Page loading... Please wait.
1|4|20 - अयस्मयादीनि च्छन्दसि
॥ तस्मै पाणिनये नम: ॥
1|4|20
SK 3390
अयस्मयादीनि च्छन्दसि  
सूत्रच्छेद:
अयस्मयादीनि - प्रथमाबहुवचनम् , छन्दसि - सप्तम्येकवचनम्
अनुवृत्ति:
भम्  [1|4|18] - प्रथमैकवचनम् , पदम्  [1|4|14] - प्रथमैकवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
अयस्मयादीनि छन्दसि भम् पदम्
सूत्रार्थ:
"अयस्मय" आदयः शब्दाः भसंज्ञकाः पदसंज्ञकाः च यथायोग्यम् ज्ञातव्याः ।
केषाञ्चन शब्दानाम् विषये वेदेषु भसंज्ञकशब्दवत् अपि किञ्चित् कार्यम् कृतम् दृश्यते, पदसंज्ञकशब्दवत् अपि किञ्चित् कार्यम् कृतम् दृश्यते । यद्यपि एतेषां शब्दानां विशिष्टा आवली नास्ति, तथापि एतादृशाः शब्दाः "अयस्मयादीनि" इत्यनेन वर्तमानसूत्रेण गृह्यन्ते । वेदानां विषये एतेषां शब्दानाम् यथायोग्यम् उभेऽपि संज्ञे भवतः - इति अस्य अर्थः ।

यथा, "अयस्" शब्दस्य मयट्-प्रत्यये कृते "अयस् + मयट्" इत्यत्र अङ्गस्य शब्दस्य वस्तुतः पदसंज्ञा भवेत्, परन्तु अत्र भसंज्ञा कृता दृश्यते । (पदसंज्ञायां सत्याम् ससजुषो रुः 8|2|66 इत्यनेन रुत्वम् अभविष्यत्, येन "अयोऽमय" इति रूपम् अभविष्यत् । परन्तु तथा न भवति ।) । अतः अस्य शब्दस्य अत्र निर्देशं कृत्वा अस्य "यथा आवश्यकम्" भसंज्ञा भवति इति उक्तम् अस्ति ।

अस्मिन् एव सूत्रे एकम् वार्तिकम् अपि अस्ति येन अयमेव अर्थः दृढीक्रियते - उभयसंज्ञानि अपि इति वक्तव्यम् । उभे अपि संज्ञे यथायोग्यं भवतः इत्यर्थः ।

अन्यानि कानिचन उदाहरणानि -
1. स सुष्टुभा स ऋक्वता गणेन (ऋग्वेदः - 4.50.5) - अत्र ऋच् + वतुप् इत्यत्र ऋच्-इत्यस्य पदसंज्ञां कृत्वा चोः कुः 8|2|31 इत्यनेन कुत्वम् भवति, ततः ऋक्-इत्यस्य भसंज्ञां कृत्वा झलां जशोऽन्ते 8|2|39 इत्यनेन पदान्ते निर्दिष्टं जश्त्वं निषिध्यते । अनेन प्रकारेण अत्र उभेऽपि संज्ञे यथायोग्यं भवतः ।

2. नैनं हिन्वन्त्यपि वाजिनेषु (ऋग्वेदः - 10.71.05) - अत्र वाच् + ईनिँ इत्यत्र आरम्भे वाच्-इत्यस्य भसंज्ञां कृत्वा चोः कुः 8|2|31 इत्यनेन विधीयमानं कुत्वम् निषिध्यते । तदनन्तरम् वाच्-इत्यस्य पदसंज्ञां कृत्वा झलां जशोऽन्ते 8|2|39 इत्यनेन पदान्तचकारस्य जश्त्वं विधीयते । अत्रापि उभेऽपि संज्ञे यथायोग्यं कृते स्तः ।

