॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|109
SK 28
1|4|109
परः संनिकर्षः संहिता   🔊
SK 28
सूत्रच्छेद:
परः - प्रथमैकवचनम् , सन्निकर्षः - प्रथमैकवचनम् , संहिता - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
पर: सन्निकर्ष: संहिता
सूत्रार्थ:
वर्णानाम् आतिशयसान्निध्यम् संहितासंज्ञकं भवति ।
यत्र द्वयोः वर्णयोः उच्चारणम् विना-व्यवधानम् क्रियते तत्र तयोः वर्णयोः मध्ये संहिता अस्ति इत्युच्यते ।

संहिता केषुचन स्थलेषु नित्या अस्ति, केषुचन स्थलेषु विकल्पेन / विवक्षया आगच्छति । अस्मिन् विषये एका कारिका प्रसिद्धा अस्ति - संहितैकपदे नित्या, नित्या धातूपसर्गयोः । नित्या समासे, वाक्ये तु सा विवक्षाम् अपेक्षते ॥
इत्युक्ते -
1) एकस्मिन् पदे उपस्थितेषु वर्णेषु संहिता भवत्येव । यथा - "राम" इत्यत्र रेफ-आकारयोर्मध्ये, आकारमकारयोर्मध्ये, मकार-अकारयोर्मध्ये च मध्ये संहिता नित्या अस्ति, अतः एतेषां उच्चारणम् विना-व्यवधानम् करणीयम् ।
2) धातु-उपसर्गयोः मध्ये अपि संहिता नित्या अस्ति । यथा "आगच्छति" इत्यत्र आकार-गकारयोर्मध्ये विरामः न स्वीकरणीयः ।
3) समस्तपदे पूर्वपद-उत्तरपदयोः मध्ये संहिता नित्या अस्ति । यथा - "राजपुरुषः" इत्यत्र "राज" तथा "पुरुष" एतयोर्मध्ये विरामः न स्वीकरणीयः ।
4) वाक्ये भिन्नयोः शब्दयोः मध्ये तु संहिता वक्तुः इच्छानुसारम् भवितुं अर्हति । यथा - "फलम् पतति" इत्यत्र "फलम्" तथा "पतति" एतयोर्मध्ये संहिता स्वीकृत्य "फलम्" शब्दात् अनन्तरम् विरामं स्वीकृत्य "पतति" अस्य उच्चारणम् भवितुम् अर्हति, नो चेत् "फलंपतति" इति विरामं विना अपि उच्चारणं कर्तुं शक्यते ।

अष्टाध्याय्याम् संहितायाः विषये त्रयः अधिकाराः सन्ति -

1) संहितायाम् 6|1|72 - अस्य व्याप्तिः पारस्करप्रभृतीनि च संज्ञायाम् 6|1|157 इति यावत् वर्तते ।
2) संहितायाम् 6|3|114 - अस्य व्याप्तिः द्व्यचोऽतस्तिङः 6|3|135 इति यावत् अस्ति ।
3) तयोर्य्वावचि संहितायाम् 8|2|108 - अस्य व्याप्तिः सूत्रपाठस्य अन्तपर्यन्तम् अस्ति ।

एतेषु त्रिषु अधिकारेषु यत् किमपि उक्तम् अस्ति, तत् संहितायाम् सत्याम् एव भवति, नान्यथा ।
One-line meaning in English
Extreme closeness of letters is called संहिता.
