॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|110
SK 27
1|4|110
विरामोऽवसानम्   🔊
SK 27
सूत्रच्छेद:
विरामः - प्रथमैकवचनम् , अवसानम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
विराम: अवसानम्
सूत्रार्थ:
विरामः अवसानसंज्ञकः अस्ति ।
"विराम" इत्युक्ते वर्णानाम् उच्चारणस्य अभावः । यथा - "रामः" इत्यत्र विसर्गात् अनन्तरम् कोऽपि वर्णः न उच्चार्यते, अतः "रामः" पदात् अनन्तरम् विरामः अस्ति इत्युच्यते । "संहितायाः अनुपस्थितिः इति विरामः" एतत् अपि वक्तुं शक्यते । अस्य विरामस्यैव व्याकरणशास्त्रे "अवसान" संज्ञा भवति ।

"अवसान"संज्ञायाः प्रयोगः खरवसानयोर्विसर्जनीयः 8|3|15, वाऽवसाने 8|4|56 एतादृशेषु सूत्रेषु भवति ।
One-line meaning in English
Absence of letters is called विराम.
काशिकावृत्तिः
विरतिः विरामः। विरम्यते ऽनेन इति वा विरामः। सो ऽवसानसंज्ञो भवति। दधिं। मधुं। वृक्षः। प्लक्षः। अवसानप्रदेशाः खरवसानयोर् विसर्जनीयः 8|3|15 इत्येवम् आदयः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य चतुर्थः पादः। द्वित्तियो ऽध्ययः प्रथमः पादः
`विरतिर्विरामः` इति। भावे घञ्। विरामो वणोच्चारणाभावोऽवसानसंज्ञो भवति। `विरम्यतेऽनेनेति विरामः` इति विरामशब्दस्य द्वितीयमर्थं दर्शयति। `कृत्यल्युटो बहुलम्` 3|3|13 इति बहुलवचनादसंज्ञायामपि `हलश्च` 3|3|121 इति घञ्। अत्र पक्षे येनान्त्येन वर्णेन विरम्यते सोऽवसानसंज्ञो भवति। तत्र पूर्वस्मिन् पक्षेऽभावे पौर्वापर्याभावात् `खरवसानयोः` 8|3|15 इत्यत्रावसानापेक्षया विषयसप्तमीयं विज्ञायते; न परसमप्तमी। खरपेक्षया तु सप्तमीयम्।अन्ये तु-- यद्यभावे पौर्वापर्यं न सम्भवतीत्यवसनापेक्षया `खरवसानयोः` 8|3|15 इति परसप्तमी नोपपद्यते, तदा `इको यणचि` 6|1|74 इत्यादावपि परसप्तमी नोपपद्यते। कथम्? वर्णानां क्रमभावित्वात्, उच्चरितप्रध्वंसितत्वाच्च। यदेगस्ति तदाञ् नास्ति, यदा त्वजस्ति तदेग् नास्ति। अथात्र बुद्धिप्रकल्पितं पौर्वापर्यमाश्रित्य परसप्तमीष्यते, तदा `खरवसानयोः` 8|3|15 इत्यत्रापितथैवैष्टव्येति मन्यमाना अवसानापेक्षयापि परसप्तमीमिच्छन्ति।अपरे तु--अन्त्यस्य तु वर्णस्यावसानसंज्ञायां सत्यां `खरवसानयोः` 8|3|15 इति षष्ठी विज्ञायते। अत्रावसानापक्षया स्थानषष्ठी। रेफस्यावसानस्य विसर्जनीय इति खरपेक्षया तवानन्तर्यलक्षणा षष्ठीति वदन्ति। तन्मते स्थानषष्ठआं हि `रो रि` 8|3|14 इत्यतो रेफस्यानुवृत्तस्य यत् स्थानित्वं तदविरुध्यते तदेवमेकापि विभक्तिर्यथायोगं विभज्यते। ननु चाभावपक्षेऽपि पूर्वस्मिन्नपि भागेऽनुच्चारममस्ति, तत्रापि विसर्जनीयः प्राप्नोति-- रथ इति, अस्ति ह्रत्रापि रेफात् प्रागुच्चारणम्? नैष दोषः तत्र हि प्रकृतं पदग्रहणं रेफेण