Page loading... Please wait.
1|4|17 - स्वादिष्वसर्वनामस्थाने
॥ तस्मै पाणिनये नम: ॥
1|4|17
SK 230
स्वादिष्वसर्वनामस्थाने  
सूत्रच्छेद:
सुँ-आदिषु - सप्तमीबहुवचनम् , असर्वनामस्थाने - सप्तम्येकवचनम्
अनुवृत्ति:
पदम्  [1|4|14] - प्रथमैकवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
असर्वनामस्थाने सुँ-आदिषु पदम्
सूत्रार्थ:
असर्वनामस्थानसंज्ञकः सुँ-आदि-प्रत्ययः यस्मात् भवति तस्य पदसंज्ञा भवति ।
चतुर्थाध्यायस्य प्रथमपादे स्वौजस्... 4|1|2 अस्मिन् सूत्रे सुँ-प्रत्ययः दत्तः अस्ति । अस्मात् आरभ्य प्रत्ययाधिकारस्य समाप्तिपर्यन्तम् ये केऽपि प्रत्ययाः पाठिताः सन्ति, तेषाम् सर्वेषाम् ग्रहणम् अस्मिन् सूत्रे "सुँ-आदि" इत्यनेन कृतम् अस्ति । एतेषु ये प्रत्ययाः "सर्वनामस्थान" संज्ञकाः सन्ति, तान् विहाय अन्येषु परेषु प्रकृतेः वर्तमानसूत्रेण पदसंज्ञा भवति ।

के प्रत्ययाः "सर्वनामस्थान"-संज्ञकाः?
- सुडनपुँसकस्य 1|1|43 इत्यनेन पुँल्लिङ्गात् स्त्रीलिङ्गात् च शब्दात् विद्यमानाः सुँ/औ/जस्/अम्/औट् -एते पञ्च प्रत्ययाः सर्वनामस्थानसंज्ञां प्राप्नुवन्ति ।
- शि सर्वनामस्थानम् 1|1|42 इत्यनेन नपुँसकलिङ्गात् विद्यमानौ जस् तथा शस्-प्रत्ययौ सर्वनामस्थानसंज्ञकौ स्तः ।

एतान् विहाय चतुर्थाध्याये पञ्चमाध्याये वा पाठितः अन्यः कोऽपि प्रत्ययः अग्रे अस्ति चेत् प्रकृतेः पदसंज्ञा भवति ।

कानिचन उदाहरणानि एतादृशानि -

1. "राम + भ्याम्" इत्यत्र राम-शब्दस्य पदसंज्ञा भवति, यतः अत्र उपस्थितः भ्याम्-प्रत्ययः चतुर्थाध्याये पाठितः अस्ति, सर्वनामस्थानसंज्ञकः च नास्ति ।
2. "राम + सुँ" इत्यत्र राम-शब्दस्य पदसंज्ञा न भवति, यतः सुँ-प्रत्ययः अत्र सर्वनामस्थानसंज्ञकः अस्ति ।
3. "फल + सुँ" इत्यत्र फल-शब्दस्य पदसंज्ञा भवति, यतः सुँ-प्रत्ययः अत्र सर्वनामस्थानसंज्ञकः नास्ति । (नपुँसकात् परस्य केवलं जस्-शस्-प्रत्यययोः एव सर्वनामस्थानसंज्ञा भवति ।)
4. "सत्य + णिच्" इत्यत्र सत्य-शब्दस्य पदसंज्ञा नास्ति, यतः णिच्-प्रत्ययः चतुर्थाध्याये पञ्चमाध्याये वा पाठितः नास्ति, तृतीयाध्याये सत्यापपाश... 3|1|25 इत्यत्र पाठितः अस्ति ।

