Page loading... Please wait.
1|4|18 - यचि भम्
॥ तस्मै पाणिनये नम: ॥
1|4|18
SK 231
यचि भम्  
सूत्रच्छेद:
यचि - सप्तम्येकवचनम् , भम् - प्रथमैकवचनम्
अनुवृत्ति:
सुँ-आदिषु  [1|4|17] - सप्तमीबहुवचनम् , असर्वनामस्थाने  [1|4|17] - सप्तम्येकवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
असर्वनामस्थाने सुँ-आदिषु यचि भम्
सूत्रार्थ:
असर्वनामस्थानसंज्ञकः सुँ-आदिः यकारादिः अजादिः वा प्रत्ययः यस्मात् विधीयते तस्य भसंज्ञा भवति।
चतुर्थाध्यायस्य प्रथमपादे स्वौजस्... 4|1|2 अस्मिन् सूत्रे सुँ-प्रत्ययः दत्तः अस्ति । अस्मात् आरभ्य प्रत्ययाधिकारस्य समाप्तिपर्यन्तम् ये केऽपि प्रत्ययाः पाठिताः सन्ति, तेषाम् सर्वेषाम् ग्रहणम् अस्मिन् सूत्रे "सुँ-आदि" इत्यनेन कृतम् अस्ति । एतेषु ये प्रत्ययाः "सर्वनामस्थान" संज्ञकाः सन्ति, तान् विहाय अन्येषु यकारादिषु अजादिषु प्रत्ययेषु वा परेषु प्रकृतेः वर्तमानसूत्रेण भसंज्ञा भवति ।

उदाहरणानि एतादृशानि -

1) "राम + शस्" इत्यत्र राम-शब्दस्य भसंज्ञा भवति, यतः अत्र उपस्थितः शस्-प्रत्ययः चतुर्थाध्याये पाठितः अस्ति, सर्वनामस्थानसंज्ञकः नास्ति, अजादिः च अस्ति ।
2) "फल + शस्" इत्यत्र फल-शब्दस्य भसंज्ञा न भवति, यतः अत्र उपस्थितः शस्-प्रत्ययः सर्वनामस्थानसंज्ञकः अस्ति । (नपुँसकात् परस्य जस्-शस्-प्रत्यययोः सर्वनामस्थानसंज्ञा भवति ।)
3) "फल + औ" इत्यत्र फल-शब्दस्य भसंज्ञा भवति, यतः अत्र उपस्थितः औ-प्रत्ययः चतुर्थाध्याये पाठितः अस्ति, सर्वनामस्थानसंज्ञकः नास्ति, अजादिः च अस्ति ।
4) "राम + भ्याम्" इत्यत्र राम-शब्दस्य भसंज्ञा न भवति, यतः अत्र उपस्थितः भ्याम्-प्रत्ययः अजादिः यकारादिः वा नास्ति ।
5) "गर्ग + यञ्" इत्यत्र गर्ग-शब्दस्य भसंज्ञा भवति, यतः अत्र उपस्थितः यञ्-प्रत्ययः चतुर्थाध्याये पाठितः अस्ति, सर्वनामस्थानसंज्ञकः नास्ति, यकारादि च अस्ति ।
6) "राम + क्यच्" इत्यत्र राम-शब्दस्य भसंज्ञा न भवति, यतः अत्र उपस्थितः क्यच्-प्रत्ययः तृतीयाध्याये पाठितः अस्ति, चतुर्थ-पञ्चमाध्याययोः न ।

ज्ञातव्यम् -
1. स्वादिष्वसर्वनामस्थाने 1|4|17 इत्यनेन सर्वनामस्थानभिन्ने प्रत्यये परे प्रकृतेः पदसंज्ञा भवति । यकारादौ अजादौ वा प्रत्यये परे अपि अनेन सूत्रेण पदसंज्ञायाम् प्राप्तायाम् वर्तमानसूत्रेण भसंज्ञायाः निर्देशं कृत्वा पदसंज्ञायाः निषेधः भवति । एकसंज्ञाधिकारस्य कारणात् कस्यापि शब्दस्य एकस्मिन् एव समये पदसंज्ञा तथा भसंज्ञा - द्वेऽपि न भवतः ।
2. भसंज्ञायाः विधानम् अङ्गसंज्ञायाः सन्दर्भेण न क्रियते । अस्मिन् सूत्रे "अङ्गस्य" इति नैव अनुवर्तते । यदि एतादृशम् अभविष्यत्, तर्हि एकसंज्ञाधिकारात् भसंज्ञया अङ्गसंज्ञायाः बाधः अभविष्यत् ।
One-line meaning in English
If a यकारादि or an अजादि प्रत्यय which is not a सर्वनामस्थान and which is specified in the fourth or fifth chapter gets attached to a प्रकृति , the प्रकृति gets the term भ.
