॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|4|102
SK 2161
1|4|102
तान्येकवचनद्विवचनबहुवचनान्येकशः  
SK 2161
सूत्रच्छेद:
तानि - प्रथमाबहुवचनम् , एकवचनद्विवचनबहुवचनान्येकशः - प्रथमाबहुवचनम्
अनुवृत्ति:
तिङः  [1|4|101] - षष्ठ्येकवचनम् , त्रीणि  [1|4|101] - प्रथमाबहुवचनम् , त्रीणि  [1|4|101] - प्रथमाबहुवचनम्
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
तानि त्रीणि त्रीणि तिङ: एकवचन-द्विवचन-बहुवचनानि एकश:
सूत्रार्थ:
पूर्वसूत्रेण त्रयाणां-समूहरूपेण प्रोक्ताः तिङ्-प्रत्ययाः क्रमेण एकवचन-द्विवचन-बहुवचन-संज्ञकाः भवन्ति ।
तिप्तस्झि.. 3|4|78 अनेन सूत्रेण अष्टादश तिङ-प्रत्ययाः पाठ्यन्ते । लः परस्मैपदम् 1|4|99 तथा तङानावात्मनेपदम् 1|4|100 इत्येतयोः सूत्रयोः एतेभ्यः प्रथमानाम् नवानाम् प्रत्ययानाम् परस्मैपदसंज्ञा तथा अन्तिमानाम् नवानाम् प्रत्ययानाम् आत्मनेपदसंज्ञा भवति । अग्रे तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः 1|4|101 इत्यनेन तेषाम् त्रयाणाम् त्रयाणाम् क्रमेण प्रथम-मध्यम-उत्तम-प्रथम-मध्यम-उत्तम-संज्ञा विधीयते । प्रत्येकस्य त्रिकुटस्य वर्तमानसूत्रेण अग्रे "एकवचनम् / द्विवचनम् / बहुवचनम्" एतादृशाः संज्ञाः क्रमेण उच्यन्ते । ताः एतादृश्यः -

तिप् = परस्मैपदम् + प्रथमपुरुषः + एकवचनम्
तस् = परस्मैपदम् + प्रथमपुरुषः + द्विवचनम्
झि = परस्मैपदम् + प्रथमपुरुषः + बहुवचनम्

सिप् = परस्मैपदम् + मध्यमपुरुषः + एकवचनम्
थस् = परस्मैपदम् + मध्यमपुरुषः + द्विवचनम्
थ = परस्मैपदम् + मध्यमपुरुषः + बहुवचनम्

मिप् = परस्मैपदम् + उत्तमपुरुषः + एकवचनम्
वस् = परस्मैपदम् + उत्तमपुरुषः + द्विवचनम्
मस् = परस्मैपदम् + उत्तमपुरुषः + बहुवचनम्

त = आत्मनेपदम् + प्रथमपुरुषः + एकवचनम्
आताम् = आत्मनेपदम् + प्रथमपुरुषः + द्विवचनम्
झ = आत्मनेपदम् + प्रथमपुरुषः + बहुवचनम्

थास् =आत्मनेपदम् + मध्यमपुरुषः + एकवचनम्
आथाम् = आत्मनेपदम् + मध्यमपुरुषः + द्विवचनम्
ध्वम् = आत्मनेपदम् + मध्यमपुरुषः + बहुवचनम्

इड् = आत्मनेपदम् + उत्तमपुरुषः + एकवचनम्
वहि = आत्मनेपदम् + उत्तमपुरुषः + द्विवचनम्
महिङ् = आत्मनेपदम् + उत्तमपुरुषः + बहुवचनम्