ज्ञातव्यम् -
1. वर्तमानसूत्रेण यकारादौ अजादौ वा प्रत्यये परे पदसंज्ञायाम् प्राप्तायाम् यचि भम् 1|4|18 इत्यनेन तस्याः निषेधं कृत्वा भसंज्ञा भवति । अतः "राम + ओस्" एतादृशेषु स्थलेषु राम-शब्दस्य पदसंज्ञा न भवति ।
2. अस्मिन् सूत्रे "अङ्गम्" इति न अनुवर्तते । इत्युक्ते, पदसंज्ञायाः विधानम् अङ्गसंज्ञायासम्बन्धी नास्ति । यदि तादृशम् अभविष्यत् तर्हि पदसंज्ञायाः उपस्थितौ एकसंज्ञाधिकारात् अङ्गसंज्ञायाः बाधः अभविष्यत् ।
One-line meaning in English
If a प्रत्यय which is not a सर्वनामस्थान and which is specified in the fourth or fifth chapter gets attached to an प्रकृति , the प्रकृति gets the term पद.
काशिकावृत्तिः
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
अत्र यदि सप्तमीबहुवचनादारभ्य आ कपः प्रत्यया गृह्रेरन्, तदा `असर्वनामस्थाने` इति प्रतिषेदं न कुर्यात्; प्राप्त्यभावात्। कृतश्चासावतोऽवसीयते प्रथमैकवचनादारभ्या कपः प्रत्ययाः स्वादयो गृह्रन्त इत्यत आह-- `स्वादिष्विति सुशब्दादेकवचनादारभ्य` इति। `राजत्वम्, राजता` इति। `तस्य भावस्त्वतलौ` 5|1|118 । `राजतरः` इति। `द्विवचनविभज्योपपदे तरबीयसुनौ` 5|3|57 इति तरप्। `राजतमः` इति। `अतिशायने` 5|3|55 इत्यादिना तमप्।`राजानौ,राजानः` इति। अत्र पदसंज्ञाया अभावान्नलोपो न भवति। यद्येवम्, राजत्यत्रापि न स्यात्, प्रत्ययलक्षणेनासर्वनामस्थान इति पदसंज्ञाया अभावात्,नैष दोषः; आचार्यप्रवृत्तिज्र्ञापयति-- भवति सौ परतः पदसंज्ञेति, यदयम् `नङिसम्बुद्धयोः` 8|2|8 इति प्रतिषेधं शास्ति। अत्र सम्बुद्धिशब्दोऽनर्थकः स्यात्, पदत्वाभावादेव नलोपस्याप्राप्तेः। अथ वा -- `असर्वनामस्थाने` इति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः,तेन सर्वनामस्थानादन्यत्र पदसंज्ञा विधीयते; न तु सर्वनामस्थानं प्रतिषिध्यते। तेन तत्र पूर्वसूत्रेण सौ परे पदसंज्ञा भविष्यति। अथ वा- प्रसज्यप्रतिषेधेऽपि न दोषः, यस्मात् `अनन्तरस्य विधिर्वा प्रतिषेधो वा`(व्या।प।12) इत्यनन्तरा या प्राप्तिः सा प्रतिषिध्यते; न व्यवहिता। तेन `सुप्तिङन्तं पदम्` 1|4|14 इत्यकारलोपः॥
स्वादिष्विति सुशब्दादेकवचनादिति। सप्तमीबहुवचनादारभ्य ग्रहणं न भवति; ठसर्वनामस्थानेऽ इति निषेधात्, यदि हि राजश्रित इत्यादौ सर्वनामस्थाने ठ्सुबन्तम्ऽ इति प्राप्तायाः संज्ञायाः निषेधोऽभीष्टः स्यात्, तत्रैव ठसर्वनामस्थानेऽ इति ब्रूयात्। अथ राजवानित्यादावन्तर्वर्तिनिषेध इति चेद्, न; लुमता लुप्ते प्रत्ययलक्षणाभावात्, ठ्तसौ मत्वर्थेऽ इति पदसंज्ञाबाधनाय भसंज्ञाविधानाच्च। आ कप इति। यदि पुनः सप्तमीबहुवचनपर्यन्ता एकविंशतिः प्रत्यया गृह्यएरन्, तदा सुब्ग्रहणमेव कुर्याद्, अनुवर्तयेद्वा; ठसर्वनामस्थानेऽ इत्यनेन सम्बन्धात्सप्तम्या विपरिणामात् सिद्धम्। किमथ पुनरा कपः प्रत्यया गृह्यन्ते, यावता सुबन्तातद्धितोत्पतिः समर्थाधिकारात्, स्वार्थिका अपि सुबन्तादेव,ठ्घकालतनेषुऽ इति लिङ्गत्, ततश्च राजत्वं राजतेत्यादावन्तर्वर्तिन्या विभक्त्या सुबन्तं पदमित्येव सिद्धम्? सत्यम्; भसंज्ञार्थं त्वा कपः प्रत्यया गृहीताः। राजत्वमित्यादि। सुबन्तत्वेऽपि। परत्वादनेन पदत्वं युक्तमित्येषामुपन्यासः। राजानौ, राजान इति। अत्रापदत्वान्नलोपाभावः, राजेत्यत्र तु प्रत्ययलक्षणेन निषेधो न भवति ठ्न ङसिम्बुद्ध्योःऽ इति लिङ्गान्नैतल्लिङ्गमुपपद्यते। हे वर्मन्निति नपुंसके लुमता लुप्ते सर्वनामस्थाने निषेधाभावादस्त्येव पदत्वमिति तत्रार्थवान् प्रतिषेधः। एवं तर्हि नायं प्रसज्यप्रतिषेधः- सर्वनामस्थाने नेति, किं तर्हि? पर्युदासोऽयम्-पदन्यत्सर्वनामस्थानदिति। सर्वनामस्थाने न विधिर्न प्रतिषेधः; यदि केनचित्प्राप्नोति, भवत्येव, पूर्वेण प्राप्नोति, अथ वा-अनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुतः पुनरेतद्? ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ। अथ वा-ठ्सर्वनामस्थानेऽ इत्यत्र यचीत्यपकृष्य सम्बध्यते, तेन यजादौ पदसंज्ञा निषिध्यते, न हलादाविति राजेत्याते, स्वादौ, एवं हि ठसर्वनामस्थानेऽ इति न वक्तव्यं भवति? उतरार्थ सुठ।ल्पि नपुंसके भसंज्ञा यथा स्यात्, साम्नी इत्यत्र मा भूद्। भसञ्ज्ञा ठ्विभाषा ङिश्योःऽ ईति वचनसामर्थ्यादेवाभस्याप्यल्लोपो भविष्यति। तत्रायमप्यर्थो यस्येत्यादौ ठ्श्यां प्रतिषेधःऽ इति न वक्तव्यं भवति; अभत्वादेव सिद्धम्। इह तर्हि सुपदी ब्राह्मणकुले इति पद्भावो न स्यादभत्वात्, इह च सामानि पश्येति भत्वादल्लोपः स्यादिति यथान्यासमेवास्तु॥
सिद्धान्तकौमुदी
कप्प्रत्ययवधिषु स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं पदसंज्ञं स्यात् ॥
स्वादिष्वसर्वनामस्थाने - तदेतदाह — स्वादिपञ्चेति । स्वादिष्वस ।असर्वनामस्थाने॑इति बहुत्वेऽप्येकवचनमार्षम् । कप्प्रत्ययावधिष्विति । पञ्चमाध्यायान्ते विधीयमानकप्प्रत्ययोत्तरावधिकेष्वित्यर्थः । तत्र च व्याख्यानमेव शरणम् । एवं च दत्-असित्यत्र दत्शब्दस्य सुबन्तत्वाऽभावेन पदत्वाऽभावेऽप्यनेन सूत्रेण पदत्वात् "झलां जशोऽन्ते" इति तकारस्य जश्त्वं स्यादित्याक्षेपः सूचितः ।
स्वादिष्वसर्वनामस्थाने - स्वादिष्वसर्वनाम ।सु॑रत्र सप्तमीबहुवचनमिति न शङ्क्यम् , किंतुअसर्वनामस्थाने॑ इति पर्युदासात्प्रथमैकवचनमेव ।सुपी॑त्येव सिद्धे आदिग्रहणमधिकपरिग्रहार्थमित्याशयेनाह -कप्प्रत्ययावधिष्विति । नन्वेवं-राजे॑त्यत्र नलोपो न स्यात्प्रत्ययलक्षणेन सर्वनामस्थानपरतया पदत्वाऽभावात् । नैष दोषः । सौ परतःस्वादिषु॑ इत्यनेन पदत्वाऽसंभवेऽपि सुब्विशिष्टस्यसुप्तिङ्न्त॑मितित पदसंज्ञायां हल्ङ्यादिना सुलोपे एकदेशविकृतन्यायेन नकारान्तस्य पदत्वात् । यदि तुस्वादिषु॑ इतियोगेन स्वादिषु परेषु पूर्वं पदं भवतीति पूर्वस्य पदसंज्ञां विधाययचि भ॑मित्यत्रयची॑ति च्छित्त्वायजादौ सर्वनामस्थाने परतः पूर्वं पदं नेति निषिध्यते, तदा औजसादिषुपदसंज्ञाऽभावेऽपि सौ परतः पदत्वसंभवात्राजे॑त्यादौ नलोपे कार्ये न काप्यनुपपत्तिः ।
लघुसिद्धान्तकौमुदी
कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात्॥
महाभाष्यम्
स्वादिष्वसर्वनामस्थाने (257) असर्वनामस्थान इत्युच्यते तत्र ते राजा तक्षा असर्वनामस्थान इति प्रतिषेधः प्रसज्येत। नाप्रतिषेधात् ।। 1 ।। नाऽयं प्रसज्यप्रतिषेधः ‐ सर्वनामस्थाने नेति । किं तर्हि ? पर्युदासोऽयम् ‐ यदन्यत्सर्वनामस्थानादिति । सर्वनामस्थानेऽव्यापारः । यदि केनचित्प्राप्नोति तेन भविष्यति । पूर्वेण च प्राप्नोति। अप्राप्तेर्वा।। 2 ।। अथवाऽनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुत एतत् ? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति । पूर्वा प्राप्तिरप्रतिषिद्धा, तया भविष्यति। ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधते । नोत्सहते प्रतिषिद्धा सती बाधितुम् । योगविभागद्वा ।। 3 ।। अथ वा योगविभागः करिष्यते ‐ स्वादिषु पूर्वं पदसंज्ञं भवति । ततः सर्वनामस्थानेऽयचिपूर्वं पदसंज्ञं भवति । ततः भम् भसंज्ञं च भवति यजादावसर्वनामस्थान इति। यदि तर्हि सावपि पदं भवति, एचः प्लुतविकारे पदान्तग्रहणं चोदितम्। इह माभूत् ‐ भद्रं करोषि गौरिति । तस्मिन्क्रियमाणेऽपि प्राप्नोति । वाक्यपदयोरन्त्यस्येत्येवं तत् । भुवद्वद्भ्यो धारयद्वद्भ्यः पदसंज्ञा।। 4 ।। एतयोः पदसंज्ञा वक्तव्या । भुवद्वद्भ्यः धारयद्वद्भ्यः ।। 17 ।।