॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|2
SK 175
1|4|2
विप्रतिषेधे परं कार्यम्
SK 175
सूत्रच्छेद:
विप्रतिषेधे - सप्तम्येकवचनम् , परम् - प्रथमैकवचनम् , कार्यम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
विप्रतिषेधे परम् कार्यम्
सूत्रार्थ:
तुल्यबलसूत्रयोः समानकाले प्रसक्तिः अस्ति चेत् परसूत्रस्यैव प्रयोगः भवति ।
प्रक्रियायाम् यत्र कस्मिंश्चित् स्थले द्वयोः भिन्नयोः सूत्रयोः समानकाले प्रसक्तिः अस्ति, तर्हि कस्य सूत्रस्य प्रयोगः करणीयः अस्मिन् विषये अनेन सूत्रेण सिद्धान्तः प्रोक्तः अस्ति । यत्र द्वयोः तुल्यबलयोः सूत्रयोः समानकाले प्रसक्तिः जायते, तत्र अष्टाध्याय्यां अनन्तरम् यत् सूत्रम् उक्तम् अस्ति, तस्य प्रयोगः भवति इत्याशयः ।

अस्य सूत्रस्य अर्थम् ज्ञातुम् आदौ "तुल्यबलम्" इत्युक्ते किम्, तत् जानीमः । यदि द्वयोः सूत्रयोः परस्परयोः प्रसक्तिं विना अपि प्रयोगः भवितुम् अर्हति, तर्हि तयोः सूत्रयोः तुल्यबलत्वम् अस्ति इत्युच्यते । एकम् उदाहरणम् पश्यामः -
बहुवचने झल्येत् 7|3|103 अनेन सूत्रेण अदन्तस्य अङ्गस्य "बहुवचनस्य सुप्-प्रत्यये परे" एकारादेशः भवति । यथा - राम + सुप् = रामेषु ।
अतो दीर्घो यञि 7|3|102 अनेन सूत्रेण अदन्तस्य अङ्गस्य "यञादि-सुप्-प्रत्यये परे" आकारादेशः भवति । यथा - राम + भ्याम् → रामाभ्याम् ।

एतयोः द्वयोः सूत्रयोः परस्पराभ्याम् विना अपि भिन्नेषु स्थलेषु प्रसक्तिः अस्ति । यथा - "राम + सुप् → रामेषु" इत्यत्र केवलं बहुवचने झल्येत् 7|3|103 अस्य प्रयोगः भवितुम् अर्हति, अतो दीर्घो यञि 7|3|102 अस्य न । तथैव, "राम + भ्याम् → रामाभ्याम्" इत्यत्र केवलं अतो दीर्घो यञि 7|3|102 एतत् सूत्रम् प्रयुज्यते, बहुवचने झल्येत् 7|3|103 एतस्य प्रसक्तिः नास्ति । अतः एतयोः द्वयोः सूत्रयोः मध्ये "तुल्यबलत्वम्" अस्ति इत्युच्यते ।

इदानीम् "राम + भ्यस्" अत्र किम् भवति पश्यामः । अत्र "भ्यस्" प्रत्ययः यञादिः अस्ति, अतः अत्र अतो दीर्घो यञि 7|3|102 इत्यनेन अङ्गस्य दीर्घादेशः भवितुम् अर्हति । परन्तु अत्र "भ्यस्" अयम् बहुवचनस्य प्रत्ययः अपि अस्ति, अतः अत्र बहुवचने झल्येत् 7|3|103 इत्यनेन अङ्गस्य एकारादेशः अपि भवितुम् अर्हति । अतः अत्र द्वयोः तुल्यबलयोः सूत्रयोः समानस्थले प्रसक्तिः अस्ति । अस्याम् स्थितौ विप्रतिषेधे परं कार्यम् 1|4|2 इत्यनेन एतत् स्पष्टीक्रियते यत् अत्र परसूत्रस्यैव प्रयोगः करणीयः । इत्युक्ते, अत्र बहुवचने झल्येत् 7|3|103 इत्यनेन एकारादेशः एव भवति, अतो दीर्घो यञि 7|3|102 इत्यनेन आकारादेशः न । अतः अत्र राम + भ्यस् = रामेभ्यः इति रूपं सिद्ध्यति ।

अन्यदेकम् उदाहरणम् पश्यामः -
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6|4|77 इत्यनेन इकारान्तधातोः अजादिप्रत्यये परे इयङ्-आदेशः विधीयते । यथा - रि (गतौ, तुदादिगणः) + श + ति → रियति ।
सार्वधातुकार्धधातुकयोः 7|3|84 इत्यनेन इकारान्तधातोः सार्वद्धातुके / आर्द्धधातुके प्रत्यये परे गुणादेशः भवति । यथा - नी (प्रापणे, भ्वादिगणः) + तुमुन् → नेतुम् ।
उपरिनिर्दिष्टयोः उदाहरणयोः उभयोः सूत्रयोः स्वतन्त्ररूपेण प्रसक्तिः अस्ति, अतः एतयोर्मध्ये तुल्यबलत्वम् अस्ति इत्युच्यते । इदानीम् "नी (प्रापणे, भ्वादिगणः) + शप् + ति" इत्यत्र किं भवति पश्यामः । शप् (=अ) इति अजादिप्रत्ययः अस्ति, अतः अत्र अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6|4|77 इत्यनेन इयङ्-आदेशः भवितुम् अर्हति, तथा च शप् इति सार्वधातुकः प्रत्ययः अस्ति अतः अत्र सार्वधातुकार्धधातुकयोः 7|3|84 इत्यनेन गुणः अपि भवितुम् अर्हति । अस्याम् अवस्थायाम् वर्तमानसूत्रेण अत्र परसूत्रस्यैव प्रसक्तिः निर्दिश्यते । अतः अत्र सार्वधातुकार्धधातुकयोः 7|3|84 इत्यनेन गुणं कृत्वा "नयति" इति रूपं सिद्ध्यति ।

अनेन प्रकारेण यत्र द्वयोः तु्ल्यबलसूत्रयोः समानस्थले प्रसक्तिः अस्ति (इत्युक्ते, यत्र विप्रतिषेधः अस्ति), तत्र सदा परसूत्रस्यैव प्रयोगः भवति ।

अस्य सूत्रस्य विषये बिन्दुद्वयम् ज्ञातव्यम् -
1. यदि द्वयोः सूत्रयोः मध्ये तुल्यबलत्वं नास्ति, तर्हि ताभ्याम् एकं सूत्रम् अन्यस्य अपवादः अस्ति इत्युच्यते । अस्याम् स्थितौ अपवादसूत्रस्यैव प्रयोगः करणीयः ।
2. विप्रतिषेधे परं कार्यम् 1|4|2 अस्य सूत्रस्य प्रसक्तिः केवलं सपादसप्ताध्याय्याम् एव भवति । त्रिपाद्याम् परसूत्राणि पूर्वसूत्राणाम् अपेक्षया असिद्धानि सन्ति, अतः तत्र पूर्वपरयोः सूत्रयोः समानस्थले प्रसक्तिः अस्ति चेत् नित्यं पूर्वसूत्रस्यैव प्रयोगः भवति ।
One-line meaning in English
If two सूत्राणि which can be invoked independent of each other happen to conflict at the same step during a प्रक्रिया, then out of these two the one that appears later in अष्टाध्यायी gets used at that place.
काशिकावृत्तिः
तुल्यबलविरोधो विप्रतिषेधः। यत्र द्वौ प्रसङ्गावन्यार्थवेकस्मिन् युगपत् प्राप्नुतः, स तुल्यबलविरोधो विप्रतिषेधः। तस्मिन् विप्रतिषेधे परं कार्यं भवति। उत्सर्गापवादनित्यानित्यान्तरङ्गवहिरङ्गेषु तुल्यबलता न अस्ति इति न अयम् अस्य योगस्य विषयः। बलवतैव तत्र भवितव्यम्। अप्रवृत्तौ, पर्यायेण वा प्रवृत्तौ प्राप्तायां वचनम् आरभ्यते। अतो दीर्घो यञि 7|3|101, सुपि च 7|3|102 इत्यस्य अवकाशः वृक्षाभ्याम्, प्लक्षाभ्याम्। वहुवचने झल्येत् 7|3|103 इत्यस्य अवकाशः वृक्षेषु, प्लक्षेषु। इह उभयं प्राप्नोति वृक्षेभ्यः, प्लक्षेभ्यः इति। परं भवति विप्रतिषेधेन।
`विरोधो विप्रतिषेधः ` इत। विप्रतिषेधशब्दस्य लोके विरोधवाचित्वेन प्रसिद्धत्वात्। तथा हि-- विरुद्धेऽभिहिते वक्तारो वदन्ति-- `विप्रतिषिद्धमिदमुच्यते` इति, विरुद्धमिति गम्यते। तस्य विप्रतिषेधस्य विषयं दर्शयितुमाह-- `यत्र` इत्यादि। प्रसज्येते विधीयेते इति प्रसङ्गौ = विधी। `अन्यार्थौ` इति। अन्यत्र विषयेऽर्थः प्रयोजनं ययोस्तौ तथोक्तौ। अन्यत्र विषयान्तरे कृतार्थावित्यर्थः। `एकस्मिन्` इति। अभिन्ने। युगपत् = एककलाम्। स इत्यस्य विप्रतिषेध इत्यने सम्बन्धः। स विप्रतिषेधो विप्रतिषिद्धः, विप्रतिषेधस्य विषय इत्यर्थः। विप्रतिषेधविषयत्वाद्विप्रतिषेदविषयो ह्रत्र विप्रतिषेधशब्देनोक्तो विषयिणा विषयं दर्शयितुम्। यस्मान्न प्रसङ्गो विप्रतिषेध उपपद्यते, नापि तदाधारः। `तुल्यबलविरोधः` इति। तुल्यबलयोर्विरोधोऽस्मिन्निति बहुव्रीहिः। इदं जातिपक्षमाश्रित्य विवरणं कृतम्। द्रव्यपदार्थपक्षे त्वयं विशेषः-- अन्यः= भिन्नोऽर्थः = प्रयोजनं यतोस्तावन्यार्थाविति। शेषं समानम्। `विप्रतिषेधे` इति च सती सप्तमीयम्।`उत्सर्गापवाद` इत्यादि। विप्रतिषेधो यत्रास्ति, सोऽय योगस्यावकाशः। विप्रतिषेधञ्च तुल्यबलयोरेव भवतीति नातुल्यबलयोः। एतत्तु `यत्र हि प्रसङ्गावन्यार्थौ`इत्यादिग्रन्थेन तस्य विषयं दर्शयता व्याख्यातम्। न चोत्सर्गापवादादिषु तुल्यबलतास्तीति, ततो नासावुत्सर्गापवादादिरस्य योगस्य विषयः। तेन बलवानेव तत्र भवति; तत्र सामान्येनोत्सर्गः प्रवत्र्तते; यथा--`आर्धधातुकस्येड्वलादेः` 7|2|35 इति, वलादिसामान्यस्येड्विधानात्। विशेषोऽपवादः, यथा-- नेड वशि कृति` 7|2|8 इतीट्प्रतिषेधस्य वलादिविशेषे वशादौ कृति विधानात्। यस्य च विशेषे विधिः, स बलवान् भवति; तथा हि-- ब्राआहृणेभ्यो दधि दीयताम्, तक्रं कौण्डिन्यायेति विशेषविहितं तक्रदानं सामान्यविहितस्य दधिदानस्यैव बाधकं भविष्यति। तस्माद्वशादौ कृति परेऽपीडागमो न भवति, प्रतिषेध एव भवति-- `स्थेशभासपिसकसो वरच` 3|2|175 ईआर इति। नित्यानित्ययोर्नित्यं बलवत् यथा- `भिस ऐस्` 7|1|9 इत्यैत्वम्। तद्धि `बहुवचने झल्येत्` 7|3|103 इत्येत्त्वे कृते प्राप्नोति। अकृतेऽपि-- भूतपूर्वगत्याश्रयणादकारान्तादङ्गद्भिस ऐस् विहित इति कृत्वा। यश्च कृताकृतप्रशङ्गी विधिः स नित्य इति। तथा च तत्र 7|1|9 वक्ष्यति-- एत्त्वं भिसि परत्वाच्चेदत ऐस् क्व भविष्यति।कृतेऽप्येत्त्वे भौतपूव्र्यादैस्तु नित्यस्तथा सति॥इति स नित्यः। ऐस्त्वे एत्त्वं न प्राप्नोति; निमित्तस्य झलादेर्विहितत्वात्। वृक्षेष्व्तयादादेत्त्वस्यावकाशः, अस्मश्च सति भूतपूर्वगत्याश्रयणस्यायुक्तत्वात्। तस्मात् तदनित्यम्। यच्चानित्यं तत् परस्य भावाभावमपेक्षत इति दुर्बलम्। विपर्ययात् तु नित्यं बलवत्। तेन वृक्षैरिति परमप्येत्त्वं न भवति। ऐस्भाव एव तु भवति।अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलवदिति लोकत एव दृष्टत्वात्। लोको हि प्रातरुत्थायान्तरङ्गाणि मुखप्रक्षालनादीनि कार्याणि करोति, पश्चद्बहिरङ्गाणि राजगृहगमनादीनि कार्याणि कर्त्तुमारभते। शास्त्रेऽप्येवं वेदितव्यम्। दिवि कामोऽस्य द्युकामः, तस्यापत्यम् `अत इञ्` 4|1|95 द्यौकामिः। यद्यपि द्युकामशब्दादिञ् विहितः, तथापि `अकृतव्यूहाः पाणिनीयाः` (व्या।प।84) कृतमपि शास्त्रं निवत्र्तयन्तीति,प्रविभ्जायन्वाख्याने दिव् काम इञिति स्थिते `दिव् उत्` 6|1|127 इत्युत्त्वे कृते यणादेशः प्राप्नोति, `तद्धितेष्वचामादेः` 7|2|117 इति परत्वात् वृद्धिः प्राप्नोति? अन्तरङ्गत्वाद्यणादेशः पूर्वो विधिः क्रियते, पश्चाद्वृद्धिरुकारस्य। अन्तरङ्गत्वन्तु यणादेशस्य वर्णाश्रयत्वात्। वृद्धेस्तु बाह्रतद्धिताश्रयाद्बहिरङ्गत्वम्। `वार्णादाङ्गं बलीयः` (व्या।