विशिष्यते-- रेफान्तस्य पदस्येति। न च पूर्वेण रेफेण पदं भवति। नन्वेवप्यर्थस्यैषा संज्ञा स्यादिति `खरवसनायोः` 8|3|15 इत्यत्र `तस्मिन्निति निर्दिष्टे पूर्वस्य` 1|1|65 इति परिभाषा नोपतिष्ठते। शब्दे हि सप्तमीनिर्दिष्टे सतीयमुपतिष्ठते, नार्थे। तदनुपस्थाने च परेण रेफेण रेफान्तस्य रथ इत्येतस्य पदस्य पूर्वो यो रेफस्तस्य व्यवहितस्यापि विसर्जनीयः स्यात्, नैष दोषः; ज्ञापकान्न भविष्यति, यदयं `उरण् रपरः` 1|1|50 इति व्यवहितस्य रेफस्य विसर्जनीयमकृत्वा निर्देशं करोति, तज्ज्ञापयति- व्यवहितस्य रेफस्य विसर्जनीयो न भवतीति। `नन्वत्र लोके प्रसिद्धेरेवायन्त्ये वर्णेऽवसानशब्दस्य सम्प्रत्ययो भविष्यति। प्रसिद्धो हि लोके--अन्त्ये वर्णेऽवस्यतेः प्रयोगः। तथा हि केनावस्यतीत्युक्ते वक्तारो वदन्ति-- इकारेणोकारेण वेति। इकारादिवर्णेनावसानं करोतीत्यर्थः। ततः प्रदेश एवावसानग्रहणं कत्र्तव्यमिति नार्थः संज्ञासंज्ञिप्रणनेन, नैतदस्ति; अपूर्वो हि स्यतिः परिसमाप्तावपि वत्र्तते-- अवसितो वाद इति, अवगमेऽपि वत्र्तते-- अवसितोऽर्थ इति, पराभवेऽपि वत्र्तते--द्वयोर्विवादेऽवसितो दवदत्त इति। तत्र यदीयं नारभ्यते, तदावसानग्रणे सन्देहः स्यात्-- किमभिधानावसानशब्दस्य ग्रहणमिति? `विरामोऽवसानम्` 1|4|110 इति तु ह्रन्तग्रहणं कत्र्तव्यम्-- खरन्त्ययोरिति? एतदपि नास्ति; एवं हि सन्देहः स्यात्-- किमन्त्यस्य वर्णस्य? उत पदस्य? आहोस्वद्वाक्यस्येति? तत्रान्त्यस्य विशेषणार्थं वर्णग्रहणं कत्र्तव्यं स्यात्। तस्मात् संज्ञासंज्ञिसम्बन्धः कत्र्तव्यः।`वृक्षः, प्लक्षः` इति। `खरवसनायोर्विसर्जनीयः` 8|3|15 । `दधिं मधुँ` इति। `अणोऽप्रगृह्रस्यानुनासिक` 8|4|56 इति। अत्र हि `वाऽवसाने` 8|4|55 इत्यतोऽवसानग्रहणमनुवर्तते॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायांप्रथमाध्यायस्यचतुर्थः पादः समाप्तश्चायं प्रथमोऽध्यायः॥
विरतिर्विराम इति। विराम इति भावे घञ्। विरामःउ वर्णोच्चारणाभावः। अर्थान्तरमाह--विरम्यतेऽनेनेति वा विराम इति। ठ्कृत्यल्युटो बहुलम्ऽ इत्यसंज्ञायामपि ठ्हलश्चऽ इति करणे घञ्, पूर्वत्राभावः संज्ञी उतरत्रान्त्यो वर्णः, तेन हि विरम्यते। तत्राद्ये पक्षेठ्खरवसानयोःऽ इति परसप्तमी, कथं पुनरवसानेन, पौर्वापर्यमभावो हि सः, खरा वा, कथम्? न हि यदा खरस्ति तदा रेफः, यदा रेफस्तदा खर्; वर्णानां क्रमभावित्वाद्, उच्चरितप्रध्वंसित्वाच्च। अथ तत्र बुद्धिपरिकल्पितं पौर्वापर्यं तदभावेऽपि समानम्। एवं ठ्वावसानेऽ इत्यत्रापि। द्वितीये तु पक्षे खरवसानयोरित्येकापि सप्तमी विषयभेदाद्भद्यते--खरि परतो रेफस्य विसर्जनीयो भवति, अवसाने च रेफे स्थानिनि विसर्जनीय इति स्थन्यादेशस्य विषयता विवक्ष्यते। एवं ठ्वाऽवसानेऽ इत्यत्रापि। दधिं