॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|19
SK 1896
1|4|19
तसौ मत्वर्थे  
SK 1896
सूत्रच्छेद:
त-सौ - प्रथमाद्विवचनम् , मत्वर्थे - सप्तम्येकवचनम्
अनुवृत्ति:
भम्  [1|4|18] - प्रथमैकवचनम् , अङ्गम्  [1|4|13] - प्रथमैकवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
त-सौ मत्वर्थे अङ्गम् भम्
सूत्रार्थ:
तकारान्तम् सकारान्तम् च अङ्गम् मत्वर्थे प्रत्यये परे भसंज्ञकं भवति ।
तद्धितप्रत्ययेषु "मत्वर्थीयाः" नाम कश्चन विभागः अस्ति । तदस्यास्त्यस्मिन्निति मतुप्‌ 5|2|94 इत्यतः अहंशुभमोर्युस् 5|2|140 इति यावत् ये प्रत्ययाः प्रोक्ताः सन्ति ते मत्वर्थीयाः प्रत्ययाः उच्यन्ते । एतेषु कश्चन प्रत्ययः यदि तकारान्तात् सकारान्तात् शब्दात् परः आगच्छति, तर्हि अङ्गस्य भसंज्ञा भवति । उदाहरणानि एतादृशानि -

1. तदस्यास्त्यस्मिन्निति मतुप्‌ 5|2|94 इत्यनेन निर्दिष्टः मत्वर्थीयः मतुप्-प्रत्ययः गरुत्-शब्दात् यदा भवति, तथा "गरुत् + मत्" इत्यत्र अङ्गस्य भसंज्ञायाम् सत्याम् पदसंज्ञायाः निषेधः भवति, अतः झलां जशोऽन्ते 8|2|39 इत्यनेन जश्त्वम् , तथा च प्रत्यये भाषायां नित्यम् अनेन वार्तिकेन अनुनासिकत्वम् न भवति, केवलं वर्णमेलनं कृत्वा "गरुत्मत्" इति प्रातिपदिकं सिद्ध्यति ।

2. "विद्वस् + मतुप्" इत्यत्रापि वर्तमानसूत्रेण अङ्गस्य भसंज्ञा भवति । अतः वसोः सम्प्रसारणम् 6|4|131 इत्यनेन भसंज्ञकस्य विद्वस्-शब्दस्य उपधा-वकारस्य सम्प्रसारणम् (= उकारम्) कृत्वा आदेशप्रत्यययोः 8|3|59 इत्यनेन षत्वे कृते "विदुष्मत्" इति प्रातिपदिकं जायते । [स्मर्तव्यम् - यदि अत्र विद्वस्-शब्दस्य पदसंज्ञा अभविष्यत्, तर्हि वसुस्रंसुध्वंस्वनडुहां दः 8|2|72 इत्यनेन सकारस्य दकारादेशः अभविष्यत् । ]

3. तपःसहस्राभ्यां विनीनी 5|2|102 इत्यनेन तपस्-शब्दात् मत्वर्थे "विनि" प्रत्ययः भवति । अयम् प्रत्ययः अपि मतुबर्थे विधीयते, अतः अस्मिन् प्रत्यये परे "तपस्" इत्यस्य भसंज्ञा भवति । अत्र यदि पदसंज्ञा अभविष्यत्, तर्हि ससजुषोः रुः 8|2|66 इत्यनेन सकारस्य रुत्वम्, तथा हशि च 6|1|114 इत्यनेन रेफस्य उकारादेशः अभविष्यत् । परन्तु भसंज्ञायां सत्याम् एतत् न भवति, अतः केवलं वर्णमेलनं कृत्वा "तपस्विन्" इति प्रातिपदिकं सिद्ध्यति ।

अत्र एतत् स्मर्तव्यम्, यत् मत्वर्थीय-प्रत्यये परे केवलम् तकारान्तस्य सकारान्तस्य च शब्दस्यैव अनेन सूत्रेण भसंज्ञा भवति, अन्यस्य न । यथा - शक्ति + मतुप् इत्यत्र शक्ति-शब्दस्य अनेन सूत्रेण भसंज्ञा न भवति, अतः यस्येति च 6|4|148 इत्यनेन भसंज्ञकस्य अन्तिम-इकारस्य तद्धितप्रत्यये परे यः लोपः विधीयते सः न भवति, अतः च "शक्तिमत्" इति प्रातिपदिकं सिद्ध्यति ।
One-line meaning in English
A तकारान्त or a सकारान्त word gets the term "भ" when followed by a मत्वर्थीय प्रत्यय.