काशिकावृत्तिः
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
`यचि` इति वर्णग्रहणं सप्तमीनिर्दिष्टम्। अतः `यस्मिन् विधिस्तद्दावल्ग्रहणे` (वा।14) इति तदादिविधिनात्र भवितव्यमित्यत आह-- `यकारादौ` इत्यादि। गाग्र्य इत्यादौ भसंज्ञायां सत्यां `यस्येति च` 6|4|148 इत्यकारलोपः।`नभोऽङिरोमनुषां वत्युपसंख्यानं कर्तव्यम्` इति। भसंज्ञायास्त्वत्र पदसंज्ञाबाधः फलम्। `नभ इव` इति तुल्यार्थतोपदर्शनमेतत्; न तु प्रथमासमर्थाद्वतिः। स तु नभसा तुल्यं वत्र्तत इति `तेन तुल्यम्` 5|1|114 `आङ्गिरस्वत्` इति। पूर्वेण तुल्यम्। `मनुष्वत` इति। `जनेरुसिः`(द।उ।9।37) इत्यत्र बहुलग्रहणानुवृत्तेः `मन ज्ञाने` (धातुपाठः-1176) इत्येतस्मादुसिप्रत्ययः। `आदेशप्रत्यययोः` 8|3|59 इति षत्वम्। मनुष् इति स्थिते पूर्ववद्वतिः-- मनुष्वदिति। यद्यत्र पदसंज्ञा स्यात् तदा षत्वस्यासिद्धत्वादिह रुत्वं स्यात्, ततश्च मनुर्वदित्यनिष्टं रूपं स्यात्। उपसंख्यानशब्दस्य चेह प्रतिपादनम्-- `सिति च` 1|4|16 इत्यतश्चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः। तेन नभोऽङ्गिरोमनुषां वतौ भसंज्ञा भविष्यति।`वृषण्वस्वआयोः` इति। अन्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदसंज्ञायां प्राप्तायां भसंज्ञा विधीयते,तस्याश्च विधिश्चकारानुवृत्तेरेव लभ्यते। वृष्णोऽआः, अत्र भत्वे सति यद्यपि णत्वस्यासिद्धत्वम्, तथापि नलोपः पदनिबन्धनो न भवति, `पदान्तस्य` 8|4|36 इति णत्वप्रतिषेधश्च॥
यकारादावित्यादि। ठ्यस्मिन्विधिस्तदादावल्प्रहणेऽ इति तदादिविधिः। गार्ग्य इत्यादौ भत्वाद्यस्येति लोपः। नभोऽङ्गिरोमनुषां वत्युपसंख्यानमिति। द्वे अप्येते उपसंख्याने छन्दोविषये इत्याहुः। नभ इवेति। तृतीयासमर्थाद्वतेर्विधानात् तुल्यार्थापदर्शनमेतत्, नभसा तुल्यं वर्तत इति विग्रहः। पदनिबन्धनकार्यनिवॄत्यथमेव चैषां भसञ्ज्ञा विधीयते, न तु भत्वनिमितं कार्यं यथा स्यादिति; असम्भवात्। नभस्वद्, अङ्गिरस्वदिति। अत्रापदत्वाद्रुत्वाभावो मनुष्वदित्यत्र पदत्वे रुत्वं स्याद् न तु षत्वम्; अपदान्तस्येति वचनात्। वृषण्वसुः वृषणाश्व इति। पदत्वे सति ठ्पदान्तस्यऽ इति प्रतिषेधाण्णत्वं न स्यात्, नलोपश्च स्याद्। भत्वेऽप्यल्लोपो न भवति; अनङ्गत्वात्॥
