॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|107
SK 2164
1|4|107
अस्मद्युत्तमः   🔊
SK 2164
सूत्रच्छेद:
अस्मदि - सप्तम्येकवचनम् , उत्तमः - प्रथमैकवचनम्
अनुवृत्ति:
उपपदे  [1|4|105] - सप्तम्येकवचनम् , समानाधिकरणे  [1|4|105] - सप्तम्येकवचनम् , स्थानिनि  [1|4|105] - सप्तम्येकवचनम् , अपि  [1|4|105] - अव्ययम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
अस्मदि उपपदे समानाधिकरणे स्थानिनि अपि उत्तम:
सूत्रार्थ:
यत्र अस्मद् शब्देन लकारेण च समानः पदार्थः विवक्ष्यते, तत्र उत्तमपुरुषस्य प्रत्ययाः भवन्ति ।
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः 1|4|101 अनेन सूत्रेण केषाञ्चन तिङ्-प्रत्ययानाम् "उत्तम"संज्ञा भवति । वर्तमानसूत्रेण एतेषाम् उत्तम-संज्ञकानाम् तिङ्-प्रत्ययानाम् प्रयोगः कुत्र भवति तस्मिन् विषये सिद्धान्तः प्रोक्तः अस्ति । अस्य सूत्रस्य पूर्णम् अर्थम् ज्ञातुम् आदौ अस्य सूत्रस्य द्वयोः अंशयोः अर्थं पश्यामः ।

1) "अस्मदि उपपदे समानाधिकरणे"
- इयम् सतिसप्तमी अस्ति । अतः "अस्मदि उपपदे समानाधिकरणे सति" इत्यर्थः ।
- समानाधिकरणम् इत्युक्ते समानकारकस्य निर्देशः । यथा - "उन्नतः रामः चलति" अस्मिन् वाक्ये सर्वे शब्दाः कर्तारं निदर्शयन्ति , अतः सर्वे शब्दाः समानाधिकरणे सन्ति इत्युच्यते ।
- कस्य समानाधिकरणम्? तिङ्-प्रत्ययस्य समानाधिकरणम् । कथं ज्ञायते? सूत्रे यः "उत्तमः" शब्दः प्रयुक्तः अस्ति, सः तिङ्-प्रत्यययानां विषये एव प्रयुज्यते ।
- उपपदम् इत्युक्ते समीपस्थम् पदम् ।
- अतः अस्य खण्डस्य अर्थः अयम् - अस्मद्-उपपदेन तिङ्-प्रत्ययस्य समानाधिकरणम् यदा उच्यते तदा.... ।

2) "अस्मदि उपपदे स्थानिनि अपि" -
- इयम् अपि सतिसप्तमी अस्ति । अतः "अस्मदि उपपदे स्थानिनि सत्यपि" इत्यर्थः
- "स्थानीनि अपि" इत्युक्ते स्थानी-सत्यपि, अस्थानी-सत्यपि । इत्युक्ते, प्रयुक्ते सति, अप्रयुक्ते वा सति ।
- अतः अस्य खण्डस्य अर्थः अयम् - अस्मद्-उपपदम् यत्र विवक्षितम् अस्ति तत्र प्रयुज्यमाने सति अप्रयुज्यमाने वा सति...।

इदानीम् सम्पूर्णस्य सूत्रस्य अर्थज्ञानम् भवितुं शक्यते -
अस्मद्-उपपदेन तिङ्-प्रत्ययस्य समानाधिकरणम् यदा उच्यते, तदा अस्मद्-उपपदम् प्रयुज्यमानम् अस्ति चेत् अपि / नास्ति चेत् अपि उत्तमपुरुषवाचिनः प्रत्ययाः प्रयुज्यन्ते ।

उदाहरणानि -