प।39) इत्येतदिह न प्रवर्तते; व्याश्रयत्वात्।`अप्रवृत्तौ` इत्यादि। यदा `आकृतिः पदार्थः`इत्येष पक्ष, तदाऽन्यत्र कृतार्थत्वाच्छास्त्रयोर्विप्रतिषेधे सति परस्परप्रतिबन्धादप्रवृत्तिरेव प्राप्नोति; यथा-- यदिह द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति, तौ च युगपत् प्रेषयतः, नानादिक्षु तयोः कार्ये भवतः। ततो यद्यसावविरोधार्थी भवति तदोभयोरपि कार्ये न प्रवर्तते। द्रव्ये पदार्थे तु प्रतिव्यक्ति लक्षणं प्रवत्र्त इत्यकृतार्थत्वल्लक्षणयोः पर्यायेण प्रवृत्तिः प्राप्नोति, यथा-- ब्राआहृणक्षत्रियादीनामसहभुजामेकस्मिन् भाजने भुजक्रियायां पर्यायः स्यात्। तत्र जातौ पदार्थे कृतार्थत्वाद्वृत्तौ प्राप्तयां विध्यर्थमिदमारभ्यते-- विप्रतिषेधे सति परं कार्यं भवतीति। तत्र कृते यदि पूर्वमपि प्राप्नोति, तदपि भवत्येव। तत्रेदमुच्यते-- पुनः प्रसङ्गविज्ञानात् सिद्धमिति। व्यक्तौ तु पदार्थेऽकृतार्थत्वात् शास्त्रयोः पर्यायेण प्रवृत्तौ प्राप्तयां नियमार्थमिदम्-- विप्रतिषेधे परमेव भवति न पूर्वमिति। तत्रेदमुच्यते-- `सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव` (व्या।प।40) इति।
विप्रतिषेध इति। ठ्षिधु शास्त्रेऽ,ठ्षिधु गत्याम्ऽ इति भौवादिकयोरन्यतरस्य रूपम्, तस्य हि ठ्सेधसिचसञ्जस्वञ्जाम्ऽ इति षत्वमिति। उपसर्गवशाच्च विरोधार्थत्वम्। धातुनां ह्युपसर्गवशादन्यश्चार्थ उपजायते,तद्यथा--प्रहारः, उपहारः, अनुहारः, संहार इति। ठ्षिधू संराद्धौऽ इत्यस्य तु दैवादिकस्य षत्वं नास्ति, ठ्सेधषिचऽ इति शपा निर्देशात्। ठादेशप्रत्यययोःऽ इति विहितस्य तु ठ्सात्पदाद्योःऽ इति निषेधः। ननु ठ्गतिकारकोपपदानां कृद्भिः सह सामासवचनं प्राक् सुबुत्पतेःऽइति वचनान्नायं सकारः पदादिः। षत्वविषये परिभाषेयं न भवति, यदि स्याद्, गोष्ठः, भूमिष्ठ इत्यादौ सकारस्यापदादित्वात् ठादेशप्रत्यययोःऽइत्येव षत्वसिद्धेरम्बादौ गावादिग्रहणमनर्थकं स्यात्। परशब्दोऽयं त्रिलिङ्गः-परो देशः, परा सेना, परं कार्यमिति। अतोऽयमव्युत्पन्नः, पचाद्यजन्तो वा, न तु ठृदोरप्ऽ इत्यबन्तः,तथा हि सति त्रिलिङ्गता न स्यात्॥ कृल्ल्युट् नपुंसके भावे स्त्रियां क्तिन्नादयो यतः। अतो घञाद्याः पुंस्येव यथा पाकश्चयो लवः॥ वासरूपविधिर्न्नास्ति, कृल्ल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति वचनात्। स्त्रियामपि नास्ति, ठस्त्रियाम्ऽ इति प्रतिषेधात्। अतो भावघञादयः पुंस्येव। कर्तृवर्जिते तु कारके पुंनपुंसकयोः, न कथाञ्चित् स्त्रियाम्। परं कार्यमिति । परं यत्कार्यमेत्वादि तद्भवतीत्यर्थः, अथ वा-यत्परं तत्कार्यं भवति, कर्तव्यं भवतीत्यर्थः। अन्ये त्वाहुः- न क्रियापदत्वेन कार्यशब्दस्यान्वयः, नापि परं कार्यं भवति, न तु शास्त्रमित्येवं शास्त्रादिव्यावृतये कार्यशब्दः, किं तर्हि? यत्कार्यं कृत्यर्हं परं तद्भवतीति वचनव्यक्तिः। अर्हे कृत्यप्रत्ययः, किं सिद्धं भवति? तुल्यबलविरोध इति सिद्धं भवति। न ह्यपवादादीनां सन्निधावुत्सर्गादीनां कृत्यर्हत्वम्, तैर्बाधितत्वादिति। विशेधो विप्रतिषेध इति। तद्वाचित्वेनैव लोके प्रसिद्धत्वाद् विप्रतिषिद्धमित्युक्ते विरुद्धमिति गम्यते, तस्य विषयं दर्शयति-यत्रेत्यादि। यत्र विषये, वृक्षाभ्याम्, वृक्षोष्वित्यादौ चरितार्थावित्यर्थः। व्यक्तिपक्षे तु तद्विषययोःउ विध्योरन्यत्र चरितार्थत्वासम्भवाद् अन्योऽर्थः प्रयोजनमनयोस्तावन्यार्थौ। द्वौ प्रसङ्गौउकार्ये दीर्घत्वेत्वादिके युगपत्प्राप्नुतः। स विप्रतिषेधः, विप्रतिषेधस्य विषय इत्यर्थः, तुल्यबलयोर्विरोधो यस्मिन् स तथोक्तः। परं कार्ये भवतीति। यत्कार्यं कृत्यर्हं परं तद्भवतीत्यर्थः। तुल्यबलविरोध इत्यस्य व्यावर्त्यं दर्शयति-उत्सर्गापवादेत्यादि। तत्र ठ्श्याद्व्यधऽ इत्याकारान्तलक्षणो णप्रत्यय उत्सर्गः, तं परमप्यनुपसर्ग सावकाशं बाधित्वाऽनवकाशत्वात् ठातश्चोपसर्गेऽ इति क एव भवति-सग्लः, सम्लः। रधेर्णिचि ठ्रधिजभोरचिऽ इति नुम् कृताकृतप्रसङ्गित्वान्नित्यः, ठत उपधायाःऽ इति वृद्धिरनित्या, नुमि कृतेऽकारस्यानुपधात्वादप्राप्तेः। तत्र पूर्वोऽपि नुमेव भवति-रन्धयतीति। अशिश्रियद्, अदुद्रुवद् इत्यात्रान्तर्भूतचङ्पेक्षत्वाद् इयणुवान्तरङ्गौ बहिरङ्गं लघूपधगुणं परमपि बाधेते, अपवादादीनां तु परस्परसंप्रधारणायां नित्यादप्यन्तरङ्गम्, तस्मादपवादः। उक्तं च-- परं विदुः पूर्वपरोपपतौ परस्य नित्यस्य च नित्यमेव। नित्यान्तरङ्गोपगमेऽन्तरङ्गं तस्माद्विधिः प्रातिपदो बलीयान्॥ इति। द्वयोरेकत्रोपनिपातःऊपपतिः, परस्य नित्यस्य चेति। अत्र उप समस्तद्याकृतौ पदार्थे द्वयोरप्यन्यत्र कृतार्थत्वाद्विप्रतिषेधे सति परस्परप्रतिबन्धादप्रवृत्तिरेव प्रप्नोति, तद्यथा--यो हि द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति स तयोः पर्यायेण कार्यं कारोति; यदा तमुभौ युगपत्प्रेषयतो नाना दिक्षु च कार्ये भवतस्तदा यद्यसावविरोधार्थो भवति उभयोर्न करोति, तत्र विध्यर्थमिदं परं भवतीति तस्मिन् कृते यदि पूर्वस्यापि निमितमस्ति तदपि भवत्येव। यथा--भिन्धकीति, भिन्द् हि इति स्थिते परत्वाद्धिभावेपुनः प्रसङ्गविज्ञानादकज् भवति। व्यक्तौ तु पदार्थे सर्वव्यक्त्युद्देशेन शास्त्रस्य प्रवृतेस्तद्विषयोपनिपातिनोऽन्यत्र चरितार्थत्वात्पर्यायेण प्रवृतौ प्राप्तायां नियमार्थमिदम्-विप्रतिषेधे परमेव भवति, न पूर्वमिति। एतत्सूत्रारम्भाच्च पूर्वस्य लक्षणस्य तत्रानारम्भोऽनुमीयते, तदुच्यते-ठ्सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेवऽ इति। तद्यथा-जुहुतात् त्वमिति परत्वातातङदेशे कृते स्थानिवद्भावेन प्राप्तं धित्वं न भवति। लक्ष्यानुरोधेन व्यक्त्याकृतिपदार्थाश्रयणादनयोः परिभाषयोर्विषयविभागोऽवसेयः॥
सिद्धान्तकौमुदी
तुल्यबलविरोधे परं कार्यं स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धम् (कौमुदी-12) इति रोरि (कौमुदी-173) इत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ॥
ननु परत्वाद्रेफलोप एव स्यादिति शङ्कितुमाह--विप्रतिषेधे। विप्रतिपूर्वात्सेधतेर्घञि उपसर्गवशात्परस्परविरोधे विप्रतिषेधशब्दः। विरोधश्च तुल्यबलयोरेव लोकसिद्धः। नहि मशकसिंहयोर्विरोध इत्यस्ति। तदाह--तुल्यबलेति। द्वयोः शास्त्रयोः क्वचिल्लब्धावकाशयोरेकत्र लक्ष्ये युगपत्सम्भवस्तुल्यबलविरोधः। कार्यस्य परत्वञ्च-परसास्त्रविहितत्वमेव। इति लोपे च प्राप्त इति। `हशि चे`त्यस्यावकाशः-शिवो वन्द्य इति। रेफलोपस्यावकाशः-पुना रमते इति। तत्र हि रोरित्युकारानुबन्धग्रहणाद्धसिचेत्यप्रसक्तम्। ततश्च तयोस्तुल्यबलयोः उत्वरेफलोपयोर्मनोरथ इत्यत्र युगपत्सम्भवादन्यतरस्मिन् बाधनीये सति परत्वादुत्वं बाधित्वा रेफलोपे प्राप्ते इत्यर्थः।
विप्रतिषेधे। विप्रतिपूर्वात् `षिधू शास्त्रे माङ्गल्ये च`षिधं गत्या`मित्यस्माद्वा धातोर्घञ्। `उपसर्गात्सुनोती`ति षत्वम्। उपसर्गवशाच्च विरोधार्थकत्वम्। कार्यमिति। `अर्हे कृत्यतृचश्चे`त्यर्हार्थे कृत्यप्रत्ययः। तेन तुल्यबलविरोध इति पर्यवसानादतुल्यबलेषूत्सर्गापवादनित्यानित्यान्तरङ्गबहिरङ्गविधिषु नेदं प्रवर्तते। नह्यपवादादीनां संनिधावुत्सर्गादीनां कृत्यर्हत्वं, तैर्बाधितत्वात्। तत्र नित्यमावश्यकत्वाद्बाधकम्, अन्तरङ्गं तु लाघवात्, अपवादस्तु वचनप्रामाण्यात्। तद्भिन्नस्तु प्रकृतसूत्रस्य विषयः। अतएव `परनित्यान्तरङ्गपवादानामुत्तरोत्तरं बलीयः` इत्युक्तम्। यद्यतुल्यबलेप्वपि परमेव स्यात्तन्नोपपद्येताऽतो व्याचष्टे-तुल्यबलविरोध इति। जातौ पदार्थे विध्यर्थमिदं सूत्रम्। `वृक्षेषु` `वृक्षाभ्यां` मित्यत्र हि लब्धावकासयोरेत्वदीर्घत्वशास्त्रयोर्वृक्षेभ्य इत्यत्र युगपत्प्रसङ्गे विनिगमकाऽभावादप्रतिपत्तिरेव स्यात्। तदुक्तम्-`अप्रतिपत्तिर्वा उभयोस्तुल्यबलत्वा`दिति। तत्रास्माद्वचनात्परस्मिन् कृते यदि पूर्वस्यापि निमित्तमस्ति तर्हि तदपि भवति, यथा `भिन्धकी`त्यत्र परत्वाद्धिभावे कृतेऽ[प्य]कच्। तदुच्यते-`पुनः प्रसङ्गविज्ञानात्सिद्ध`मिति। ब्यक्तौ तु पदार्थे तत्तव्द्यक्तिविषययोर्लक्षणयोरन्यत्र चरितार्थत्वाऽसम्भवात्तव्यानीयरामिव पर्यायेण प्रवृत्तौ नियमार्थमिदं सूत्रं `विप्रतिषेधे परमेव स्यान्न