काशिकावृत्तिः
परशब्दो ऽतिशये वर्तते। संनिकर्षः प्रत्यासत्तिः। परो यः सन्निकर्षः, वर्णानाम् अर्धमात्राकालव्यवधानं, स संहितासंज्ञो भवति। दध्यत्र। मध्वत्र। संहिताप्रदेशाः सिंहितायाम् 6|1|72 इत्येवम् आदयः।
`परशब्दोऽतिशये वत्र्तते` इति। यथा परं दुःखमिति। एतन परशब्दोल दिगादिष्वप्यर्थेषु वत्र्तते, तथापीहातिशये वत्र्तमानस्य तस्य ग्रहणमित दर्शयति। सन्निकर्षः = प्रत्यासत्तिः, संश्लेषश्च। तत्रेह प्रत्यासत्तिर्गृह्रत इति दर्शयन्नाह-- `सन्निकर्षः प्रत्यासत्तिः` इति। संश्लेषस्तु न गृह्रते, तस्य वर्णेष्वसम्भवात्। संश्लेषो ह्रेककालानां भवति, न च वर्णामामेककालतापत्तिः; क्रमेणोच्चारित्वादुच्चरितप्रध्वंसितत्वात्। संश्लेषो ह्रेककालानां भवति, न च वर्णानामेककालतापत्तिः; क्रमेणोच्चारित्वादुच्चरितप्रध्वंसतत्वात्। सत्यामपि चैककालतायां न सम्भवत्येव वर्णानां सश्लेषः। तथा हि-- संश्लेषः संयोगतो वा स्यात्, समवायतो वा; तत्र पूर्वको द्रव्यस्यैव स्यात्, न तु शब्दस्य-- निर्गुणा गुणा इति कृत्वा। इतरोऽपि नैव शब्दस्य सम्भवति, न हि वर्णो वर्णे समवैति; शब्दस्याकाशसमवायित्वात्। न च संयोगसमवाययोरतिशयः सम्भवति; सर्वत्रैकरुपकत्वात्। तथा च `परः` इति विशेषणं नोपपद्यते। प्रत्यासत्तिस्त्वपेक्षाकृतभेदात् प्रकर्षाप्रकर्षाभ्यां प्रयुज्यमानापरग्रहणेन विशिष्यत इति युक्तं तस्य विशेषणत्वम्। कः पुनरसौ परः सन्निकृष्टान् वर्णानुच्चारयति वक्तरि पूर्वस्य वर्णस्य ये निष्पादकास्ताल्वादयस्तेषां व्यापारोपरतौ वर्णान्तरस्य च ये निष्पादकास्ताल्वादयस्तेषां व्यापारोपदेशनमद्र्धमात्राकालमाहुः। स वर्णानां व्यवधानः = व्यवधायको यस्मिन् सोऽद्र्धमात्राकालव्यवधानः सन्निकर्षः। यदि वर्णानामद्र्धमात्राकालव्यवधानः सन्निकर्षः,कथं तर्हि दध्यत्रेत्यादौ वयवधायककालो नोपलक्ष्यते,वर्णाः संश्लिष्टा एवोपलभ्यन्ते? नैतत्; किमर्थं पुनरेतदारभ्यते, यावता परमेव सन्निकर्षं संहितेति वदन्त्याचार्याः, तथा हि संहितामधीष्वेत्युक्ते परं सन्निकर्षमेवाधीते शिष्यः? नैतदेवम्; पदस्य पदान्तरेण यदानन्तर्यं सा संहितेति लोकेऽभिधीयते। तथा च वक्तारो वदन्ति-- संहितामधीते न पदानि, पदान्यधीते न संहितामिति। तथा चैकपदे हि संहिताकार्यं न स्यात्, `इको यणचि` 6|1|74 इति-- कुमार्यौ, कुर्मार्य इति। सति ह्रस्मिन् वर्णानां सन्निकर्षविशेषस्यानेन संहितासंज्ञा विधीयत इत सर्वत्रैव भवति॥।
परशब्दोऽतिशये वर्तत इति। यथा परं सुखं परं दुःखमिति, दिगादिषु वर्तमानस्य ग्रहणं न भवति सन्निकर्षस्य दिग्देशकालायोगात्। अर्थान्तरापेक्षमन्यत्वम्, अव्यभिचारिसन्निकर्षः प्रत्यासतिरिति, न तु संश्लेषः, तस्य वर्णेष्वसंभवात्। स हि संयोगश्चेद् द्रव्यधर्मत्वान्न शब्दस्य गुणस्य संभवति। समवायश्चेन्न वर्णे वर्णः समवैति; शब्दस्याकाशसमवायित्वात्। येषां तु शब्दो द्रव्यं तेषां न क्वापि शब्दः समवैति। अतिशयोऽपि