1. "अहं पठामि" अस्मिन् वाक्ये "अहम्" तथा "पठामि" उभयोः शब्दयोः कर्तुः निर्देशः क्रियते । अतः अत्र अस्मद्-उपपदस्य लकारस्य च सामानाधिकरण्यम् अस्ति । अतः अत्र उत्तमपुरुषस्य प्रत्ययस्य प्रयोगः क्रियते ।
2. "किमर्थं पठामि?" अस्मिन् वाक्ये "अहम्" अयं शब्दः विवक्षितः अस्ति, परन्तु प्रयुक्तः नास्ति । अत्रापि विवक्षितस्य अस्मद्-उपपदस्य लकारस्य च सामानाधिकरण्यम् अस्ति । अतः अत्र अपि उत्तमपुरुषस्य प्रत्ययस्य प्रयोगः क्रियते ।
3. "त्वं मां पश्यसि" अस्मिन् वाक्ये "माम्" इति अस्मद्-उपदपस्य लकारस्य च सामानाधिकरण्यम् नास्ति, यतः अत्र अस्मद्-उपपदेन कर्म निर्दिश्यते, लकारेण च कर्ता निर्दिश्यते । अतः अत्र तिङ्-प्रत्ययस्य उत्तमपुरुषवाची प्रत्ययः न भवति ।
4. "त्वया अहं दृश्ये" अस्मिन् वाक्ये "अहम्" इत्यनेन कर्मपदम् निर्दिश्यते, तथा "दृश्ये" इत्यनेन तिङन्तपदेन अपि कर्मपदम् निर्दिश्यते । इत्युक्ते, अत्र अस्मद्-उपपदस्य लकारस्य च सामानाधिकरण्यम् अस्ति । अतः अत्र उत्तमपुरुषसंज्ञकस्य तिङ्-प्रत्ययस्य प्रयोगः भवति ।

ज्ञातव्यम् - यत्र अस्मद्-तथा-युष्मद्- उभाभ्याम् शब्दाभ्याम् लकारस्य सामानाधिकरण्यम् निर्दिश्यते, तत्र एकसंज्ञाधिकारात् उत्तमसंज्ञावाचिनाम् तिङ्प्रत्ययानाम् एव प्रयोगः भवति । यथा - "अहं त्वम् सः च गच्छामः" । अस्मिन् वाक्ये यद्वपि अस्मद्/युष्मद्/तद् - सर्वेेषां शब्दानाम् लकारेण सामानाधिकरण्यम् अस्ति, तथापि अत्र उत्तमपुरुषस्यैव प्रत्ययः भवति ।
One-line meaning in English
Where a form of the word अस्मद् shows the same substance which is shown by the लकार, there the तिङन्तपद must be expressed using the उत्तमपुरुष प्रत्ययाs.
काशिकावृत्तिः
उत्तमपुरुषो नियम्यते। अस्मद्युपपदे समानाभिधेये प्रयुज्यमाने ऽप्यप्रयुज्यमाने ऽपि उत्तमपुरुषो भवति। अहम् पचामि। आवाम् पचावः। वयम् पचामः। अप्रयुज्यमाने ऽपि पचामि। पचावः। पचामः।
यदा युष्दस्मदी द्वे अप्येते उपपदे स्तः, तदा कथं भवितव्यम्? यदि कर्त्तृशक्ती आधारप्रतिनियते अपेक्ष्येते, तदाऽ‌ऽख्यातमपि पृथगेव प्रयुज्यते-- पचसि पचामि चेति। अथाविरोधाच्छक्तिद्वयेऽपि लकार उत्पद्यते, तदा विप्रतिषेधादुत्तम एव भवति-- त्वञ्चाहञ्च पचाव इति। यद्यपि `त्यदादीनां यद्यत्परं तच्छिष्यते` भवति। आवां पचाव इत्यत्र ह्रस्मच्छब्दस्य युष्मदर्थोऽपि वाच्यः, अन्यथा हि द्विवचनं न स्यात्। न ह्रस्मच्छब्दस्यैव द्वित्वमुपपद्यते॥
