॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|93
SK 2351
1|3|93
लुटि च कॢपः  
SK 2351
सूत्रच्छेद:
लुटि - सप्तम्येकवचनम् , च - अव्ययम् , कॢपः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
वृतादित्वादेव स्यसनोर्विकल्पः सिद्धो लुटि विधीयते। चकारस्तर्हि स्यसनोरनुकर्षणार्थो न वक्तव्यः, एवं तर्हि इयं प्राप्तिः पूर्वां प्राप्तिं बाधेत, तस्मात् चकारः स्यसनोरनुकर्षणार्थः क्रियते। लुटि च स्यसनोश्च क्ऌपेः परस्मैपदं वा भवति। कल्प्ता, कल्प्तारौ, कल्प्तारः। कल्प्स्यति। अकल्प्स्यत्। चिक्ऌप्सति। कल्पिता। कल्पिष्यते । अकल्पिष्यत। चिकल्पिषते।

॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य तृतीयः पादः ॥
`चकारस्तर्हि` इत्यादि। स्यसनोर्वृतादित्वादेव सिद्धे विकल्प इत्यभिप्रायः। `एवं तर्हि`इत्यादिना विशेषविधानं सामान्यविधानस्य बाधकं भवतीति विज्ञायते। ननु चयदीयं प्राप्तिः कृपेः प्राप्त बाधते, द्युतादिषु पाठस्य तस्यानर्थक्यं प्रसज्येत? नैतदस्ति; अङर्थत्वात्। ननु च स्यसनोरिति स्वरितत्वमिष्यते, तेन तस्य बाधा न भविष्यतीति, सत्यमेतत्; सूत्रकारस्तु चकारं वैचित्र्यार्थं चकार, न स्वरितत्वार्थम्। `कल्प्ता` इति। पूर्ववदधिकारद्वयानुवृत्तौ सत्यां `तासि च क्लृपः` 7|2|60 इतीट्प्रतिषेधः। `लुटः प्रथमस्य डारौरसः` 2|4|85 इति डादेशः। `कृपो रो लः` 8|2|18 इति लत्वम् `चिक्लृप्सति` इति। पूर्ववत् कित्वाद्गुणाभावः॥इति श्रोबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायांप्रथमाध्यायस्यतृतीयः पादः
एवं तर्हीति। सामान्यस्य विशेषो वाधक इति भावः। कल्प्तेत्यादौ ठ्तासि च क्लृपःऽ इतीट्प्रतिषेधः॥ इति हरदतविरचितायां पदमञ्जर्यां प्रथमाध्यायस्य तृतीयः पादः॥
सिद्धान्तकौमुदी
लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात् ॥
लुटि च क्लृपः। चकारात् `वृद्भ्यः सस्यनो`रित्यतः स्यसनोरित्यनुकृष्यते, `शेषात्कर्तरी`त्यतः परस्मैपदमिति, `वा क्यषः` इत्यतो वेति च। तदाह-- लुटि स्यसनोरित्यादिना।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
लुटि च क्लृपः किमर्थश्चकारः ?। स्यसनोरित्येतदनुकृष्यते । यदि तर्हि नान्तरेण चकारमनुवृत्तिर्भवति, द्युद्भ्यो लुङि 1|3|91 इत्यत्रापि चकारः कर्तव्यः विभाषेत्यनुकर्षणार्थः। अथेदानीमन्तरेणापि चकारनुवृत्तिर्भवति, इहापि नार्थश्चकारेण ।। एवं सर्वे चकाराः प्रत्याख्यायन्ते ।। 93 ।। इति श्रीभगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमाध्यायस्य तृतीये पादे द्वितीयमाह्निकम् । पादश्च तृतीयः समाप्तः ।