तु पूर्व`मिति। एतल्लक्षणारम्भाच्च तत्र तत्र पूर्वस्यानारम्भोऽनुमीयते। तथाच `जुहुतात्त्व`मित्यत्र परत्वात्तातङि कृते स्थानिवद्भावेन `हुझल्भ्यः`-इति धित्वं न भवति। तदुच्यते-`सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्बाधितमेवे `ति। लक्ष्यानुरोधाव्द्यवस्थाप्यमेतद्दूयमपि। तत्र विधिपक्षे तूत्त्वे रेफलोपे वा प्राप्ते इति पाठ�म्। नियमार्थमिति पक्षे `परमेव कार्यं स्या`दित्येवकारोऽध्याहर्तव्यो वृत्तौ। उत्वमेवेति। सिद्धासिद्धयोरतुल्यबलत्वेन `विप्रतिषेधे पर`मित्यस्याऽप्रवृत्तौ निष्प्रतिपक्षत्वादुत्वमेव भवतीत्यर्थः। तदुक्तम्--`पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये`ति। एतेन विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे` इति वक्ष्यमाणग्रन्थो व्याख्यात।
लघुसिद्धान्तकौमुदी
तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥
महाभाष्यम्
विप्रतिषेधे परं कार्यम् (242) विप्रतिषेध इति कोऽयं शब्दः ? विप्रतिपूर्वात्सिधेः कर्मव्यतिहारे घञ्ञ् । इतरेतरप्रतिषेधो विप्रतिषेधः । अन्योन्यप्रतिषेधो विप्रतिषेधः । कः पुनर्विप्रतिषेधः ? द्वौ प्रसङ्गावन्यार्थावेकस्मिन्स विप्रतिषेधः ।। 1 ।। द्वौ प्रसङ्गौ यदान्यार्थौ भवत एकस्मिंश्च युगपत्प्राप्नुतः स विप्रतिषेधः । क्व पुनरन्यार्थौ क्व चैकस्मिन्युगपत्प्राप्नुतः ? वृक्षाभ्यां वृक्षेष्वित्यन्यार्थौ, वृक्षेभ्य इत्यत्र युगपत्प्राप्नुतः ।। किं च स्यात् ? एकस्मिन्युगपदसंभवात्पूर्वपरप्राप्तेरुभयप्रसङ्गः ।। 2 ।। एकस्मिन्युगपदसंभवात्पूर्वस्याश्च परस्याश्च प्राप्तेरुभयप्रसङ्गः ।। इदं विप्रतिषिद्धं यदुच्यते ‐ एकस्मिन्युगपदसंभवात्पूर्वपरप्राप्तेरुभयप्रसङ्गः इति । कथं ह्येकस्मिंश्च युगपदसंभवः स्यात्पूर्वस्याश्च परस्याश्च प्राप्तेरुभयप्रसङ्गश्च स्यात् ? नैतद्विप्रतिसिद्धम् । यदुच्यते ‐ एकस्मिन्युगपदसंभवादिति। कार्ययोर्युगपदसंभवः, शास्त्रयोरुभयप्रसङ्गः । तृजादिभिस्तुल्यम् ।। 3 ।। तृजादिभिस्तुल्यं पर्यायः प्राप्नोति । तद्यथा तृजादयः पर्यायेण भवन्ति । किं पुनः कारणं तृजादयः पर्यायेण भवन्ति ? अनवयवप्रसङ्गात्प्रतिपदं विधेश्च ।। 4 ।। अनवयवेन प्रसज्यन्ते प्रतिपदं च विधीयन्ते । अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वात् ।। 5 ।। अप्रतिपत्तिर्वा पुनरुभयोः शास्त्रयोः स्यात् । किं कारणम् ? तुल्यबलत्वात् । तुल्यबले ह्युभे शास्त्रे । तद्यथा ‐ द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति स तयोः पर्यायेण कार्यं करोति । यदा तु तमुभौ युगपत्प्रेषयतो नानादिक्षु च कार्ये भवतस्तदा यद्यसावविरोधार्थी भवति उभयोर्न करोति । किं पुनः कारणमुभयोर्न करोति ? योगपद्यासंभवात् । नास्ति यौगपद्येन संभवः । तत्र प्रतिपत्त्यर्थं वचनम्। तत्र प्रतिपत्त्यर्थमिदं वक्तव्यम् । तव्यदादीनां त्वप्रसिद्धिः ।। 6 ।। तव्यदादीनां तु कार्यस्याऽप्रसिद्धिः । नहि किंचित्तव्यदादिषु नियमकारि शास्त्रमारभ्यते येन तव्यदादयः स्युः । यश्च भवता हेतुर्व्यपदिष्टः ।अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वात्।इति, तुल्यः स तव्यदादिषु । नैषः दोषः । अनवकाशास्तव्यदादयः। उच्यन्ते च। ते वचनाद्भविष्यन्ति । यश्च भवता हेतुर्व्यपदिष्टः ‐ तृजादिभिस्तुल्यं पर्यायः प्राप्नोतीति, तुल्यः स तव्यदादिषु । एतावदिह सूत्रम् विप्रतिषेधे परमिति । पठिष्यति ह्याचार्यः सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेवेति । पुनश्च पठिष्यति ‐ पुनः प्रसङ्गविज्ञानात्सिद्धमिति । किं पुनरियता सूत्रेणोभयं लभ्यम् ? लभ्यमित्याह । कथम् ? इह भवता द्वौ हेतू व्यपदिष्टौ ‐ तृजादिभिस्तुल्यं पर्यायः प्राप्नोतीति च, अप्रतिपत्तिर्वोभयोस्तुल्यबलत्वादिति च । तद्यदा तावदेष हेतुस्तृजादिभिस्तुल्यं पर्यायः प्राप्नोतीति, तदा विप्रतिषेधे परमित्यनेन किं क्रियते ? नियमः ‐ विप्रतिषेधे परमेव भवतीति । तदैतदुपपन्नं भवति ‐ सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेवेति । यदा त्वेष हेतुरप्रतिपत्तिरुभयोस्तुल्यबलत्वादिति, तदा विप्रतिषेधे परमित्यनेन किं क्रियते ? द्वारम् ‐ विप्रतिषेधे परं तावद्भवति तस्मिन्कृते यदि पूर्वमपि प्राप्नोति तदपि भवति । तदैतदुपपन्नं भवति ‐ पुनः प्रसङ्गविज्ञानात्सिद्धमिति । विप्रतिषेधे परमङ्गाधिकारे पूर्वम् ।। 