Page loading... Please wait.
1|4|16 - सिति च
॥ तस्मै पाणिनये नमः ॥
1|4|16
SK 1252
सिति च   🔊
सूत्रच्छेदः
सिति (सप्तम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
पदम्  1|4|14 (प्रथमैकवचनम्)
अधिकारः
आकडारात् एका संज्ञा  1|4|1
सम्पूर्णसूत्रम्
सिति पदम्
सूत्रार्थः
सित्-प्रत्यये परे शब्दस्वरूपस्य पदसंज्ञा भवति ।
यस्मिन् प्रत्यये सकारः इत्संज्ञकः अस्ति, तस्मिन् प्रत्यये परे प्रकृतेः पदसंज्ञा भवति । एतत् सूत्रम् यचि भम् 1|4|18 इत्यस्य अपवादरूपेण आगच्छति । यद्यपि सित्-प्रत्यये परे यचि भम् 1|4|18 इत्यनेन भसंज्ञा विधीयते, तथापि अनेन सूत्रेण तस्याः निषेधं कृत्वा "पद"संज्ञा विधीयते । एकसंज्ञाधिकारस्य कारणात् उभेऽपि संज्ञे न भवतः ।

यथा - ऊर्णायाः युस् 5|2|123 इत्यनेन ऊर्णा शब्दस्य युस्-प्रत्ययः भवति । युस्-इत्यत्र सकारः इत्संज्ञकः अस्ति । अतः वर्तमानसूत्रेण अस्मिन् प्रत्यये परे "ऊर्णा" शब्दस्य पदसंज्ञा भवति, तथा च भसंज्ञा निषिध्यते । अतएव "ऊर्णा + यु" इत्यत्र यस्येति च 6|4|148 इत्यनेन भसंज्ञकस्य अङ्गस्य अन्तिम-आकारस्य यः लोपः विधीयते, सः "ऊर्णा" शब्दस्य विषये न भवति । अतः "ऊर्णायु" इत्येव प्रातिपदिकम् सिद्ध्यति ।
One-line meaning in English
In presence of a प्रत्यय having सकार as इत्संज्ञक, the प्रकृति gets the term पद.
काशिकावृत्तिः
यचि भम् 1|4|18 इति वक्ष्यति। तस्यायं पुरस्तादपवादः। सिति प्रत्यये परतः पूर्वं पदसंज्ञं भवति। भवतष् ठक्छसौ 4|2|115 भवदीयः। ऊर्णाया युस् 5|2|123 ऊर्णायुः। ऋतोरण् 5|1|105, छन्दसि घस् 5|1|106 ऋत्वियः।
`भवदीयः` इत्यादि। `तत्र जातः` 4|3|25 इत्यादौ शैषिकेऽर्थे तद्धितः, पदत्वात् `झलाञ्जशोऽन्ते` 8|2|39 इति जश्त्वम्। `ऊर्णायुः` इति। `ऊर्णाया युस्` 5|2|122 इति युसि कृते पदसंज्ञया भसंज्ञायां निरस्तायां `यस्येति च` 6|4|148 इत्याकारलोपो न भवति। `ऋत्वियः` इति। ऋतुः प्राप्तोऽस्त्येति `ऋतोरण्` `छन्दसि घस्` 5|1|105 ऋत्वियः, पदत्वात् भत्वाभावे तदाश्रयः `ओर्गुणः` 6|4|146 न भवति।
भवदीय इति। पदत्वाज्जत्वम्। ऊर्णायुरिति पदसंज्ञाया निरस्तत्वाद् यस्येति लोपाभावः। एवम् ऋत्विय इति ठोर्गुणःऽ न भवति, चकारोऽनुक्तसमुच्चयार्थः तेन भुवद्धारयतोर्मतोश्च्छन्दसि ठ्तसौ मत्वर्थेऽ इति भसंज्ञां बाधित्वा पदसंज्ञा भवति, तेन भुवद्वद्भ्यः, धारयद्वद्भ्यः॥
सिद्धान्तकौमुदी
सिति परे पूर्वं पदसंज्ञं स्यात् । अभत्वादोर्गुणो न । पर्शूनां समूहः पार्श्वम् ॥
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.