॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|104
SK 184
1|4|104
विभक्तिश्च   🔊
SK 184
सूत्रच्छेद:
विभक्तिः - प्रथमैकवचनम् , च - अव्ययम्
अनुवृत्ति:
सुपः  [1|4|103] - षष्ठ्येकवचनम् , तिङ:  [1|4|101] - षष्ठ्येकवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
सुप: तिङ: विभक्ति: च
सूत्रार्थ:
सुप्-प्रत्ययाः तिङ्-प्रत्ययाः विभक्तिसंज्ञकाः भवन्ति ।
तिप्तस्झि.. 3|4|78 अनेन सूत्रेण अष्टादश तिङ-प्रत्ययाः पाठ्यन्ते । स्वौजस्... 4|1|2 अनेन सूत्रेण एकविंशतिः सुप्-प्रत्ययाः पाठ्यन्ते । एतेषां सर्वेषां अनेन सूत्रेण विभक्तिसंज्ञा भवति ।

विभक्तिसंज्ञायाः प्रयोगः न विभक्तौ तुस्माः 1|3|4, अष्टन आ विभक्तौ 7|2|84 एतादृशेषु सूत्रेषु कृतः अस्ति ।

ज्ञातव्यम् -
1. इदानींतन काले सामान्यभाषायाम् "विभक्ति" शब्दस्य प्रयोगः केवलं सुप्-प्रत्ययानाम् कृते भवति । तिङ्-प्रत्ययानाम् विषये अस्य शब्दस्य प्रयोगः न भवति । परन्तु व्याकरणशास्त्रे तिङ्-प्रत्ययानाम् अपि विभक्तिसंज्ञा भवति इति ज्ञातव्यम् ।
2. अष्टाध्याय्याम् तद्धितप्रत्ययेषु प्राग्दिशो विभक्तिः 5|3|1 अस्मिन् अधिकारे पाठिताः सर्वे प्रत्ययाः अपि विभक्तिसंज्ञकाः भवन्ति । यथा - तसिल्, त्रल्, ह आदयः । एते प्रत्ययाः तिङ्-प्रत्ययाः अपि न सन्ति, सुप्-प्रत्ययाः अपि न सन्ति, अतः एतेषां विभक्तिसंज्ञा वर्तमानसूत्रेण न भवति ।
One-line meaning in English
The सुप्-प्रत्यया: and the तिङ्-प्रत्यया: are called विभक्ति.
काशिकावृत्तिः
विभक्तिश्च .त्रीणि त्रीणि इत्यनुवर्तते. त्रीणि त्रीणि विभक्तिसंज्ञाश्च भवन्ति सुपस्तिङश्च. विभक्तिप्रदेशाः अष्टन आ विभक्तौ 7|2|84 इत्येवम् आदयः.
चकारः पुरुषादिसंज्ञासमावेशार्थः। विना तेनैकसंज्ञाधिकारे वचनप्रामाण्यात् पर्यायः स्यात्। तिङो विभक्तत्वे प्रयोजनम् `न विभक्तौ तुस्माः` (र1.3.4) इतीत्संज्ञाप्रतिषेधः। सुपस्त्वेच्च, अन्यच्च त्यदाद्यत्वादि॥
चकारः पुरुषवचनसंज्ञाभ्यां समावेशार्थः। तिङं व्यवहितानामपि स्वरितत्वादनुवृत्तिः। तिङं विभक्तित्वे प्रयोजनम्--आतामादौ ठ्न विभक्तौ तुस्माःऽ इति निषेधः, सुपां तु त्यदाद्यत्वादिकमपि॥
सिद्धान्तकौमुदी
सुप्तिङौ विभक्तिसंज्ञौ स्तः । तत्र सु औ जस् इत्यादीनां सप्तानां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचां संज्ञास्ताभिरिहापि व्यवहारः ।