संयोगसमवाययोः कीद्दश इति न विद्मः। प्रत्यासतेस्त्वपेक्षाभेदात् सम्भवति प्रकर्षाप्रकर्षयोगः, तस्मात्प्रत्यासतिरेव सन्निकर्षः। ननु च क्रमेणोच्चार्यमाणेषु वर्णेषु पूर्वस्य वर्णस्य ये निष्पादकाः स्थानादयस्तेषां व्यापरोपरतौ वर्णान्तरस्य ये निष्पादकास्तेषां व्यापारारम्भः। तत्रावश्यंमध्ये कियत्यपि कालकला भवति, सूक्ष्मत्वातु नोपलभ्यते; पद्मपत्रशतव्यक्तिभेदवत्, तत्कथं परः सन्निकर्ष इत्यत्राह--अर्धमात्राकालव्यवधान इति। सत्यम्, एतावद्व्यवधानमवर्जनीयत्वात्सह्यते, अधिकेन तु कालेन व्यवधानं परग्रहणेन व्यावर्त्यत इत्यर्थः। यद्येवम्, द्रुतायामेव वृतौ स्यान्न मध्यमायां विलम्बितायां वा, न हि तथा तयोः सन्निकर्षो यथा द्रुतायां तुल्यः सन्निकर्षः। सर्वासु वृत्तिषु नैरन्तर्येणोच्चारणाद्यवर्णोपलम्भकभेदातु वृत्तिविशेषः। द्रुतायां स्वल्प उपलब्धिकालः, मध्यमायामधिकः, विलम्बितायामधिकतरः। द्विविधा हि ध्वनयः- प्राकृताः, वैकृताश्च। प्राकृता वर्णानामुत्पादकाः, वैकृते तु पुनः पुनरुपलम्भः, मध्यवर्ती तु कालः सर्वासु वृत्तिषु तावानेव। यद्वा--यस्यां वृतौ यावता कालेन व्यवायोऽवश्यम्भावी, ततोधिकेन व्यवायः परग्रहणेन व्यावर्त्यते। पदस्य पदान्तरेण यदानन्तर्थं तत्रैव लोके संहिताशब्दः प्रसिद्धः। तथा च--संहितामधीते न पदानि, ततश्च कुमार्यावित्यादौ पदावयवे संहिताकार्यं न स्यादितिसूत्रारम्भः॥
सिद्धान्तकौमुदी
वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात् ।
परः सन्निकर्षः संहिता - परः संनिकर्षः । परः=अतिशयितः ।दूरानात्मोत्तमाः पराः॑ इत्यमरः । सन्निकर्षः=सामीप्यम् । अर्धमात्राधिककालव्यवधानाऽभावः । अर्धमात्राकालव्यवधानस्याऽवर्जनीयत्वात् । तदेतदभिप्रेत्याह-अतिशयित इत्यादिना ।
परः सन्निकर्षः संहिता - लुक् स्त्रियाम् । विहितस्येति ।परिशेषितस्य वे॑ति बोध्यम् । एतच्चआङ्गिरसे॑इत्यनुवृत्त्या लभ्यते । यद्यपिवतण्डाल्लुक् स्त्रिया॑मित्येकसूत्रकरणेऽपिआङ्गिरसे॑इत्यनिवृत्त्या अनाङ्गिरसे यञणोर्लुगभावात् स्त्रियामिष्टं सिद्द्यति, तथापि पुंस्याङ्गिरसे यञणोरुभयोः प्राप्तिरनिष्टेति तद्वारणाय पृथक् सूत्रं कृतम् । ऋषित्वादिति । न चैवंऋष्यन्धके॑त्यणि सिद्धे शिवादिगणे वतण्डपाठो व्यर्थं इति शङ्क्यम् । गर्गादिपाठेन यञा बाधात्तन्निवृत्तये तत्पाठस्यावश्यरकत्वात । ष्यङ्नेति ।अणिञोरनार्षयो॑रिति सूत्रेणेति भावः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