यत्र युष्मदस्मदी द्वे अप्युपपदे भवतस्तत्र यदि कर्तृशक्ती स्वाधारनियते विवक्ष्येते, तदा लकारोऽपि भेदेनोत्पद्यते--त्वं चाहं च पचसि, पचामि चेति। सहविवक्षायां तु द्वयोरपि शक्त्योरेको लकार उत्पद्यते। तत्र युष्मदि मध्यमः, अस्मद्यौतमो विप्रतिषेधेन--त्वं चाहं पचावः, अहं च त्वं च वृत्रहन् संयुज्यावःऽ इति। यदापि त्यदादीनां यद्यत्परमित्यस्मदः शेषस्तदापि स्यानिन्यपीति मध्यमप्राप्तौ परत्वादुतम एव भवति--आवां पचावः॥
सिद्धान्तकौमुदी
तथाभूतेऽस्मद्युत्तमः स्यात् ॥
अस्मद्युत्तमः - अस्मद्युत्तमः । तथाभूत इति । तिङ्वाच्यकारकवाचिनि अप्रयुज्यमाने प्रयुज्यमाने चेत्यर्थः ।
अस्मद्युत्तमः - तथाभूते इति । तिङ्वाच्यकारकवाचिनि प्रयुज्यमानेऽप्रयुज्यमाने चेत्यर्थः॥
लघुसिद्धान्तकौमुदी
तथाभूतेऽस्मद्युत्तमः॥
महाभाष्यम्
अस्मद्युत्तमः किमर्थमिदमुच्यते ? युष्मदस्मच्छेषवचनं नियमार्थम् ।। 1 ।। नियमार्थोऽयमारम्भः ।। अथैतस्मिन्नियमार्थे विज्ञायमाने किमयमुपपदनियमः-युष्मदि मध्यम एव, अस्मद्युत्तम एव । आहोस्वित्पुरुषनियमः ‐ युष्मद्येव मध्यमः, अस्मद्येवोत्तम इति ? किं चातः ? यदि पुरुषनियमः शेषग्रहणं कर्तव्यं शेषे प्रथमः इति । किं कारणम् ? मध्यमोत्तमौ नियतौ, युष्मदस्मदी अनियते, तत्र प्रथमोऽपि प्राप्नोति । तत्र शेषग्रहणं कर्तव्यं प्रथमनियमार्थम्-शेष एव प्रथमो भवति नान्यत्रेति । अथाप्युपपदनियमः, एवमपि शेषग्रहणं कर्तव्यं शेषे प्रथमः इति । युष्मदस्मदी नियते, मध्यमोत्तमावनियतौ, तौ शेषेऽपि प्राप्नुतः । तत्र शेषग्रहणं कर्तव्यं शेषनियमार्थं ‐ शेषे प्रथम एव भवति नान्य इति । उपपदनियमे शेषग्रहणं शक्यमकर्तुम् । कथम् ? युष्मदस्मदी नियते, मध्यमोत्तमावनियतौ, तौ शेषेऽपि प्राप्नुतः । ततो वक्ष्यामि प्रथमो भवतीति । तन्नियमार्थं भविष्यति ‐ यत्र प्रथमश्चाऽन्यश्च प्राप्नोति तत्र प्रथम एव भवतीति । तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधः शेषत्वात् ।। 2 ।। तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधो वक्तव्यः । त्वं च देवदत्तश्च पचथः । अहं च देवदत्तश्च पचावः किं कारणम् ? शेषत्वात् । शेषे प्रथमः इति प्रथमः प्राप्नोति । सिद्धं तु युष्मदस्मदोः प्रतिषेधात् ।। 3 ।। सिद्धमेतत् । कथम् ? युष्मदस्मदोः प्रतिषेधात् । शेषे प्रथमः युष्मदस्मदोर्नेति वक्तव्यम् । युष्मदि मध्यमादस्मद्युत्तमो विप्रतिषेधेन ।। 