Page loading... Please wait.
1|3|92 - वृद्भ्यः स्यसनोः
॥ तस्मै पाणिनये नम: ॥
1|3|92
SK 2347
वृद्भ्यः स्यसनोः  
सूत्रच्छेद:
वृद्‍भ्यः - पञ्चमीबहुवचनम् , स्यसनोः - सप्तमीद्विवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
द्युतादिष्वेव वृतादयः पठ्यन्ते। वृतु वर्तते, वृधु वृद्धौ शृधु शब्दकुत्सायाम्, स्यन्दू प्रस्रवणे, कृपू सामर्थ्ये, एतेभ्यो धतुभ्यः स्ये सनि च परतो वा परस्मैपदं भवति। वृत् वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। वर्तिष्यते। अवर्तिष्यत। विवर्तिषते। वृद्ः वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। वर्धिष्यते। अवर्धिष्यत। विवर्धिषते। स्यसमोः इति किम्? वर्तते।
`स्यसनोः` इति। सती सप्तमीयम्। वत्स्र्यतीत्यादौ `सेऽसिचि` 7|2|57 इत्यादेः सूत्रादसिचि स इत्यनुवत्र्तमाने `गमेरिट् परस्मैपदेषु` 7|2|58 इत्यतः परस्मैपदे च `न वृद्भ्यश्चतुभ्र्यः` 7|2|59 इतीट्प्रतिषेधः। आत्मनेपदं त्विड्भवत्येव। `विवृत्सति` इति। `हलन्ताच्च` 1|2|10 इति कित्वाद्गुणाभावः॥
ठ्स्यसनोःऽ इति सत्सप्तमी। द्यौ तादिष्वेव वृतादयः पठ।ल्न्त इति। यद्येवमियं प्राप्तिर्वृद्भ्यः पूर्वां प्राप्तिं बाधेत, ततश्च अवृतत्, अवर्तिष्टेति लुङ् इविकल्पो न स्यात् तथा चोतरत्र चकारः क्रियते-इमां प्राप्तिं पक्षे इतराप्राप्तिर्न बाधेतेति, द्यौतादिपाठसार्थ्यात्सोऽपि भविष्यति। यद्वा-लुङीत्यत्र स्वरयिष्यते, वर्त्यतीत्यादौ ठ्न वृद्भ्यश्चतुर्भ्यःऽ इति इट्प्रतिषेधः॥
सिद्धान्तकौमुदी
वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च ॥
वृद्भ्यः स्यसनोः - वृद्भ्यः । बहुवचनाद्वृतादिभ्य इति गम्यते ।शेषात्कर्तरी॑त्यतः परस्मैपदमित्यनुवर्तते, "वा क्यषः" इत्यतो वेति च । तदाह — वृतादिभ्य इति ।
वृद्भ्यः स्यसनोः - वृतादयः पञ्च ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!