अनेन विभाजनेन प्रत्येकस्य तिङ्-प्रत्ययस्य विशिष्टः उल्लेखः भवितुम् अर्हति ।

एकवचनम्, द्विवचनम्, बहुवचनम् - एतेषां संज्ञानाम् प्रयोगः एतेषु सूत्रेषु भवति - द्वेकयोर्द्विवचनैकवचने 1|4|22, बहुषु बहुवचनम् [1।4।21],द्विवचनविभज्योपपदे तरबीयसुनौ 5|3|57 आदयः ।
One-line meaning in English
The तिङ्-प्रत्यया: are sequentially referred as एकवचन, द्विवचन and बहुवचन.
काशिकावृत्तिः
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
एकश इति। ठ्संख्यैकवचनाच्च वीप्सायाम्ऽ इति प्रथमान्ताच्छस्। प्रकृतत्वादेव त्रीणीत्यस्य सम्बन्धे सिद्धे तानिवचनं पुरुषवचनसंज्ञयोः समावेशार्थम्, अन्यथा ह्यएकसंज्ञाधिकारे वचनप्रामाण्यात्पर्यायः स्यात्, ततश्च ठाडुतमस्य पिच्चऽ ठ्नित्यं ङ्तिःऽ इति कार्यं वचनसंज्ञापक्षे उतमसंज्ञाया अभावान्न स्यात्। तानीत्यस्मिस्तु सति तान्येतानि प्रथमादिसंज्ञाविशिष्टानि त्रीणित्रीणीत्येवं परामर्शाल्लब्धप्रथमादिसंज्ञाविधानाद् भवति समावेशः। ननु त्रिकाणां पुरुषसंज्ञा एकैकस्य वचनसंज्ञेति विषयभेदान्नायमेकसंज्ञाधिकारविषयः, तन्न; यथा वृद्धिसंज्ञा प्रत्येकमादैचां भवति, तथा पुरुषसंज्ञापि त्रीपित्रीणीति वचनात् त्रिषु प्रवर्तमानापि तिबादिषु प्रत्येकमेव प्रवर्तते, न समुदाये; तस्य प्रयोगेऽभावात्, प्रत्येकमेव तेषां धातोरुत्पतेः। त्रिग्रहणं तु मर्यादार्थमादित आरभ्य त्रयाणां प्रथमसंज्ञा भवतीति, न पुनः समुदाये संज्ञाप्रवृतर्थं तानि तिङ्स्त्रीणित्रीणि पदानि भूत्वेति। तिबादिसूत्रे समाहारद्वन्द्वेऽष्टादशावयवपदानि तिङ्शब्दस्य त्रीणित्रीणीति समानाधिकरणस्यापि पुंल्लिङ्गतापि सूत्रवद्भवति॥
सिद्धान्तकौमुदी
लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः ॥
अथ प्रथमादिपुरुषेषु एकैकस्मिन्पुरुषे प्रत्ययत्रिकात्मके युगपत्पर्यायेण वा एकैकप्रत्यये प्राप्ते `द्व्येकयोर्दविवचनैकवचने` `बहुषु बहुवचन`मिति व्यवस्तार्थमेकवचनादिसंज्ञामाह--तान्येक। तच्छब्देन पूर्वसूत्रोपात्तानि प्रथममध्यमोत्तमाख्यानि तिङस्त्रीणि त्रीणि परामृश्यन्ते। तदाह-- लब्धप्रथमादिसंज्ञानीति। `एकश`इत्यस्य विवरणं--प्रत्येकमिति। `सङ्ख्यैकवचनाच्च वीप्साया`मिति शसिति भावः।
`तानी`त्यस्य व्याख्यानं-- लब्धेत्यादि। अन्यथैकसंज्ञाधिकारात्प्रथमादिसंज्ञानामेकवचनादिसंज्ञानां च पर्यायः स्यात्। इष्टापत्तौ तु अत्तेर्लोटो `मेर्नि` रिति कृते एकत्वविवक्षायामुत्तमसंज्ञाऽभावात् `आडुत्तमस्ये`त्यस्याऽप्रवृत्त्या अन्नीत्यादिप्रयोगोऽपि साधुः स्यादिति भावः। प्रत्येकमिति। यत्तु प्राचा ` एकैकश` इत्युक्तं,तदयुक्तम्। शसैव वीप्साया उक्तत्वेन द्विर्वचनाऽयोगात्, `येन नाप्राप्तिन्यायेन द्विर्वचनापवादः श` सिति सिद्धान्तात्। तथा `सुपःर` इति सूत्रेऽप्येककैकश इति प्राचोक्तमयुक्तमेव। एतच्च मनोरमाग्रन्थानुरोधेनोक्तम्॥ अन्ये तु एकैकमेवैकैकशः, स्वार्थे शस्, न त्वत्र वीप्सायाम्। न च स्वार्थे यः शस् स आकरग्रन्थान्नावगम्यत इति वाच्यम्, `एकां कपिलामेकैकशः सहरुआकृत्वो दत्त्वे`ति भाष्यात्, शसन्तस्य प्रत्येकमित्यर्थकत्वेन कैयटेन व्याख्यानाच्च स्वार्थिकस्यापि शसोऽवगम्यमानत्वात्। ततश्चैकैकश इति प्राचोक्तमयुक्तमिति यदुक्तं तदेवाऽयुक्तमित्याहुः।
लघुसिद्धान्तकौमुदी
लब्ध प्रथमादि संज्ञानि तिङस्त्रीणि त्रीणि प्रत्येकमेकवचनादि संज्ञानि स्युः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!