सिद्धान्तकौमुदी
यकारादिष्वजादिषु च कप्प्रत्ययवधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसंज्ञं स्यात् ॥
यचि भम् - भसंज्ञया पदसंज्ञाबाधान्न जश्त्वमिति समाधातुं भसंज्ञासूत्रमाह — यचि भं । य्च अश्चेति समाहाद्वन्द्वः ।स्वादिष्वसर्वनामस्थाने॑ इत्यनुवृत्तंयची॑त्यनेन विशेष्यते ।यस्मिन्विधि॑रिति तदादिविधिः । तदाह — यकारादिष्वित्यादिना । एवंच दत्-असित्यत्र "दत्" इत्यस्य भसंज्ञया पदसंज्ञाबाधान्न जश्त्वमिति भावः । ननु पदभसंज्ञयोरिह समावेशः कुतो न स्यात् । नच॒विप्रतिषेधे परं कार्य॑मिति परैव भसंज्ञा भवतीति वाच्यं, विरोध हि विप्रतिषेधः ।
यचि भम् - यचि भम् ।यची॑त्यल्ग्रहणेन सप्तमीनिर्देशात्तदादिविधिरित्याह-यकारादिष्वित्यादि । यकारादिषु किम् ।गार्ग्यः । वात्स्यः । गर्गादिभ्यो यञियस्येति चेत्यकारलोपो यथा स्यात् । असर्वनामस्थानेषु किम् । सुपादौ, सुपादः । विद्वांसौ, विद्वांसः । दित्यवाहौ , दित्यवाह इत्यादौपादः पत्वसोः संप्रसारणम्वाह ऊ॑डित्यादयो मा भूवन्निति ।
लघुसिद्धान्तकौमुदी
यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात्॥
महाभाष्यम्
यचि भम् (258) भसंज्ञायामुत्तरपदलोपे षषः प्रतिषेधः ।। 1 ।। भसंज्ञायामुत्तरपदलोपे षषः प्रतिषेधो वक्तव्यः । अनुकम्पितः षडङ्गुलिः षडिकः। सिद्धमचः स्थानिवत्त्वात् ।। 2 ।। सिद्धमेतत् । कथम् ? अचः स्थानिवद्भावाद्भसंज्ञा न भविष्यति। इहापि तर्हि प्राप्नोति ‐ वागाशीर्दत्तः वाचिक इति । वक्ष्यत्येतत् ‐ सिद्धमेकाक्षरपूर्वपदानामुत्तरपदलोपवचनादिति। । इहापि तर्हि प्राप्नोति ‐ षडङ्गुलिः षडिक इति । वक्ष्यत्येतत् ‐ षषष्ठाजादिवचनात्सिद्धमिति। नभोङि्गरोमनुषां वत्युपसंख्यानम् ।। 3 ।। नभोङि्गरोमनुषां वत्युपसंख्यानं कर्तव्यम् । नभस्वत्। अङि्गरस्वत्। मनुष्वत्। वृषण्वस्वश्वयोश्च ।। 4 ।। वृषणित्येतस्य वस्वश्वयोर्भसंज्ञा वक्तव्या। वृषण्वसुः । वृषणश्वस्य .यच्छिरः, वृषणश्वस्य मेने ।। 18 ।।