7।। विप्रतिषेधे परमित्युक्त्वाऽङ्गाधिकारे पूर्वमिति वक्तव्यम् । किं कृतं भवति ? पूर्वविप्रतिषेधा न पठितव्या भवन्ति ‐ गुणवृद्ध्यौत्वतृज्वद्भावेभ्यो नुम्पूर्वविप्रतिषिद्धम् नुमचिरतृज्वद्भावेभ्यो नुट् इति । कथं ये परविप्रतिषेधाः ‐ इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेनेति । सूत्रं च भिद्यते । यथान्यासमेवास्तु । कथं ये पूर्वविप्रतिषेधाः ? विप्रतिषेधे परमित्येव सिद्धम् । कथम् ? परशब्दोऽयं बह्वर्थः । अस्त्येव व्यवस्थायां वर्तते । तद्यथा ‐ पूर्वः परः इति । अस्त्यन्यार्थे वर्तते ‐ परपुत्रः परभार्या अन्यपुत्रः अन्यभार्येति गम्यते । अस्ति प्राधान्ये वर्त्तते । तद्यथा ‐ परमियं ब्राह्मण्यस्मिन्कुटुम्बे प्रधानमिति गम्यते । अस्तीष्टवाची परशब्दः । तद्यथा ‐ परं धाम गतः इष्टं धामेति गम्यते । तद्य इष्टवाची परशब्दस्तस्येदं ग्रहणं विप्रतिषेधे परं यदिष्टं तद्भवतीति । अन्तरङ्गं च ।। 8 ।। अन्तरङ्गं च बलीयो भवतीति वक्तव्यम् । किं प्रयोजनम् ? प्रयोजनं यणेकादेशेत्त्वोत्त्वानि गुणवृद्धिद्विर्वचनाल्लोपस्वरेभ्यः ।। 9 ।। गुणाद्यणादेशः ‐ स्योनः स्योना । गुणश्च प्राप्नोति यणादेशश्च । परत्वाद् गुणः स्यात् । यणादेशो भवत्यन्तरङ्गतः । वृद्धेर्यणादेशः ‐ द्यौकामिः स्यौकामिः । वृद्धिश्च प्राप्नोति यणादेशश्च। परत्वाद्वृद्धिः स्यात् । यणादेशो भवत्यन्तरङ्गतः । द्विर्वचनाद्यणादेशः ‐ दुद्यूषति सुस्यूषति । द्विर्वचनं च प्राप्नोति यणादेशश्च। नित्यत्वाद् द्विर्वचनं स्यात् । यणादेशो भवत्यन्तरङ्गतः ।। अल्लोपस्य च यणादेशस्य च नास्ति संप्रधारणा । स्वराद्यणादेशः ‐ द्यौकामिः स्यौकामिः । स्वरश्च प्राप्नोति यणादेशश्च । परत्वात्स्वरः स्यात् । यणादेशो भवत्यन्तरङ्गतः । गुणादेकादेशः ‐ काद्रवेयो मन्त्रमपश्यत् । गुणादेशश्च प्राप्नोत्येकादेशश्च। परत्वाद्गुणः स्यात् । एकादेशो भवत्यन्तरङ्गतः । वृद्धेरेकादेशः ‐ वैक्षमाणिः सौत्थितिः । वृद्धिश्च प्राप्नोत्येकादेशश्च । परत्वाद्वृद्धिः स्यात् । एकादेशो भवत्यन्तरङ्गतः । द्विर्वचनादेकादेशः ‐ ज्ञाया ओदनः ज्ञौदनः । ज्ञौदनमिच्छति ज्ञौदनीयति । ज्ञौदनीयतेः सन् । जुज्ञौदनीयिषति । द्विर्वचनं च प्राप्नोत्येकादेशश्च। नित्यत्वाद् द्विर्वचनं स्यात् । एकादेशो भवत्यन्तरङ्गतः । अल्लोपादेकादेशः ‐ शुना शुने । अल्लोपश्च प्राप्नोत्येकादेशश्च । परत्वादल्लोपः स्यात् । एकादेशो भवत्यन्तरङ्गतः । नैतदस्ति प्रयोजनम् । नास्त्यत्र विशेषोऽल्लोपेन वा निवृत्तौ सत्यां, पूर्वत्वेन वा । अयमस्ति विशेषोऽल्लोपेन निवृत्तौ सत्यामुदात्तनिवृत्तिस्वरः प्रसज्येत । नात्रोदात्तनिवृत्तिस्वरः प्राप्नोति । किं कारणम् ? न गोश्वन्साववर्ण 6|1|182 इति प्रतिषेधात् । नैष उदात्तनिवृत्तिस्वरस्य प्रतिषेधः । कस्य तर्हि ? तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिस्वरो नास्ति शुनः पश्येति । एवं तर्हि न लाक्षणिकस्य प्रतिषेधं शिष्मः । किं तर्हि ? येन केन चित्प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधः । यत्र तर्हि विभक्तिर्नास्ति ‐ बहुशुनीति । यदि पुनरयमुदात्तनिवृत्तिस्वरस्यापि प्रतिषेधो विज्ञायेत । नैवं शक्यम् । इहापि प्रसज्येत ‐ कुमारीति । एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति ‐ नोदात्तनिवृत्तिस्वरः शुन्यवतरतीति। यदयं श्वन्शब्दं गौरादिषु पठति अन्तोदात्तार्थं यत्नं करोति । सिद्धं हि स्यान्ङीपैव । स्वरादेकादेशः ‐ सौत्थितिः वैक्षमाणिः । स्वरश्च प्राप्नोत्येकादेशश्च । परत्वात्स्वरः स्यात् । एकादेशो भवत्यन्तरङ्गतः । गुणस्य चेत्त्वौत्त्वयोश्च नास्ति संप्रधारणा । वृद्धेरित्त्वोत्त्वे ‐ स्तैर्णिः पौर्तिः । वृद्धिश्च प्राप्नोतीत्त्वोत्त्वे च । परत्वाद्वृद्धिः स्यात् , इत्त्वोत्त्वे भवतोन्तरङ्गतः । द्विर्वचनादित्त्वोत्त्वे ‐ आतेस्तीर्यते आपोपूर्यते । द्विर्वचनं च प्राप्नोतीत्त्वोत्त्वे च । नित्यत्वाद् द्विर्वचनं स्यात् । इत्त्वोत्त्वे भवतोऽन्तरङ्गतः ।। अल्लोपस्य चेत्त्वोत्त्वयोश्च नास्ति संप्रधारणा ।। स्वरो नास्ति विशेषः । इण्ङिशीनामाद्गुणः सवर्णदीर्घत्वात् ।। 