3. सूत्रपाठस्य प्रथमम् सूत्रम् - वृद्धिरादैच् 1|1|1 - इत्यत्र पदान्ते विद्यमानस्य चकारस्य कुत्वम् न भवति, यतः अत्रापि ऐच्-इत्यस्य भसंज्ञां कृत्वा चोः कुः 8|2|31 इत्यनेन विधीयमानं कुत्वम् निषिध्यते । छन्दोवत्सूत्राणि भवन्ति, अतः अत्र अस्य सूत्रस्य प्रयोगं कर्तुं शक्यते ।
One-line meaning in English
For "अयस्मय" and other words in the वेदा:, the भसंज्ञा and the पदसंज्ञा are applied as required.
काशिकावृत्तिः
अयस्मयाऽदीनि शब्दरूपाणि छन्दसि विशये साधूनि भवन्ति। भपदसंज्ञाधिकारे विधनात् तेन सुखेन सधुत्वम् अयस्मयाऽदीनां विधीयते। अयस्मयं वर्म। अयस्मयानि पात्राणि। क्वचिदुभयम् अपि भवति। स सुष्टुभा स ऋक्वता गणेन। पदत्वात् कुत्वं, भत्वाज् जश्त्वं न भवति। छन्दसि इति किम्? अयोमयं वर्म। आकृतिगणो ऽयम्।
यद्यत्र भसंज्ञा विधीयेत तदा पदसंज्ञा न स्यात्, अथ यदि पदसंज्ञा विधीयेत तदाऽत्र भसंज्ञा न स्यात्, तदा भपदसंज्ञयोः समावेशो न स्यात्; एकसंज्ञाधिकारात्। साधुत्वविधाने त्वेष दोषो न भवति, तद्धि केषाञ्चिद्भसंज्ञा विधीयते पदसंज्ञकानाम्, केषाञ्चिदुभयसंज्ञाकानाम्; तस्मात् साधुत्वमेव विधातुं युक्तमित्यत आह-- `अयस्मयादीनि` इत्यादि। कथं पुनरेषां साधुत्वं विधीयत इत्याह-- `भपदसंज्ञाधिकारे` इत्यादि। द्वारम्, मुखम्, उपाय तत्र भाषाग्रहणमस्ति, तथाप्ययस्मयशब्दस्यास्मादेव साधुत्वविधानाच्छन्दस्यपि मयड् भवतीति भत्वाद्रुत्वं न भवति। `सऋक्वता` इति। ऋचोऽस्य सन्तीति मतुप्। पदत्वात् `चोः कुः` 8.3.30) इति कुत्वम्। भत्वात् `झलां जशोऽन्ते` 8|2|39 इति जश्त्वं न भवति। `आकृतिगणोऽयम्` इति। आदिशब्दस्य प्रकारवाचित्वात्॥
यदि संज्ञा विधीयेत आनन्तर्थाद्भसंज्ञाविधानद्वारेणैव निपातनं स्यात्, पदसंज्ञा न स्याद्, भपदसंज्ञयोः समावेशो न स्यात्, तस्मात्साधुत्वमेव युक्तं विधातुमिति मत्वाह-अयस्मयादिनीत्यादि। साधुत्वे प्रकारविशेषं दर्शयति। भपदसंज्ञाधिकार इत्यादि। द्वारमूपायः। अयस्मयमिति। अयसो विकारः ठ्द्व्यचश्च्छन्दसिऽ इति मयट्॥
सिद्धान्तकौमुदी
एतानि छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोग्यं संज्ञाद्वयं बोध्यम् । तथा च वार्तिकम् ॥ उभयसंज्ञान्यपीति वक्तव्यमिति (वार्तिकम्) ॥ स सुष्टुभा स ऋक्वता गणेन (स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑) । पदत्वात्कुत्वम् । भत्वाज्जश्त्वाभावः । जश्त्वविधानार्थायाः पदसंज्ञाया भत्वसामर्थ्येन बाधात् । नैनं हिन्वन्त्यपि वाजिनेषु (नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु) । अत्र पदत्वाज्जश्त्वम् । भत्वात्कुत्वाभावः । ते प्राग्धातोः (कौमुदी-2230)
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अयस्मयादीनि च्छन्दसि (260) उभयसंज्ञान्यपि।। 1 ।। उभयसंज्ञान्यपीति वक्तव्यम् । स सुष्टुभा स ऋक्वता गणेन ।। 20 ।।