Page loading... Please wait.
1|3|82 - परेर्मृषः
॥ तस्मै पाणिनये नमः ॥
1|3|82
SK 2748
परेर्मृषः   🔊
सूत्रच्छेदः
परेः (पञ्चम्येकवचनम्) , मृषः (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
मृष तितिक्षायाम् स्वरितेत्। ततः तथा एव आत्मनेपदे प्राप्ते परस्मैपदं विधीयते। परिपूर्वाद् मृष्यतेः परस्मैपदं भवति। परिमृष्यति, परिमृष्यतः, परिमृष्यन्ति। परेः इति किम्? आमृष्यते। वहतिम् अपि केचिदत्र अनुवर्तयन्ति परिवहति।
`परिमृष्यति` इति। दिवादित्वाच्छ्यन्॥
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
परिमृष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योगं विभज्य वहेरपीति केचित् ॥
परेर्मृषः - परेर्मृषः ।परस्मैपद॑मिति शेषः ।मृष तितक्षाया॑मिति दैवादिकस्य स्वरितेत्त्वात्पदद्वये प्राप्तेऽयं विदिः । तदाह — परिमृष्यतीति । चौरादिकस्याऽपिआधृषाद्वे॑ति णिजभावे स्वरितेत्त्वेऽपि परस्मैपदमेव- परिमर्षतीति । भौवादिकस्य त्विति ।मृषु सहने सेचने चे॑ति भौवादिकस्यतु परस्मैपदित्वात्परिमर्षतीत्येव रूपं सिद्धम् । अतोऽमिन् सूत्रे तस्य न ग्रहणमिति भावः । इहेति । "परे" रिति योगो विभज्यते । "वह" इत्यनुवर्तते । परेर्वहः परस्मैपदमित्यर्थः । परिवहति । "मृष" इति योगान्तरम् । तत्र परेरित्यनुवर्तते, परेर्मृषः पर्समैपदमित्युक्तोऽर्थ इति केचिदाहुरित्यर्थः । भाष्ये त्वयं योगविभागो न दृश्यते । व्याङ्परिभ्यो रमः ।१.३.८३ ।व्याङ्परिभ्यो रमः ।परस्मैपद॑मिति शेषः । रमेरनुदात्तेत्त्वाद्विधिरयम् । विरमतीति । आरमति, परिरमतीत्यप्युदाहार्यम् ।
परेर्मृषः - स्वरित्वात्पदद्वये प्राप्तेऽयमारम्भः । परिमर्षतीति ।आ धृषाद्वे॑ति ति वैकल्पिकत्वाण्णिजभावः ।
लघुसिद्धान्तकौमुदी
परिमृष्यति॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.