10 ।। इण्ङिशीनामाद्गुणः सवर्णदीर्घत्वात् प्रयोजनम् । अयज इन्द्रम् अवप इन्द्रम् । वृक्ष इन्द्रं प्लक्ष इन्द्रम् ।त इन्द्रम् । यःथ्द्य;न्द्रम् । आद्गुणश्च प्राप्नोति सवर्णदीर्घत्वं च। परत्वात्सवर्णदीर्घत्वं स्यात् । आद्गुणो भवत्यन्तरङ्गतः । न वा सवर्णदीर्घत्वस्यानवकाशत्वात् ।। 11 ।। न वैतदन्तरङ्गेणाऽपि सिध्यति । किं कारणम् ? सवर्णदीर्घत्वस्यानवकाशत्वात् । अनवकाशं सवर्णदीर्घत्वमाद्गुणं बाधेत ।। नैतदन्तरङ्गेऽस्त्यनवकाशं परमिति । इहापि स्योनः स्योनेति शक्यं वक्तुम् ।न वा परत्वाद् गुणस्येति । ऊङापोरेकादेश इर्त्त्वलोभ्याम् ।। 12 ।। ऊङापोरेकादेश इर्त्त्वलोपाभ्यां भवत्यन्तरङ्गतः प्रयोजनम् । इर्त्त्वादेकादेशः ‐ खट्वीयति मालीयति । इर्त्त्वं च प्राप्नोत्येकादेशश्च। परत्वादीत्त्वं स्याद् । एकादेशो भवत्यन्तरङ्गतः ।। लोपादेकादेशः ‐ कामण्डलेयः भाद्रवाहेयः । लोपश्च प्राप्नोत्येकादेशश्च । परत्वाल्लोपः स्याद् । एकादेशो भवत्यन्तरङ्गतः ।। अथ किमर्थमीत्त्वलोपाभ्यामित्युच्यते, न लोपेत्त्वाभ्यामित्येवोच्येत ? संख्यातानुदेशो मा भूदिति । आपोप्येकादेशो लोपे प्रयोजयति ‐ चौडिः बालाकिः । आत्त्वनपुंसकोपसर्जनह्रस्वत्वान्ययवायावेकादेशतुग्विधिभ्यः ।। 13 ।। आत्त्वनपुंसकोपसर्जनह्रस्वत्वानि अयवायावेकादेशतुग्विधिभ्यो भवन्त्यन्तरङ्गतः । वेञ्ञ् ‐ वानीयम् । शो ‐ शानीयम् । ग्लै ‐ ग्लानीयम् । म्लै ‐ म्लानीयम् । ग्लाच्छत्र्रम् । आत्त्वं च प्राप्नोत्येते च विधयः । परत्वादेते विधयः स्युः । आत्त्वं भवत्यन्यरङ्गतः ।। नपुंसकोपसर्जनह्रस्वत्वं च प्रयोजनम् । अतिर्यत्र। अतिन्वत्र । अतिरिच्छत्र्रम् अतिनुच्छत्र्रम् । आराशस्त्रीदम्। धानाशष्कुलीदम् । निष्कौशाम्बीदम्। निर्वारणसीदम् । निष्कौशाम्बिच्छत्र्रम्। निर्वाराणसिच्छत्र्रम् । नपुंसकोपसर्जनह्रस्वत्वं च प्राप्नोत्येते च विधयश्च । परत्वादेते विधयः स्युः । नपुंसकोपसर्जनह्रस्वत्वं भवत्यन्तरङ्गतः । तुग्यणेकादेशगुणवृद्ध्यौत्त्वदीर्घेत्वेत्त्वमुमेत्त्वरीविधिभ्यः ।। 14 ।। यणेकादेशगुणवृद्ध्यौत्त्वदीर्घत्वेत्त्वमुमेत्त्वरीविधिभ्यस्तुग्भवत्यन्तरङ्गतः । यणादेशात् ‐ अग्निचिदत्र सोमसुदत्र । एकादेशात् ‐ अग्निचिदिदम् सोमसुदुदकम् । गुणात् ‐ अग्निचिते सोमसुते । वृद्धेः ‐ प्रऋच्छकः प्रार्च्छकः । औत्त्वात् ‐ अग्निचिति सोमसुति । दीर्घत्वात् ‐ जगद्भ्याम् ,जनगद्भ्याम् । इर्त्त्वात् ‐ जगत्यति जनगत्यति । मुमः ‐ अग्निचिन्मन्यः सोमसुन्मन्यः । एत्त्वात् ‐ जगद्भ्यः जनगद्भ्यः । रीविधेः ‐ सुकृत्यति पापकृत्यति । (तुक् च प्राप्नोत्येते विधयश्च। परत्वादेते विधयः स्युः। तुग्भवत्यन्तरङ्गतःट अनङानङ्भ्यां च ।। 15 ।। अनङानङ्भ्यां चेति वक्तव्यम् । अनङ्- सुकृत् । आनङ्- सुकृद्दुष्कृतौ । (तुक् च प्राप्नोति अनङ्गानङ्गौ स्याताम् । तुग्भवत्यन्तरङ्गतः ) इयङादेशा गुणात् ।। 16।। इयङादेशो गुणाद्भवत्यन्तरङ्गतः प्रयोजनम् । धियति रियति । इयङादेशः प्राप्नोति गुणश्च । परत्वाद् गुणः स्यात्। इयङादेशो भवत्यन्तरङ्गतः । उवङ्गादेश्च ।। 17 ।। उवङादेशश्चेति वक्तव्यम् । प्रादुद्रुवत्। प्रासुस्रुवत् । श्वेः सम्प्रसारणपूर्वत्वं यणादेशात् ।। 18 ।। श्वेः सम्प्रसारणपूर्वत्वं यणादेशाद्भवत्यन्तरङ्गतः प्रयोजनम् । शुशुवतुः शुशुवुः । पूर्वत्वं च प्राप्नोति यणादेशश्च । परत्वाद्यणादेशः स्याद् । पूर्वत्वं भवत्यन्तरङ्गतः । ह्व आकारलोपात् ।। 19 ।। ह्व आकारलोपात्पूर्वत्वं भवत्यन्तरङ्गतः प्रयोजनम् । जुहुवतुः जुहुवुः । पूर्वत्वं च प्राप्नोत्याकारलोपश्च। परत्वादाकारलोपः स्यात् । पूर्वत्वं भवत्यन्तरङ्गतः । स्वरो लोपात् ।। 20 ।। स्वरो लोपाद्भवत्यन्तरङ्गतः प्रयोजनम् । औपगवी। सौदामनी । स्वरश्च प्राप्नोति लोपश्च। परत्वाल्लोपः स्यात् । स्वरो भवत्यन्तरङ्गतः । प्रत्ययविधिरेकादेशात् ।। 