॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|84
SK 2750
1|3|84
उपाच्च
SK 2750
सूत्रच्छेद:
उपात् - पञ्चम्येकवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
रमः इत्येव। उपपुर्वात् रमतेः प्रस्मैपदं भवति। देवदत्तम् उपरमति। जज्ञदत्तम् उपरमति। उपरमयति इति यावत्। अन्तर्भावितन्यर्थो ऽत्र रमिः। पृथग् योगकरणम् उत्तरार्थम्। अकर्मकाद् विभाषां वक्ष्यति, सा उपपूर्वादेव यथा स्यात्।
`उपाच्च` इति। चकारः पूर्वापेक्षया समुच्चयार्थः। `उपरमति देवदत्तम्` इति। ननु चोपपूर्वो रमिरकर्मक एव भवति। तथा ह्रुपपूर्वस्यास्य विनाशोऽर्थो भवति; यथा-- उपरतानि, नष्टानीति गम्यते। निवृत्तिर्वा भवति, स्वाध्यायादुपरमते, निवर्तत इति गम्यते। न चास्मिन्नार्थे वर्तमानस्य सकर्मकत्वमुपपद्यते। तत्कतं सकर्मकस्योदाहरणं युज्यत इत्याह-- `उपरमयतीति यावत्` इति। एतेन ण्यर्थवृत्तितामुपरमतेर्दर्शयन् सकर्मकतामुपपादयतीति। अकर्मको हि धातुण्र्यर्थे वर्तमानः सकर्मको भवति। अथ पुनरण्यन्तस्य ण्यर्थवृत्तितोपपद्यते कथम्? स तथोक्तः। एवंविधस्य तस्य प्रयोज्येन सकर्मत्वमुपपद्यत एव।अथ किमर्थं पृथग्योगः क्रियते? `न व्याङपर्युपेभ्यो रमः` इत्येक एव योगः क्रियतामित्याह-- `पृथग्योगकरणम्` इत्यादि। गतार्थम्॥
उपपूर्वो रमिर्निवृत्तिविनाशयोर्वर्तते, उपरतोऽध्ययनाद्, उपरतोनिधनादिदि। न चानयोरुभयोरप्यर्थयोः सकर्मकत्वमुपपद्यते, तत्कथं सकर्मकस्योदाहरणम्? अत आह-उपरमयति यावदिति। कथं पुनरण्यन्तो ण्यर्थे वर्तते? अत आह-अन्तर्भावितण्यर्थ इति॥
सिद्धान्तकौमुदी
यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ॥
उपाच्च। उपपूर्वादपि रमेः परस्मैपदमित्यर्थः। उत्तरसूत्रे उपादित्यस्यैवाऽनुवृत्तये `व्याङ्पर्युपेभ्यो रमे`रिति नोक्तम्। अत्र विरमतीत्यर्थे उपरमतीति नोदाहरणम्, तस्य अकर्मकतया उत्तरसूत्रेण परस्मैपदविकल्पविधानात्। अतः सकर्मकमुदाहरति-- यज्ञदत्तमुपरमतीति। ननु विरामार्थकत्वात्कथं सकर्मकतेत्यत आह-- उपरमयतीत्यर्थ इति। ननु णिजभावात्कथमयमर्थो लभ्यते इत्यत आह-- अन्तर्भावितण्यर्थोऽयमिति। धातूनामनेकार्थत्वादिति भावः।
उपाच्च। `व्याङपर्युपेभ्यः` इति नोक्तम्, उत्तरसूत्रे उपेत्यस्यैवानुवृत्तिर्यथा स्यादिति।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!