Page loading... Please wait.
1|3|91 - द्युद्भ्यो लुङि
॥ तस्मै पाणिनये नम: ॥
1|3|91
SK 2345
द्युद्भ्यो लुङि  
सूत्रच्छेद:
द्‍युद्भ्यः - पञ्चमीबहुवचनम् , लुङि - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
वा इत्येव। द्युत दीप्तौ। तत्साहचर्याद् लुठादयो ऽपि कृपू पर्यन्तास् तथा एव व्यपदिश्यन्ते। बहुवचननिर्देशादाद्यर्थो भवति। अनुदात्तेत्त्वान् नित्यम् एव आत्मनेपदे प्राप्ते द्युतादिभ्यो लुङि वा परस्मैपदं भवति। व्यद्युतत्, व्यद्योतिष्ट। अलुठत्, अलोठिष्ट। लुङि इति किम्? द्योतते।
ननु च द्युतेरेकत्वाद्बहुवचननिर्देशो नोपपद्यत इत्याह-- `तत्साहचर्यात्` इत्यादि। यथैकेन छत्त्रिणा साहचर्यादन्येऽपि तत्सहचारिणश्छत्रिण इत्युच्यन्ते-- छत्रिणो गच्छन्तीति, तथेहापि द्युतिना साहचर्यात् इआतादयोऽपि `द्युत` इति व्यपदिश्यन्ते। कथं पुनरेकस्य व्यपदेशे सत्ययमभिप्रेतोऽर्थः सम्पद्यत इत्याह-- `बहुवचननिर्देशात्` इत्यादि। एं हि विनाऽप्यादिशब्देन तदर्थो लभ्यत इत्येषोऽर्थः सम्पद्यत इति दर्शयति। `कृपूपर्यन्ताः`इति। अनेन कृपेः परे ये पठन्ते ते द्युतादयो न भवन्तीत्याचष्टे। एतच्च तदनन्तरं वृत्करणाद्गणपरिसमाप्तेर्लिङ्गाद्विज्ञायते। `व्यद्युतत्` इति। पुषादित्वादङ। यद्येवम्, तत एवाङविधानात् परस्मैपदं तेभ्यो भविष्यति, किमनेन योगेन? नैतदस्ति; ज्ञापकाद्धि नित्यं लुङि परस्मैपदं विज्ञायते। किञ्च लुङोऽन्यत्रात्मनेपदं न भवतीति सम्भाव्येत। ननु चानुदात्तेत्करणसामथ्र्यादन्यत्र न भविष्यति, नैतत्; अनुदात्तेत्करणम् `अनुदात्तेतश्च हलादेः` 3|2|149 इति युजर्थं स्यात्। तस्मात् कत्र्तव्योऽयं योगः। अलुठत्। `रुठ लुठ प्रतीघाते` (धातुपाठः-747, 749)॥
द्यौतेरेकत्वाद्वहुवचनमनुपपन्नमित्याशङ्क्याह-तत्साहचर्यादिति। च्छत्रिन्यायेनेति भावः। लुठादयोऽपीति। प्रत्यासन्नानामेव साहचर्यात् प्रतीतिः स्यादित्याशङ्कामपनेतुं दूरवर्तिनामुपादानम्। क्वचित् श्वित्यादय इत्यनन्तराणामेव पाठःष कृपूपर्यन्ता इति। तदनन्तरं वृत्करणाद एतदुक्तं भवतीत्याह-बहुवचननिर्देशादिति। व्यद्यौतदिति। ठ्पुषादिऽ इति सूत्रेणाङ्। न च तत एवाङ्विधानात् परस्मैपदं शक्यं विज्ञातुम; नित्यत्वप्रसङ्गात्, लुङेऽन्यत्रापि प्रसङ्गच्च। अनुदातेत्वं तु युजर्थं स्यात्॥
सिद्धान्तकौमुदी
द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदेऽङ् । अद्युतत् । अद्योतिष्ट । 742 श्विता वर्णे । श्वेतते । शिश्विते । अश्वितत् । अश्वेतिष्ट । 743 ञिमिदा स्नेहने । मेदते ॥
द्युद्भ्यो लुङि - द्युद्भ्यो लुङि । बहुवचनात् द्युतादिभ्य इति गम्यते । दिग्योगे पञ्चमी ।तस्मादित्त्युत्तरस्ये॑ति परिभाषया परस्येति लभ्यते ।शेषात्कर्तरी॑त्यतः परस्मैपदमित्यनुवर्तते । तदाह — द्युतादिभ्य इति । परस्मैपदे अङिति । आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह — द्युतादिभ्य इति । परस्मैपदे अङिति । आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह — अद्योतिष्टेति । इआता वर्णे इति । आत्मनेपदपक्षे रूपम् । एवमग्रेऽपि द्युतादौ लुङि रूपभेदो ज्ञेयः । ञि मिदा स्नेहने इति । ञिरित् "ञीतः क्तः" इत्येतदर्थः ।
द्युद्भ्यो लुङि - द्युद्भ्यो लुङि । बहुवचननिर्देशाच्छौण्डैरित्यत्रेव तदादिग्रहणम् । तदाह — द्युतादिभ्य इति । द्युतादयोघट चेष्टाया॑मित्यवधिकाः ।डः सी॑त्यत्रेव लुङीति सप्तम्याः षष्ठर्थतेत्यभिप्रेत्याह — - लुङः परस्मपैदमिति । ञिमिदा ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!