`सुप् तिङिति प्रत्याहारग्रहणम्` इति। युक्तं हि तिङिति प्रत्याहारग्रहणम्, अन्यस्य तिङशब्दस्याभावात्; कथं सुबिति प्रत्याहारग्रहणम्, सप्तमीबहुवचनस्य विद्यमानत्वात् तस्य ग्रहणं कस्मान्न भवतीति? नैष दोषः; ` न ङिसम्बुद्ध्योः`
8|2|8 इति प्रतिषेधात्। सप्तमीबहुवचनस्य सुपो ग्रहणे ङिसम्बुद्ध्योः पदत्वाभावान्नलोपस्य प्राप्तिरेव नास्तीति प्रतिषेधोऽर्थकः स्यात्। `ब्राआहृणाः` इति। पदत्वे च सति `ससजुषो रुः`
8|2|66 , `खरवसानयोर्विसर्जनीयः`
8|3|15 । `पठन्ति` इति। अत्र पदत्वे सति `तिङङतिङः`
8|1|28 इति निघातः।ननु च`प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य` (पु प 24) इत्यनेन `येन विधिस्तदन्तस्य`
1|1|71 इत्यनेन वाऽन्तरेणाप्यन्तग्रहणं तदन्तस्यैव संज्ञा भविष्यति, तत्किमर्थमन्तग्रहणमित्यत आह-- `पदसंज्ञायाम्` इत्यादि। यदीहान्तग्रहणेनाप्यन्यत्र संज्ञाविधौ तदन्तविधिर्नास्तीत्येषोऽर्थो न ज्ञाप्यते, तदा `तरप्तमपौ घः`
1|1|21 इत्यत्र तरबन्तस्य घसंज्ञा स्यात्, न प्रत्ययमात्रस्य। तस्मादत्रास्मिन्नर्थेऽन्तग्रहणेन ज्ञाप्यते-- अन्यत्र संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधो यथा स्यादित्येवमर्थमन्तग्रहणम्। तेन तरप्तमपोरेव घसंज्ञा भवति, न तु तदन्तस्य। `गौरीब्राआहृणितरा` इति।अत्र गौरीशब्दस्य तरबन्ते ब्राआहृणितराशब्दे परतः `घरूपकल्प`
6|3|42 इत्यादिना ह्यस्वो न भवति; तरबन्तस्याघसंज्ञकत्वात्। प्रत्ययमात्रस्य घसंज्ञायां तत्र परतो ब्राआहृणीशब्दस्य ह्यस्वो भवत्येव॥