्यानं कर्तव्यम् । जुगुप्सा ‐ अधर्माज्जुगुप्सते । अधर्माद्बीभत्सते। विराम ‐ धर्माद्विरमति । धर्मान्निवर्तते । प्रमाद ‐ धर्मात्प्रमाद्यति । धर्मान्मुह्यति । इदं चोपसंख्यानं कर्तव्यम् ‐ सांकाश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इति । तत्तर्हीदं बहु वक्तव्यम् ? न वक्तव्यम् । इह तावद् ‐ -अधर्माज्जुगुप्सते अधर्माद्बीभत्सते इति। य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति ‐ दुःखोऽधर्मो नाऽनेन कृत्यमस्तीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम्। इह धर्माद्विरमति धर्मान्निवर्तते इति। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। इह य एष मनुष्यः संभिन्नबुद्धिर्भवति स पश्यति ‐ नेदं किंचिद्धर्मो नाम नैनं करिष्यामीति । स बुद्ध्या संप्राप्य निवर्तते । तत्र ध्रुवमपायेऽपादानमित्येव सिद्धम् । इह च साङ्काश्यकेभ्यः पाटलिपुत्रका अभिरूपतरा इति यस्तैः साम्यं गतवान्भवति स एतत्प्रयुङ्क्ते । गतियुक्तेष्वपादानसंज्ञा नोपपद्यतेऽध्रुवत्वात् ।। 2 ।। गतियुक्तेष्वपादानसंज्ञा नोपपद्यते । रथात्प्रवीतात्पतितः । अश्वात्र्रस्तात्पतितः। सार्थाद्गच्छतो हीन इति । किं कारणम् ? अध्रुवत्वात् । न वाऽध्रौव्यस्याविवक्षितत्वात् ।। 3 ।। न वैष दोषः । किं कारणम् ? अध्रौव्यस्याविवक्षितत्वात् नाऽत्राऽध्रौव्यं विवक्षितम् । किं तर्हि ? ध्रौव्यम् । इह तावदश्वात्त्रस्तात्पतित इति, यत्तदश्वेऽश्वत्वमाशुगामित्वं तद्ध्रुवं तच्च विवक्षितम् । रथात्प्रवीतात्पतित इति यद्रथे रथत्वं रमन्तेऽस्मिन् रथ इति तद्ध्रुवं तच्च विवक्षितम् । सार्थाद्गच्छतो हीन इति, यत्तत्सार्थे सार्थत्वं सहार्थीभावस्तद्ध्रुवं तच्च विवक्षितम् । यद्यपि तावदत्रैतच्छक्यते वक्तुम्। ये त्वेतेऽत्यन्तंगतियुक्तास्तत्र कथम् ‐ धावतः पतितस्त्वरमाणात्पतित इति ? अत्रापि ‐ ।न वाऽध्रौव्यस्याऽविवक्षितत्वादित्येव सिद्धम्। कथं पुनः सतो नामाऽविवक्षा स्यात् ? सतोऽप्यविवक्षा भवति । तद्यथा ‐ अलोमिका एडका। अनुदरा कन्येति । असतश्च विवक्षा भवति ‐ समुद्रः कुण्डिका, विन्ध्यो वर्धितकमिति ।। 24 ।।