4 ।। युष्मदि मध्यमादस्मद्युत्तम इत्येतद्भवति विप्रतिषेधेन । युष्मदि मध्यम इत्यस्यावकाशः ‐ त्वं पचसि । अस्मद्युत्तम इत्यस्यावकाशः ‐ अहं पचामि । इहोभयं प्राप्नोति ‐ त्वं चाहं च पचावः । अस्मद्युत्तमः इत्येतद्भवति विप्रतिषेधेन । स तर्हि विप्रतिषेधो वक्तव्यः ? न वक्तव्यः । त्यदादीनां यद्यत्परं तत्तच्छिष्यते इत्येवमस्मदः शेषो भविष्यति । तत्राऽस्मद्युत्तमः इत्येव सिद्धम् । अनेकशेषभावार्थं तु ।। 5 ।। अनेकशेषभावार्थं तु स विप्रतिषेधो वक्तव्यः। यदा चैकशेषो न । कदा चैकशेषो न ? सहविवक्षायामेकशेषः, यदा न सहविवक्षा तदैकशेषो नास्ति । न वा युष्मदस्मदोरनेकशेषभावात्तदधिकरणानामप्यनेकशेषभावादविप्रतिषेधः ।। 6 ।। न वाऽर्थो विप्रतिषेधेन । किं कारणम् ? युष्मदस्मदोरनेकशेषभावात् तदधिकरणानामपि ‐ युष्मदस्मदधिकरणानामप्येकशेषेण न भवितव्यम् । त्वं चाहं च पचसि च पचामि चेति । क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनमनुमानमुत्तरत्राऽनेकशेषभावस्य ।। 7 ।। क्रियापृथक्त्वे च द्रव्यपृथक्त्वं दृश्यते । तद्यथा, ‐ पचसि पचामि च त्वं चाहं चेति । तदनुमानमुत्तरयोरपि क्रिययोरेकशेषो न भवतीति । एवं च कृत्वा सोऽप्यदोषो भवति यदुक्तं तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति । तत्रापि ह्येवं भवितव्यम् ‐ त्वं च देवदत्तश्च पचसि पचति च । अहं च देवदत्तश्च पचामि पचति चेति । यत्तावदुच्यते ‐ न वा युष्मदस्मदोरनेकशेषभावात्तदधिकरणानामप्यनेकशेषभावादविप्रतिषेध इति, दृश्यते हि युष्मदस्मदोश्चाऽनेकशेषस्तदधिकरणानां चैकशेषः । तद्यथा, ‐ त्वं चाहं च वृत्रहन्नुभौ संप्रयुज्यावहा इति । यदप्युच्यते ‐ क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनमनुमानमुत्तरत्राऽनेकशेषभावस्येति, क्रियापृथक्त्वे स्वल्वपि द्रव्यैकशेषो भवतीति दृश्यते । तद्यथा, ‐ अक्षाः भज्यन्तां दीव्यन्तामिति । एवं च कृत्वा सोऽपि दोषो भवति यदुक्तं ‐ तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति । नैष दोषः । परिहृतमेतत् सिद्धं तु युष्मदस्मदोः प्रतिषेधादिति । स तर्हि प्रतिषेधो वक्तव्यः ? न वक्तव्यः । शेषे प्रथमो विधीयते, न हि शेषश्चाऽन्यश्च शेषग्रहणेन गृह्यते । भवेत्, प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावुच्येते, न च युष्मदस्मदी अन्यश्च युष्मदस्मद्ग्रहणेन गृह्यते । यदत्र युष्मद्यच्चाऽस्मत्तदाश्रयौ मध्यमोत्तमौ भविष्यतः । यथैव तर्हि यदत्र युष्मद्यच्चाऽस्मत्तदाश्रयौ मध्यमोत्तमौ भवतः, एवं योऽत्र शेषस्तदाश्रयः