॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|87
SK 2753
1|3|87
निगरणचलनार्थेभ्यः
SK 2753
सूत्रच्छेद:
निगरणचलनार्थेभ्यः - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
णेः इति वर्तते। कर्त्रभिप्रायक्रियाफलविवक्शायाम् आत्मनेपदापवाद्ः परस्मैपदं विधियते। निगरणम् अभ्यवहारः। चलनं कम्पनम्। निगरणार्थेभ्यश्चलनार्थेभ्यश्च धातुभ्यो ण्यन्तेभ्यः परस्मैपदं भवति। निगारयति। आशयति। भोजयति। चलनार्थेभ्यः चलयति। चोपयति। कम्पयति। अयम् अपि योगः सकर्मकार्थः, अचित्तवत्कर्तृकार्थश्च। अदेः प्रतिषेधो वक्तव्यः। अत्ति देवदत्तः, आदयते देवदत्तेन।
`निगारयति` इति। `गृ निगरणे` (धातुपाठः-1410)। `आशयति` इति। `अश भोजने` (धातुपाठः-1523)। `भोजयति` इति। `भुज पालनाभ्यवहारयोः` (धातुपाठः-1046), `चलति` इति। `चल कम्पने` (धातुपाठः-832)। घटादित्वान्मित्त्वम्; पूववद्ध्रस्वः। `चोपयति` इति। `चुप मन्दायां गतौ` (धातुपाठः-403)। `कम्पयति` इति। `कपि चलने` (धातुपाठः-375)। अयमपि योगः सकर्मकार्थः, अचितत्वत्कर्त्तृकार्थश्चेति। तद्विपरीतेभ्यः `अणावकर्मकाच्चितवत्कर्त्तृकात्` 1|3|88 इत्यनेनैव सिद्धत्वात्। तत्र येषामुदाहरणान्युपन्यस्तानि, तेषु चलिकम्पी अकर्मकौ द्वौ; तयोरचितवत्कर्त्तृकार्थोऽयं योगः। शेषाणान्तु सकर्मकार्थः।`वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्-- `विभाषाऽकर्मकात्` 1|3|85 इत्यतो विभाषाग्रहणं मण्डूकप्लुत्याऽनुवत्र्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेनादेरन्येभ्यो नित्यं परस्मैपदम्, अदेस्तु न भवत्येव। `आदयते देवदत्तेन` इति। अत्र `गतिबुद्धि` 1|4|52 इत्यादिना कर्मसंज्ञा न भवति; `आदिखादिनीवहीनां प्रतिषेधः` (वा।64) इति वचनात्॥
चलयतीति। ठ्चल कम्पनेऽ घटादिः। आदयते देवदतेनेति। ठ्गतिबुद्धिऽ इत्यादिनाऽणौ कर्तुः कर्मसंज्ञा प्राप्ता, ठतिखाद्योः प्रतिषेधःऽ इति वचनान्न भवति॥
सिद्धान्तकौमुदी
निगारयति । आशयति । भोजयति । चलयति । कम्पयति ॥ ।अदेः प्रतिषेधः (वार्तिकम्) ॥ आदयते देवदत्तेन । गतिबुद्धि (कौमुदी-540) इति कर्मत्वम् ॥आदिखाद्योर्नेति प्रतिषिद्धम् (वार्तिकम्) ॥ निगरणचलन (कौमुदी-2753) इति सूत्रेण प्राप्तस्यैवायं निषेधः । शेषात् (कौमुदी-2159) इत्यकर्त्रभिप्राये परस्मैपदं स्यादेव । आदयत्यन्नं बटुना ॥
निगरण। निगरणं भक्षणम्। चलनं-- कम्पनम्। एतदर्थकेभ्यो ण्यन्तेभ्यः परस्मैपदमित्यर्थः। पूर्वसूत्रे प्रुद्रुरुआऊणां ग्रहणं तु अचलनार्थानामेव। अत एव मूले प्रापयतीत्यादि व्याख्यातम्। पानमपि चकोरजिह्वया कथं चिदेतन्मुखचन्द्रचन्द्रिका। इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुखस्पृशी`। इति श्रीहर्षश्लोके आचामयेति पृथक्पदम्। अः विष्णुः, तस्य स्त्री ई = लक्ष्मीः। तया सहिता से इत्येकारान्तस्य सेशब्दस्य संबोधनम्। `एङ्?ह्रस्वात्` इति सम्बुद्धिलोप इति व्याख्येयमिति प्रौढमनोरमायां स्थितम्। वस्तुतस्तु चक्षुषोर्मुखचन्द्रिकाकर्मकपानात्मकाचमनाऽसंभवादाचामिरादरे लाक्षमिकःअतो निगरणार्थकत्वाऽभावान्न परस्मैपदम्। नचैवं सति प्रत्यवसानार्थकत्वाऽभावाच्चक्,#उषोः `गतिबुद्धी`ति कर्मत्वं न स्यादिति शङ्क्यम्, न ह्याचामिरत्र केवले आदरे वर्तते, किंतु दर्शनपूर्वकादरे वर्तते। सादरज्ञाने लाक्षणिक इति यावत्। ततश्च बुद्ध्यर्थकत्वादाचामेश्चक्षुषोः कर्मत्वं निर्बाधमित्यादि शब्देन्धुशेखरे प्रपञ्चितम्। अदेः प्रतिषेध इति। अदेर्ण्यन्तान्निगरणार्थकतया प्राप्तस्य परस्मैपदस्य प्रतिषेधो वक्तव्य इत्यर्थः। `आदयते देवदत्तेने`त्यत्र अदेः प्रत्यवसानार्थकतया प्राप्तस्य परस्मैपदस्य अदेः प्रतिषेधादित्यत आह-- निगरणचलनेति सूत्रेण प्राप्तस्यैवायं निषेध इति। नतु शेषात्कर्तरीति प्राप्तस्येत्येवकारार्थः, `अनन्तरस्य` इति न्यायादिति भावः।
निगरणचलनार्थेभ्यश्च। निगरणं-- भक्षणम्। प्रुद्रुरुआऊणां चलनार्थानामेनात्मनेपदे सिद्धेऽप्यचलनार्थानां तत्सिद्धये पूर्वसूत्रे ग्रहणम्। अतएव तत्र विवृतं `प्रापयतीत्यर्थ` इत्यादिना। कतं तर्हि `इमां किमाचामयसे न चक्षुषी` इति श्रीहर्षः। आङ्पूर्वाच्चमेरनेन परस्मैपदौचित्यादिति चेत्। अत्राहुः-- आचामयेति पथृक्पदम्। #ई लक्ष्मीस्तया सहिता सेस्तस्याः संबोधने `हे से` इति। केचित्तु सा त्वम् इमे चक्षुषो इनचक्षुषी = श्रेष्ठचक्षुषी आचामय किमिति व्याचक्षते।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!