Page loading... Please wait.
1|4|101 - तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः
॥ तस्मै पाणिनये नम: ॥
1|4|101
SK 2160
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः  
सूत्रच्छेद:
तिङः - षष्ठ्येकवचनम् , त्रीणि - प्रथमाबहुवचनम् , त्रीणि - प्रथमाबहुवचनम् , प्रथम-मध्यम-उत्तमा: - प्रथमाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
आकडारात् एका संज्ञा  [1|4|1]
सम्पूर्णसूत्रम्
तिङ: त्रीणि त्रीणि प्रथम-मध्यम-उत्तमा:
सूत्रार्थ:
तिङ्-प्रत्ययाः त्रीणि त्रीणि क्रमेण प्रथम-मध्यम-उत्तम-संज्ञकाः भवन्ति ।
तिप्तस्झि.. 3|4|78 अनेन सूत्रेण अष्टादश तिङ-प्रत्ययाः पाठ्यन्ते । वर्तमानसूत्रेण तेषां त्रयाणाम्-समुहेन क्रमेण प्रथम-मध्यम-उत्तम-एतादृशम् विभाजनम् भवति । तद् इत्थम् -

तिप् , तस्, झि = प्रथमः
सिप् , थस् , थ = मध्यमः
मिप् , वस्, मस् = उत्तमः
[पुनः अग्रे - ]
त आताम् झ = प्रथमः
थास् आथाम् ध्वम् = मध्यमः
इट् वहि महिङ् = उत्तमः

अनेनप्रकारेण परस्मैपदसंज्ञकप्रत्ययानाम् त्रयः विभागाः तथा आत्मनेपदसंज्ञकप्रत्ययानाम् अपि त्रयः विभागाः जायन्ते । एते एव "पुरुषाः" ।

एतेषां प्रयोगः भिन्नेषु सूत्रेषु कॄतः दृश्यते । यथा - आडुत्तमस्य पिच्च 3|4|92, युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः 1|4|105, शेषे प्रथमः 1|4|108 - आदयः ।
One-line meaning in English
The तिङ्-प्रत्यया:, when grouped into groups of three, are sequentially known as प्रथम, मध्यम and उत्तम.
काशिकावृत्तिः
तिङो ऽष्टादश प्रत्ययाः। नव परस्मैपदसंज्ञकाः, नवाऽत्मनेपदसंज्ञकाः। तत्र परस्मैप्रदेषु त्रयस्त्रिकाः यथाक्रमं प्रथममध्यमौत्तमसंज्ञा भवन्ति। तिप्, तस्, झि इति प्रथमः। सिप्, थस्, थ इति मद्यमः। मिप्, वस्, मसिति उत्तमः। आत्मनेपदेषु त, आताम्, झ इति प्रथमः। थास्, आथाम्, ध्वम् इति मध्यामः। इट्, वहि, महिङिति उत्तमः। प्रथममध्यमौत्तमप्रदेशाः शेषे प्रथमः 1|4|108 इत्येवम् आदयः।
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
त्रीणि त्रीणीति वीप्सायां द्विर्वचनम्। तत्र च समुदायस्यावयवस्च पृथक्पदत्वमिष्यते, आ पचसि पचसि देवदतेत्येकान्तता यथा स्यात्, कुण्डं कुण्डं वाग् अपचन्नपचन्नित्यादौ पूर्वपदेऽप्यनुस्वारादि पदकार्यं यथा स्यादिति; तेन पदच्छेदकाले त्रीणित्रीणीत्येकं पदम्, द्वे वा। इह तिङं त्रिकाः संज्ञास्तु तिस्त्र इति वैषम्यात् संख्यातानुदेशो न प्राप्नोति। अत्र यद्यप्येकैकस्य त्रिकस्यानेकसंज्ञाविधाने प्रयोजनं नास्ति, नैतावता यथाभिमतविषयलाभः, तत्राह--तिङेऽष्टादश प्रत्यया इति। एवं मन्यते--संज्ञा अपि षडेव, कथमेकशेषनिर्देशोऽयम्? तत्र यदि प्रथमश्च