प्रथमः प्राप्नोति । एवं तर्हि शेष उपपदे प्रथमो विधीयते । उपोच्चारि पदमुपपदम् । यच्चाऽत्रोपोच्चारि, न स शेषः, यश्च शेषः, न तदुपोच्चारि । भवेत् प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावुच्येते । उपोच्चारि पदमुपपदम्, यच्चाऽत्रोपोच्चारि, न ते युष्मदस्मदी, ये च युष्मदस्मदी, न तदुपोच्चारि । एवं तर्हि शेषेण सामानाधिकरण्ये प्रथमो विधीयते, न चाऽत्र शेषेणैव सामानाधिकरण्यम् । भवेत् प्रथमो न स्यात्, मध्यमोत्तमावपि न प्राप्नुतः । किं कारणम् ? युष्मदस्मद्भ्यां सामानाधिकरण्ये मध्यमोत्तमावुच्येते, न चाऽत्र युष्मदस्मद्भ्यामेव सामानाधिकरण्यम् । एवं तर्हि त्यदादीनि सर्वैनित्यम् 1|2|72 इत्येवमत्र युष्मदस्मदोः शेषो भविष्यति । तत्र युष्मदि मध्यमोऽस्मद्युत्तम इत्येव सिद्धम् । न सिध्यति । स्थानिन्यपीति प्रथमः प्राप्नोति ।। त्यदादीनां खल्वपि यद्यत्परं तत्तच्छिष्यते इति यदा भवतः शेषस्तदाश्रयः प्रथमः प्राप्नोति । युष्मदि मध्यमोऽस्मद्युत्तम इत्येवोच्यते । ताविह न प्राप्नुतः ‐ परमत्वं पचसि, परमाऽहं पचामीति । तदन्तविधिना। भविष्यति । इहापि तर्हि तदन्तविधिना प्राप्नुतः ‐ अतित्वं पचति, अत्यहं पचतीति । ये चाऽप्येते समानाधिकरणवृत्तयस्तद्धित्तास्तत्र च मध्यमोत्तमौ न प्राप्नुतः ‐ त्वत्तरः पचसि, मत्तरः पचामीति । त्वद्रूपः पचसि, मद्रूपः पचामीति । त्वत्कल्पः पचसि, मत्कल्पः पचामीति ।। एवं तर्हि युष्मदस्मद्वतीत्येवं भविष्यति । इहापि तर्हि प्राप्नुतः-अतित्वं पचति, अत्यहं पचतीति । एवं तर्हि युष्मदि साधने अस्मदि साधने इत्येवं भविष्यति । एवं च कृत्वा सोऽप्यदोषो भवति, यदुक्तं ‐ -तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति ।। अथवा प्रथमः उत्सर्गः करिष्यते।तस्य युष्मदस्मदोरुपपदयोर्मध्यमोत्तमावपवादौ भविष्यतः । तत्र युष्मद्गन्धश्चाऽस्माद्गन्धश्चास्तीति कृत्वा मध्यमोत्तमौ भविष्यतः । अथेह कथं भवितव्यम् ‐ अत्वं त्वं संपद्यते इति त्वद्भवति मद्भवतीति। आहोस्वित्त्वद्भवसि मद्भवामीति ? त्वद्भवति मद्भवतीत्येवं भवितव्यम् । मध्यमोत्तमौ कस्मान्न भवतः ? गौणमुख्ययोर्मुख्ये संप्रत्ययो भवति । तद्यथा, ‐ गौरनुबन्ध्योऽजोऽग्नीषोमीयः इति न वाहीकोऽनुबध्यते । कथं तर्हि वाहीके वृद्ध्यात्वे भवतः ‐ गौर्वाहीकस्तष्ठति गामानयेति ? अर्थाश्रय एतदेवं भवति । यद्धि शब्दाश्रयं शब्दमात्रे तद्भवति । शब्दाश्रये च वृद्ध्यात्वे ।। 104-106-107 ।।