मधुÄ इति । ठणोऽप्रगृह्यस्यानुनासिकःऽ अत्र ठ्वावसानेऽ इति वर्तते। ननु च लोकएवावसानशब्दो विरामे प्रसिद्धः, यद्यप्यवपूर्वः स्यतिरवगतौ वर्तते केनैतदवसीयत इति? पराभवेऽपि अवसितो देवदत इति। अवसानशब्दस्तु विराम एव प्रसिद्धः। न च रेफस्यावगतिपराभवयोः करणत्वं सम्भवतीति नार्थः संज्ञाकरणेन, तदाह--संहितावसानयोर्लोकविदितत्वात् सिद्धमिति। संहिताशब्दोऽपि सन्निकर्षमात्रे प्रसिद्धः, न पदयोरेव सन्निकर्ष इति वार्तिककारो मन्यते॥ हरदतमिश्रविरचितायां पदमञ्जर्यो प्रथमाध्यायस्य चतुथः पादः॥
सिद्धान्तकौमुदी
वर्णानामभावोऽवसानसंज्ञः स्यात् ॥
विरामोऽवसानम् - विरामोऽवसानम् । विरम्यते अस्मिन्निति विरामः । सामीपिकेऽधिकरणे घञ् । विरमणं-क्रियाया अभावः, स च शब्दशास्त्रप्रस्तावाद्वर्णानामुच्चारणाऽभावात्मक इति लभ्यते । तथा चयस्मिन्वर्णे उच्चारिते सति अव्यवहितात्तरकाले वर्णान्तराणामुच्चारणाऽभावः सोऽन्त्यवर्णोऽवसानसंज्ञक॑ इत्यर्थः फलति । तदभिप्रेत्य व्याचष्टे — वर्णानामिति । यस्मिन्नुच्चारिते सति वर्णान्तराणामुच्चारणाऽभावः सोऽन्त्यवर्णोऽवसानसंज्ञक इत्यद्याहारेण विवरणं योज्यम् । यद्वा वर्णानामुच्चारणाऽभावो विरामः । भावे घञ् । स च किञ्चिद्वर्णोच्चारणोत्तरकालिक एव गृह्रते , व्याख्यानात् । अस्मिन् पक्षेकिञ्चिद्वर्णोच्चारणोत्तरं वर्णान्तराणामुच्चारणाभावोऽवसान॑मिति विवरणयोजना । तत्र प्रथमपक्षे खरवसानयोरित्यत्र खरि परतो रेफस्य विसर्गः, अवसाने तुरेफे स्थानिनी॑ति योज्यम् । खपवसानयोरित्येकापि सप्तमी विषयभेदाद्भिद्यते । द्वितीयपक्षे तु अभावस्यापि बुद्धिकृतं परत्वं बोध्यम् ।
विरामोऽवसानम् - विरामोऽवसानम् । विरमणं विरामः । भांवेघञ् । शब्दानुसासनप्रस्तावादाह-वर्णानामिति । संज्ञाप्रदेशाः-वावसाने॑ इत्यादयः । अभावस्यापि बुद्धिकृतं पौर्वापर्यमस्त्येव, यथोच्चरितप्रध्वंसिनां नित्यविभूनां वा वर्णानाम् । यद्वा विरम्यतेऽनेनेति विरामः, बाहुलकात्करणे घञ् । यदुच्चारणोत्तरं वर्णान्तरं नोच्चार्यते सोऽन्त्यवर्णोऽवसानसंज्ञ इत्यर्थः । अस्मस्तु पक्षेखरवसानयोः॑ इत्येकापि सप्तमी विषयभेदाद्भिद्यते-खरि परे रेफस्य विसर्गः, अवसाने च रेफे स्थानिनीति ।
लघुसिद्धान्तकौमुदी
वर्णानामभावोऽवसानसंज्ञः स्यात्। रुत्वविसर्गौ। रामः॥
महाभाष्यम्
विरामोऽवसानम् इदं विचार्यते ‐ अभावो वाऽवसानलक्षणं स्याद्विरामो वेति ? कश्चात्र विशेषः ? अभावेऽवसानलक्षणे उपर्यभाववचनम् ।। 1 ।। अभावेऽवसानलक्षणे उपर्यभावग्रहणं कर्तव्यम् । उपरि योऽभाव इति वक्तव्यम् । पुरस्तादपि हि शब्दस्याऽभावस्तत्र मा भूदिति । किं च स्यात् ? रसः, रथः, खरवसानयोविसर्जनीयः 8|3|16 इति विसर्जनीयः प्रसज्येत । अस्तु तर्हि ‐ विरामः । विरामे विरामवचनम् ।। 