प्रथमश्च प्रथमौ, मध्यमश्च मध्यमश्च मध्यमौ, उतमश्च उतमश्चोतमौ; प्रथममध्यमोतमा इति कृतैकशेषाणां द्वन्द्वः क्रियेत, ततो नाभिमतसंख्यातानुदेशः स्यात्। तस्मात्कृतद्वन्द्वानामेकशेषः-प्रथममध्यमोतमाश्च प्रथममध्यमोतमाश्च प्रथममध्योतमा इति। न चैवमपि विज्ञायते, किमादित आरभ्य त्रीणि वचनानि गृह्यन्ते? आहोस्विदिच्छतस्त्रिकपरिग्रहेऽपि यथासंख्यशास्त्रं क्रमते, किं तर्हि? विहितेषु संज्ञानां क्रमेण सम्बन्धं विधते। एवं तर्हि लोकत एतत्सिद्धम्, तद्यथा--विहव्यस्य द्वाभ्यामग्निरुपस्थेय इति, न चोच्यते आनुपूर्व्यणेति, अथ च विहव्याख्यस्य सूत्रस्यादित आरभ्य आनुपूर्व्येण द्वाभ्यां द्वाभ्यामृग्भ्यामग्निरुपस्थीयते, न याभ्यां काभ्याञ्चित्; तत्र तिङेऽष्टादश प्रत्यया इत्यनेनादित आरभ्य त्रिकाणामानुपूर्व्येण ग्रहणं नेच्छात इति दर्शयितुं तिङ्ग्रहणेन संनिवेशोऽस्तीति दर्शितम्। न च ठ्परस्मैपदसंज्ञकःऽ इत्यादिना तु कृतद्वन्द्वानामेकशेषो न कृतैकशेषाणां द्वन्द्व इति दर्शितम्। यदि वा परस्मैपदग्रहणमात्मनेपदग्रहणं चानुवर्तते, तिङ्ग्रहणं तु सतृक्वसोर्निवृत्यर्थम्। तदनुवृतौ च द्वौ राशी भवतः, तयोश्च व्यापारभेदेन सूत्रमेतत्प्रवर्तते। तत्र चैकैकं त्रयस्त्रिका इति। यथासंख्यसिद्धिः। तत्र न चेत्यादिना राशिद्वयं द्वर्शितम्। तत्रेत्यादिना तु व्यापारभेदः। अत्रापि महासंज्ञाकरणं पूर्ववत्॥
सिद्धान्तकौमुदी
तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ॥
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः - तिङः षट् त्रिकाः,संज्ञास्तु तिरुआ इति यथासङ्ख्याऽसम्भवादेकैकस्य त्रिकस्य तिसृषु संज्ञासु प्राप्तास्वाह — तिङ उभयोः पदयोरिति ।लः परस्मैपद॑मित्यतः परस्मैपदमिति,तङानावात्मनेपद॑मित्यत आत्मनेपदमिति चानुवृत्तं षष्ठन्ततया विपरिणम्यते । ततश्च परस्मैपदात्मनेपदयोरुभयोरपि प्रत्येकं त्रयस्त्रिकाः सन्तीति यथासङ्ख्यं प्रथमादिसंज्ञाः प्रवर्तन्त इति भावः । प्रथमादिषु पुरुषसंज्ञा तु प्राचीनाचार्यशास्त्रसिद्धेति बोध्यम् ।
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः - तिङ षट् त्रिकाः, संज्ञास्तु तिरुआ इति यथासङ्ख्याऽसम्भवादेकैकस्य त्रिकस्य तिसृषु संज्ञासु उभयोरिति । परस्मैपदमात्मनेपदमिति चानुवर्तते । तेन पदद्वये प्रत्येकं त्रयस्त्रिका इतियथासंङ्ख्यं संज्ञाः प्रवर्तन्त इति भावः । ननु प्रथमश्च् प्रथमश्च प्रथमौ, मध्यमश्च मध्यमश्च मध्यमावित्येवं कृतैकशेषाणां प्रथमादीनां, प्रथमौ च मध्यमौ च उत्तमौ च प्रथममध्यमोत्तमा इति द्वन्द्वेऽभ्युपगते त्रिकद्वयस्य त्रकद्वयस्य यथासङ्ख्यं प्रथममद्यमोत्तमसंज्ञाः स्युर्न त्वेकैकस्येतिणलुत्तमो वे॑ति सूत्रं विरध्येत, णल उत्तमसंज्ञकत्वाऽलाभात्, ततश्चप्रथममद्यमोत्तमा॑ इत्यत्र कृतद्वन्द्वानां प्रथममध्योमोत्तमाश्च प्रथममद्यमोत्तमाश्चेत्येकशेष आश्रीयताम्, तथाहि सति सञ्ज्ञा अपि षडिति परस्मैपदात्मनेपदग्रहणानुवृत्तिक्लेशं विनैवेष्टसिद्धिरिति चेत् । मैवम् । एकदेशाश्रयणे गौरवाद्वैयथ्र्याच्च त्वयापि परस्मैपदात्मनेपदग्रहणमनुवर्त्त्यमेव । अन्यथा शतृक्वस्वोः सावकाशा परस्मैपदसंज्ञा प्रथमादिसंज्ञया बाध्येत । ततश्च क्राम्यति पदानामिति विहितस्य णलोणलुत्तमो वे॑ति णित्त्वविकल्पविधानाज्ज्ञापकात्परस्मैपदसंज्ञा प्रथमादिसंज्ञया न बाध्यत इति ब्रूषे, तर्हि सुतरां प्रतिपत्तिगौरवम्॥
लघुसिद्धान्तकौमुदी
तिङ उभयोः पदयोस्त्रिकाः क्रमादेतत्संज्ञाः स्युः॥
महाभाष्यम्
तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमाः प्रथममध्यमोत्तमसंज्ञायामात्मनेपदग्रहणं समसंख्यार्थम् ।। 1 ।। प्रथममध्यमोत्तमसंज्ञायामात्मनेपदग्रहणं कर्तव्यम् । आत्मनेपदानां च प्रथममध्यमोत्तमसंज्ञा भवन्तीति वक्तव्यम् । किं प्रयोजनम् ? समसंख्यार्थम् । संख्यातानुदेशो यथा स्यात् । अक्रियमाणे ह्यात्मनेपदग्रहणे तिस्रः संज्ञाः, षट् संज्ञिनः, वैषम्यात्संख्यातानुदेशो न स्यात्।। क्रियमाणेऽपि चात्मनेपदग्रहणे ‐ आनुपूर्व्यवचनं च ।। 2 ।। आनुपूर्व्यवचनं च कर्तव्यम् । अक्रियमाणे हि कस्यचिदेव त्रिकस्य-प्रथमसंज्ञा स्यात्, कस्यचिदेव मध्यमसंज्ञा, कस्यचिदेवोत्तमसंज्ञा । न वैकशेषर्निर्देशात् ।। 3 ।। यत्तावदुच्यते-आत्मनेपदग्रहणं कर्तव्यं समसंख्यार्थमिति, तन्न कर्तव्यम् । संज्ञा अपि षडेव निर्दिश्यन्ते । कथम् ? एकशेषनिर्देशात् । एकशेषनिर्देशोऽयम् ।। अथैतस्मिन्नेकशेषनिर्देशे सति किमयं कृतैकशेषाणां द्वन्द्वः-प्रथमश्च प्रथमश्च प्रथमौ। मध्यमश्च मध्यमश्च मध्यमौ, उत्तमश्चोत्तमश्चोत्तमौ । प्रथमौ च मध्यमौ चोत्तमौ च प्रथममध्यमोत्तमा इति । आहोस्वित्कृतद्वन्द्वानामेकशेषः प्रथमश्च मध्यमश्चोत्तमश्च प्रथममध्यमोत्तमाः, प्रथममध्यमोत्तमाश्च प्रथममध्यमोत्तमाश्च ‐ प्रथममध्यमोत्तमा इति। किं चातः ? यदि कृतैकशेषाणां द्वन्द्वः, प्रथममध्यमयोः प्रथमसंज्ञा प्राप्नोति। उत्तमप्रथमयोर्मध्यमसंज्ञा प्राप्नोति। मध्यमोत्तमयोरुत्तमसंज्ञा प्राप्नोति । अथ कृतद्वन्द्वानामेकशेषः न दोषो भवति । यथा न दोषस्तथास्तु । किं पुनरत्र न्याय्यम् ? उभयमित्याह । उभयं हि दृश्यते । तद्यथा, ‐ बहु शक्तिकिटकम्, बहूनि शक्तिकिटकानि । बहुस्थालीपिठरम्, बहूनि स्थालीपिठराणि । यदुप्युच्यते ‐ क्रियमाणेऽप्यात्मनेपदग्रहणे आनुपूर्व्यवचनं कर्तव्यमिति । न कर्तव्यम् । लोकत एतत्सिद्धम् । तद्यथा, ‐ लोके विहव्यस्य द्वाभ्यां द्वाभ्यामग्निरुपस्थेय इति। न चोच्यते-आनुपूर्व्येणेति, आनुपूर्व्येण चोपस्थीयत इति ।। 101 ।।