21 ।। प्रत्ययविधिरेकादेशाद्भवत्यन्तरङ्गतः प्रयोजनम् । अग्निरिन्द्रः वायुरुदकम् । प्रत्ययविधिश्च प्राप्नोत्येकादेशश्च । परत्वादेकादेशः स्यात् । प्रत्ययविधिर्भवत्यन्तरङ्गतः । यणादेशाश्च ।। 22 ।। यणादेशाच्चेति वक्तव्यम् । अग्निरत्र वायुरत्र । लादेशो वर्णविधेः ।। 23 ।। लादेशो वर्णविधेर्भवत्यन्तरङ्गतः प्रयोजनम् । पचत्वत्र पठत्वत्र । लादेशश्च प्राप्नोति यणादेशश्च। परत्वाद्यणादेशः स्यात् । लादेशो भवत्यन्तरङ्गतः । तत्पुरुषान्तोदात्तत्वं पूर्वपदप्रकृतिस्वरात् ।। 24 ।। तत्पुरुषान्तोदात्तत्वं पूर्वपदप्रकृतिस्वराद्भवत्यन्तरङ्गतः प्रयोजनम्। पूर्वशालाप्रियः। अपरशालाप्रियः । तत्पुरुषान्तोदात्तत्वं च प्राप्नोति, पूर्वपदप्रकृतिस्वरत्वं च। परत्वात्पूर्वपदप्रकृतिस्वरत्वं स्यात्। तत्पुरुषान्तोदात्तत्वं भवत्यन्तरङ्गतः । एतान्येतस्याः परिभाषायाः प्रयोजनानि यदर्थमेषा परिभाषा कर्तव्या । यदि सन्ति प्रयोजनानीत्येषा परिभाषा क्रियते। ननु चेयं च कर्तव्या असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति । किं प्रयोजनम् ? पचावेदम्। पचामेदम् । बहिरङ्गलक्षणस्य गुणस्यान्तरङ्गलक्षणमैत्वं मा भूदिति । उभे तर्हि कर्तव्ये । नेत्याह । अनयैव सिद्धम् । इहापि स्योनः स्योनेति,-असिद्धत्वाद्बहिरङ्गलक्षणस्य गुणस्याऽन्तरङ्गलक्षणो यणादेशो भविष्यति । यद्यसिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इत्युच्यते-अक्षद्यूः हिरण्यद्यूः-असिद्धत्वाद् बहिरङ्गलक्षणस्योठोऽन्तरङ्गलक्षणो यणादेशो न प्राप्नोति । नैषः दोषः । असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इत्युक्त्वा ततो वक्ष्यामि ‐ नाजानन्तर्ये बहिष्ट्वप्रक्लृप्तिरिति । सा तर्ह्येषा परिभाषा कर्तव्या ? न कर्तव्या । आचार्यप्रवृत्तिर्ज्ञापयति ‐ भवत्येषा परिभाषेति, यदयं षत्वतुकोरसिद्धः 6|1|86 इत्याह । इयं तर्हि परिभाषा कर्तव्या-असिद्धं बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति। एषा च न कर्तव्या, आचार्यप्रवृत्तिर्ज्ञापयतिभवत्येषा परिभाषेति, यदयं वाह ऊठ् 6|4|132 इत्यूठं शास्ति । तस्य दोषः पूर्वपदोत्तरपदयोर्वृद्धिस्वरावेकादेशात् ।। 25 ।। तस्यैतस्य लक्षणस्य दोषः पूर्वोत्तरपदयोर्वृद्धिस्वरावेकादेशादन्तरङ्गतोभिनिर्वृत्तान्न प्राप्नुतः । पूर्वैषुकामशमः अपरैषुकामशमः। गुडोदकं तिलोदकम् । उदके केवले 6|2|96 इति पूर्वोत्तरपदयोर्व्यपवर्गाभावान्न स्यात् । नैषः दोषः । आचार्यप्रवृत्तिर्ज्ञापयति ‐ पूर्वोत्तरपदयोस्तावत्कार्यं भवति नैकादेशः इति, यदयं नेन्द्रस्य परस्य 7|3|22 इति प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकम् ? इन्द्रे द्वावचौ । तत्रैको यस्येति च 6|4|148 इति लोपेनाऽपह्रि्यते, अपर एकादेशेन , ततोऽनच्क इन्द्रः संपन्नः , तत्र कः प्रसङ्गो वृद्धेः ? पश्यति त्वाचार्यः पूर्वपदोत्तरपदयोस्तावत्कार्यं भवति नैकादेशः इति। ततो नेन्द्रस्य परस्येति प्रतिषेधं शास्ति । यणादेशादियुवौ ।। 26 ।। यणादेशादियुवौ अन्तरङ्गतोभिनिर्वृत्तान्न प्राप्नुतः । वैयाकरणः सौवश्व इति । लक्षणं हि भवति ‐ -य्वोरचि वृद्धिप्रसङ्गे इयुवौ भवतः इति । नैषः दोषः । अनवकाशावियुवौ । अचीत्युच्यते ।। किं पुनः कारणमचीत्युच्यते ? इह मा भूताम्-ऐतिकायनः औपगव इति । स्तामत्रेयुवौ, लोपो व्योर्वलि 6|1|66 इति लोपो भविष्यति । यत्र तर्हि लोपो नास्ति ‐ प्रैयमेधः प्रैयङ्गव इति । उसि पररूपाच्च ।। 27 ।। उसि पररूपाच्चान्तरङ्गतोभिनिर्वृत्तादियादेशो न प्राप्नोति । पचेयुः यजेयुः . नैषः दोषः । नैवं विज्ञायते ‐ याःथ्द्य;त्येतस्येय् भवतीति । कथं तर्हि ? यास्इत्येस्येय् भवतीति । लुक्लोपयणयवायावेकादेशेभ्यः ।। 28 ।। लोपयणयवायावेकादेशेभ्यो लुक्बलीयानिति वक्तव्यम् ।। लोपात् ‐ गोमान् प्रियोऽस्य गोमत्प्रियः । यवमत्प्रियः । गोमानिवाचरति गोमत्यते यवयत्यते । यणादेशात् ‐ ग्रामण्यः कुलं ग्रामणिकुलम् । सेनान्यः कुलं सेनानिकुलम् । अयवायावेकादेशेभ्यः ‐ गवे हितं गोहितम् । रायः कुलं रैकुलम् । नावः कुलं नौकुलम् । वृकाद्भयं वृकभयम् ।। लुक् च प्राप्नोत्येते च विधयश्च परत्वादेते विधयः स्युः । लुग्बलीयानिति वक्तव्यम्। लुक्यथा स्यात् ।। 2 ।। चतुर्थे पादे प्रथममाह्निकम् ।।