2 ।। यस्य विरामः, विरामग्रहणं तेन कर्तव्यम् । ननु च यस्याऽप्यभावस्तेनाऽप्यभावग्रहणं कर्तव्यम् । परार्थं मम भविष्यति ‐ अभावो लोपः, ततोऽवसानं चेति । ममापि तर्हि विरामग्रहणं परार्थं भविष्यति ‐ विरामो लोपः, अवसानं चेति । उपरिविरामवचनम्।।3 ।। उपरि यो विराम इति वक्तव्यम् । पुरस्तादपि (हि) शब्दस्य विरामस्तत्र मा भूत् । किं च स्यात्? रसः रथः, खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत । नैष दोषः आरम्भपूर्वको मम विरामः । अथवा नेदमवसानलक्षणं विचार्यते । किं तर्हि ? संज्ञी । अभावोऽवसानसंज्ञी स्याद्विरामो वेति । कश्चात्र विशेषः ? अभावेऽवसानसंज्ञिन्युपर्यभाववचनम् ।। 4 ।। अभावेऽवसानसंज्ञिन्युपर्यभावग्रहणं कर्तव्यम् । उपरि योऽभाव इति वक्तव्यम् । पुरस्तादपि हि शब्दस्याऽभावस्तत्र मा भूदिति । किं च स्यात् ? रसः रथः, खरवसानयोर्विसर्जनीय इति विसर्जनीयः प्रसज्येत । अस्तु तर्हि ‐ विरामोऽवसानम् । विरामे विरामवचनम् ।। 5 ।। यस्य विरामस्तेन विरामग्रहणं कर्तव्यम् । ननु च यस्याप्यभावस्तेनाप्यभावग्रहणं कर्तव्यम् । परार्थं मम भविष्यति ‐ अभावो लोपः, ततोऽवसानं चेति । ममापि तर्हि विरामग्रहणं परार्थं भविष्यति ‐ विरामो लोपोऽवसानं चेति । उपरि यो विराम इति वक्तव्यम् । ननु चोक्तम् ‐ आरम्भपूर्वके ‐ इति । नावश्यमयं रमिः प्रवृत्तावेव वर्तते । किं तर्हि ? अप्रवृत्तावपि । तद्यथा, ‐ उपरतान्यस्मिन्कुले व्रतानि उपरतः स्वाध्याय इति । न च तत्र स्वाध्यायो भूतपूर्वो भवति, नापि व्रतानि । भावाऽविरामभावित्वाच्छब्दस्याऽवसानलक्षणं न ।। 5 ।। भावाऽविरामभावित्वाच्छब्दस्याऽवसानलक्षणं नोपपद्यते । किमिदं भावाऽविरामभावित्वादिति ? भावस्याऽविरामो भावाऽविरामः, भावाऽविरामेण भवतीति भावाऽविरामभावी, भावाऽविरामभाविनो भावो भावाऽविरामभावित्वम् । अपर आह ‐ भावभावित्वादविरामभावित्वाच्च शब्दस्याऽवसानलक्षणं नोपपद्यते ‐ इति । तत्पर इति वा वर्णस्याऽवसानम् ।। 6 ।। विरामपरो वर्णोऽवसानसंज्ञो भवतीति वक्तव्यम् । वर्णोऽन्त्यो वाऽवसानम् ।। 7 ।। अथवा व्यक्तमेव पठितव्यम् ‐ अन्यो वर्णोऽवसानसंज्ञो भवतीति । तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । संहिताऽवसानयोर्लोकविदितत्वात्सिद्धम् ।। 8 ।। संहिताऽवसानमिति लोकविदितावेतावर्थौ । एवं हि कश्चित्कंचिदधीयानमाह-शन्नोदेवीयं संहितयाऽधीष्वेति । स तत्र परमसन्निकर्षमधीते । अपर आह-केनाऽवस्यसीति ? स आह ‐ अकारेणेकारेणोकारेणेति । एवमेतौ लोकविदितावर्थौ, तयोर्लोकविदितत्वात्सिद्धमिति ।। 110 ।। इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य चतुर्थे पादे चतुर्थमाह्निकम् । पादश्च समाप्तः । प्रथमोऽध्यायः समाप्तः ।
(221 समर्थपरिभाषासूत्रम् ।। 2।1।1। अ.1 सू.)