काशिकावृत्तिः
भम् इति वर्तते। तकारान्तं सकारान्तं शब्दरूपं मत्वर्थे प्रत्यये परतो भसंज्ञं भवति। उदश्वित्वान् घोषः। विद्युत्वान् बलाहकः। सकारान्तम् पयस्वी। यशस्वी। तसौ इति किम्? तक्षवान् ग्रामः।
`तसौ` इति वर्णग्रहणम्। न च वर्णमात्रान्मत्वर्थीय सम्भति, अतः सामथ्र्यात् तदन्तविधिर्विज्ञायत इत्याह-- `तकारान्तम्` इत्यादि। `मत्वर्थे प्रत्यये` इति व्यधिकरणे पदे; षष्ठीसमासः। मतोरर्थो मत्वर्थ इति, तत्र यो वत्र्तते प्रत्ययस्तस्मिन्नित्यर्थः। अथ वा- समानाधिकरणे पदे, मतुशब्देन साहचर्यान्मतुप्सहचरितार्थ उच्यते-- णतुबर्थो यस्य तस्मिन्, न तु यस्मिन्निति मत्वर्थे प्रत्यय इति। अर्थग्रहणं कमतुपोऽन्यत्रापि यथा स्यात्; इतरथा हि मतावित्युच्यमाने मतावेव स्यात्; नान्येषु। मत्वर्थग्रहणे क्रियमाणे मतुपि न स्यात्; तस्यार्थविशेषणत्वात्। विशेषणस्य च कार्येण सम्बन्धानुपपत्तेः। न हि चित्रगुरानीयतामित्युक्ते विशेषणभूता गावोऽडप्यानीयन्ते, नैष दोषः; विशेषमपि क्वचित् कार्ये विशिष्यते, यथा हि-- देवदत्तशालाया ब्राआहृणा आनीयन्तामित्युक्ते देवदत्तः शालायां विशेषणभूतो यदि ब्राआहृणो भवति तदा सोऽप्यानीयत एव। `उदइआत्वान` इति। भत्वात् पदसंज्ञाभावे जश्त्वं सिध्यति। `झयः` 8|2|10 इति वत्वम्, `उगिदचाम्` 7|1|70 इति नुम्, `अत्वसन्तस्य चाधातोः` 6|4|14 इति दीर्घः। `पयस्वी, यशस्वी` इति। `अस्मायामेधारुआजो विनिः` 5|2|120 भत्वाद्रुत्वं न भवति। `इन्दरन्पूषार्यम्णां सौ` 6|4|12 इत्यनुवत्र्तमाने `सौ च` 6|4|13 इत्यनेन दीर्घः॥
नभस्वद्, अङ्गिरस्वदिति। अत्रापदत्वाद्रुत्वाभावो मनुष्वदित्यत्र पदत्वे रुत्वं स्याद्, न तु षत्वम्; अपदान्तस्येति वचनात्। वृषण्वसुः, वृषणश्व इति। पदत्वे सति ठ्पदान्तस्यऽ इति प्रतिषेधाण्णत्वं न स्यात्, नलोपश्च स्याद्। भत्वेऽप्यल्लोपो न भवति; अनङ्गत्वात्॥ तसौ मत्वर्थे॥ मत्वर्थीयेनाक्षिप्तायाः प्रकृतेस्तकारसकाराभ्यां विशेषणातदन्तविधिरित्याह-तकारसकारान्तमिति। मत्वर्थे प्रत्यये इति। व्यधिकरणे सप्तम्यौ, मतोरर्थो मत्वर्थस्तत्र यः प्रत्ययो वर्तते तस्मिन्नित्यर्थः। अथ वा समानाधिकरणे मतुशब्देन साहचर्यातदर्थो लक्ष्यते-मतुरर्थो यस्य तस्मिन्नित्यर्थः। उदश्वित्वानिति। भत्वात् पदत्वाभावे जश्त्वं न भवति, ठ्झयःऽ इति वत्वम्। उदकेन श्वयति वर्द्धते उदश्वित्, क्विपि ठुदश्वितोऽन्यतरस्याम्ऽ इति निपातनात् संप्रसारणाभावः, संज्ञायामुद्भावः। पयस्वीति। ठस्मायामेधास्त्राजो विनिःऽ भत्वाद्रुत्वाभावः। अथार्थग्रहणं किमर्थम्, न ठ्मतौऽइत्युच्यते, स्वादिष्विति वर्तते, व्यधिकरणे सप्तम्यौ, मतौ ये स्वादयः। कथं पुनः शब्दे नाम शब्दे वर्ततेऽसम्भवात्, अर्थे वृत्तिर्विज्ञास्यते? यद्येवं लभ्येत, कृतं स्यात्; ततु न लभ्यम्, न हि सामानाधिकरण्ये सम्भवति वैयधिकरण्यं शक्यं विज्ञातुम्, ततश्च मतावेव स्यात्-पयस्वान् यशस्वानिति, इह तु न स्यात्-पयस्वी, यशस्वीति, अतोऽर्थग्रहणं कर्तव्यम्। यद्यर्थग्रहणं क्रियते, मतुपि न प्राप्नोति; तस्यार्थविशेषणत्वात्, सत्यम्; अर्थविशेषणं मतुब्, विशेष्याकारोऽपि तत्रास्ति। अस्यास्त्यस्मिन्निति च मतुपोऽर्थः, स च विन्यादीनामिव मतुपोऽप्यविशिष्टः, यथा-देवदतशालायामासीना ब्राह्मणा आनीयन्तामित्युक्ते विशेषणभूतोऽपि देवदतः सित ब्राह्मणये आनीयते। यत्र उपलक्ष्याकारस्यासम्भवः तत्रैवोपलक्षणस्य कार्थायोगः, तद्यथा-चित्रगुरानीयतामिति, न हि चित्रगवीणां गावः सन्ति॥
सिद्धान्तकौमुदी
तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे । वसोः संप्रसारणम् (कौमुदी-435) । विदुष्मान् ॥ ।गुणवचनेभ्यो मतुपो लुगिष्टः (वार्तिकम्) ॥ शुक्लो गुणोऽस्यास्तीति शुक्लः पटः । कृष्णः ॥
ननु विद्वच्छब्दान्मतुपि यजादिस्वादिपरकत्वाऽभावेन भत्वाऽभावात् `वसोः संप्रसारण`मिति करथं संप्रसारणमित्यत आह--तसौ मत्वर्थे। मत्वर्थप्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिमभिप्रेत्याह-तान्तसान्ताविति। तकारसकारान्तावित्यर्थः।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे। गरुत्मान्। वसोः संप्रसारणं। विदुष्मान्। (गुणवचनेभ्यो मतुपो लुगिष्टः)। शुक्लो गुणोऽस्यास्तीति शुक्लः पटः। कृष्णः॥
महाभाष्यम्
तसौ मत्वर्थे (259) अर्थग्रहणं किमर्थम्। न तसौ मतौ इत्येवोच्येत ? तसौ मतौःथ्द्य;तीयत्युच्यमान इहैव स्यात् ‐ पयस्वान् यशस्वान् । इह न स्यात् ‐ पयस्वी यशस्वी । अर्थग्रहणे पुनः क्रियमाणे मतुपि च सिद्धं भवति, यश्चान्यस्तेन समानार्थस्तस्मिंश्च । यद्यर्थग्रहणं क्रियते पयस्वान् अत्र न प्राप्नोति । किं कारणम् ? न हि मतुब्मतुबर्थे वर्तते । मतुबपि मतुबर्थे वर्तते । तद्यथा ‐ देवदत्तशालायां ब्राह्मणा आनीयन्तामित्युक्ते यदि देवदत्तोपि ब्राह्मणो भवति, सोऽप्यानीयते ।। 19 ।।