परः संनिकर्षः संहिता परः संनिकर्षः संहिता चेदद्रुतायामसंहितम् ।। 1 ।। परः संनिकर्षः संहिता चेदद्रुतायां वृत्तौ संहितासंज्ञां न प्राप्नोति । द्रुतायामेव हि परः सन्निकर्षो वर्णानां, नाऽद्रुतायाम् । तुल्यः संन्निकर्षः ।। 2 ।। तुल्यः संन्निकर्षो वर्णानां द्रुतमध्यमविलम्बितासु वृत्तिषु ।। किंकृतस्तर्हि विशेषः ? वर्णकालभूयस्त्वं तु ।। 3 ।। वर्णानां तु कालभूयस्त्वम् । तद्यथा, ‐ हस्तिमशकयोस्तुल्यः सन्निकर्षः , प्राणिभूयस्त्वं तु ।। यद्येवम् ‐ द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं काल भेदात् ।। 4 ।। द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कर्तव्यम् । किं कारणम् ? कालभेदात् । ये द्रुतायां वृत्तौ वर्णास्त्रिभागाधिकास्ते मध्यमायाम्, ये मध्यमायां वृत्तौ वर्णास्त्रिभागाधिकास्ते विलम्बितायाम् । उक्तं वा ।। 5 ।। किमुक्तम् ? सिद्धं त्ववस्थिता वर्णा वक्तुश्चिराऽचिरवचनाद् वृत्तयो विशिष्यन्ते इति। । अथवा शब्दाऽविरामः संहितेत्येतल्लक्षणं करिष्यते । शब्दाऽविरामे प्रतिवर्णमवसानम् ।। 6 ।। शब्दाऽविरामे प्रतिवर्णमवसानसंज्ञा प्राप्नोति । किमिदं प्रतिवर्णमिति ? वर्णं वर्णं प्रति प्रतिवर्णम् । येनैव यत्नेनैको वर्ण उच्चार्यते विच्छिन्ने वर्ण उपसंहृत्य तमन्यमुपादाय द्वितीयः प्रयुज्यते तथा तृतीयस्तथा चतुर्थः ।। एवं तर्ह्यनवकाशा संहितासंज्ञाऽवसानसंज्ञां बाधिष्यते ।। अथवाऽवसानसंज्ञायां प्रकर्षगतिर्विज्ञास्यते ‐ साधीयो यो विराम इति । कश्च साधीयः ? यः शब्दार्थयोर्विरामः । अथवा ह्रादाऽविरामः संहितेत्येतल्लक्षणं करिष्यते । ह्रादाऽविरामे स्पर्शाघोषसंयोगेऽसन्निधानादसंहितम्।। ह्रादाऽविरामे स्पर्शानामघोषाणां (च) संयोगेऽसंनिधानात्संहितासंज्ञा न प्राप्नोति ‐ कुक्कुटः पिप्पकः पित्तमिति । किमुच्यते संयोग इति । अथ यत्रैकः पचतीति। एकः पूर्वपरयोर्ह्रादेन प्रच्छाद्यते । तद्यथा, ‐ द्वयो रक्तयोर्वस्त्रयोर्मध्ये शुक्लं वस्त्रं तद्गुणमुपलभ्यते । बदरपिटके रिक्तको लोहकंसस्तद्गुण उपलभ्यते । एकेन तुल्यः सन्निधिः यथैवैको वर्णो ह्रादेन प्रच्छाद्यते, एवमनेकोऽपि । अथवा पौर्वापर्यमकालव्यवेतं संहितेत्येतल्लक्षणं करिष्यते । पौर्वापर्यमकालव्यवेतं संहिता चेत्पूर्वाऽपराऽभावादसंहितम् एकवर्णवर्तित्वाद्वाचः, उच्चरितप्रध्वंसित्वाच्च वर्णानाम्।। 8 ।। पौर्वापर्यमकालव्यवेतं संहिता चेत्पूर्वाऽपराभावात्संहितासंज्ञा न प्राप्नोति । न हि वर्णानां पौर्वापर्यमस्ति । किं कारणम् ? एकवर्णवर्तित्वाद्वाचः उच्चरितप्रध्वंसित्वाच्च वर्णानाम्। एकैकवर्णवर्तिनी वाक्, न द्वौ युगपदुच्चारयति । गौरिति गकारे यावद्वाग्वर्तते, नौकारे, न विसर्जनीये । यावदौकारे, न गकारे, न विसर्जनीये । यावद्विसर्जनीये, न गकारे, नौकारे । उच्चरितप्रध्वंसित्वात् । उच्चरितप्रध्वंसिनः खल्वपि वर्णाः । उच्चरितः प्रध्वस्तः । अथाऽपरः प्रयुज्यते, न वर्णो वर्णस्य सहायः ।। एवं तर्हि ‐ बुद्धौ कृत्वा सर्वाश्चेष्टाः कर्ता धीरस्तत्वन्नीतिः । शब्देनाऽर्थान्वाच्यान्दृष्ट्वा बुद्धौ कुर्यात्पौर्वापर्यम् ।। बुद्धिविषयमेव शब्दानां पौर्वापर्यम् । इह य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यत्यस्मिन्नर्थेऽयं शब्दः प्रयोक्तव्यः, अस्मिंस्तावच्छब्देऽयं तावद्वर्णः ततोऽयं ततोऽयमिति ।। 108 ।।