विभक्तिश्च - अथ "न विभक्तो तुस्माः" इत्याद्युपयोगिनी विभक्तिसंज्ञामाह — विभक्तिश्च । "सुप" इति पूर्वसूत्रात्सुब्ग्रहणम्,तिङस्त्रीणी॑त्यतस्तिङ्ग्रहणं चानुवर्तते, एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तदाह — सुप्तिङाविति । चकारः पुरुषवचनसंज्ञाभिः समावेशार्थः । तेन एकसंज्ञाधिकारस्थत्वेऽपि न पर्यायत्वम् । अन्यथा "रामेभ्यः" "भवाम" इत्यादौ विभक्तिसंज्ञाविरहेणन विभक्ता॑विति निषेधो न स्यात् । ननु प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा, कर्मणि द्वितीया, कर्तृकरणयोस्तृतीया, चतुर्थी सम्प्रदाने, अपादाने पञ्चमी, षष्ठी शेषे, सम्पतम्यधिकरणे चेत्यादौ कथं प्रथमादिव्यवहारः , सूत्रकृता पाणिनिना प्रथमादिसंज्ञानामनुक्तत्वादित्यत आह — तत्रेति । तेषु स्वादिप्रत्ययेषु मध्य इत्यर्थः । इत्यादीनामिति । आदिना — अम् — औट् — शस् — इत्यादीनां ग्रहणम् । प्राचामिति । पाणिनेः पूर्वेषां स्फोटायनाद्याचार्याणां शास्त्रे प्रथमाद्याः सप्तम्यन्ताः संज्ञाः स्थिता इत्यन्वयः । किं तत् इत्यत आह — ताभिरिति । ताभिः=प्रथमादिसंज्ञाभिरिहापि=पाणिनीयशास्त्रेऽपि व्यवहारः — सम्भवतीत्यर्थः ।
विभक्तिश्च - विभक्तिश्च ।तिङ्स्त्रीणि त्रीणि — ॑ इत्यतस्तिङ्ग्रहणं व्यवहितमपि स्वरितत्वबलादनुवर्तते ।सुपः॑ इति च संनिहितमित्यभिप्रेत्याहु — सुप्तिङाविति । तिङां विभक्तिसंज्ञायाः प्रयोजनंन विभक्तौ तुस्माः॑ इति । सुपां तु त्यदाद्यत्वादिकमपि । चकारः पुरुषवचनसंज्ञाभ्यां संमावेशार्थः । अन्यथा एकसंज्ञाधिकारादेकवचनादिसंज्ञाभिः सह वचनद्वयप्रामाण्यात्पर्यायः स्यात् । ततश्चरामेभ्यो॑नमाम॑ इत्यादौ बहुवचनसंज्ञापक्षे विभक्तित्वाऽभावात्सस्येत्संज्ञा स्यात् । इहापीति । अस्मिन्नपि तन्त्रेप्रातिपदिकार्थलिङ्गपरिमाणे॑त्यादावित्यर्थः ।
लघुसिद्धान्तकौमुदी
सुप्तिङौ विभक्तिसंज्ञौ स्तः॥
महाभाष्यम्
विभक्तिश्च त्रीणि त्रीणीत्यनुवर्तते।, उताहो न ? किं चातः ? यद्यनुवर्त्तते, ‐ - अष्टन आ विभक्तौ 7|2|84 इत्यात्वं न प्राप्नोति । अथ निवृत्तं, प्रथमयोः पूर्वसवर्णः 6|1|102 इत्यत्र प्रत्यययोरेव ग्रहणं प्राप्नोति । यथेच्छसि तथास्तु ।। अस्तु तावदनुवर्तत इति । ननु चोक्तम् अष्टन आ विभक्तावित्यात्वं न प्राप्नोतीति । वचनाद्भविष्यति । अथवा पुनरस्तु ‐ निवृत्तम् । ननु चोक्तं प्रथमयोः पूर्वसवर्णः इत्यत्र प्रत्ययोरेव ग्रहणं प्राप्नोतीति । नैष दोषः । अचीत्यनुवर्तते न चाऽजादी प्रथमौ प्रत्ययौ स्तः । ननु चैवं विज्ञायते ‐ अजादी यौ प्रथमौ, अजादीनां वा यौ प्रथमाविति । यत्तर्हि तस्माच्छसो नः पुंसि 6|1|103 इत्यनुक्रान्तं पूर्वसवर्णं प्रतिनिर्दिशति तज्ज्ञापयत्याचार्यः विभक्त्योर्ग्रहणमिति । अथवा वचनग्रहणमेव कुर्याद् ‐ औजसोः पूर्वसवर्णः इति ।। 104 ।।