॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|8
SK 195
1|3|8
लशक्वतद्धिते
SK 195
सूत्रच्छेद:
ल-श-कु - प्रथमैकवचनम् , अतद्धिते - सप्तम्येकवचनम्
अनुवृत्ति:
प्रत्ययस्य  [1|3|6] - षष्ठ्येकवचनम् , उपदेशे  [1|3|2] - सप्तम्येकवचनम् , इत्  [1|3|2] - प्रथमैकवचनम् , आदि  [1|3|5] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
अतद्धिते उपदेशे प्रत्ययस्य आदि ल-श-कु इत्
सूत्रार्थ:
यः प्रत्ययः तद्धितप्रत्ययः नास्ति, तस्य औपदेशिक-अवस्थायाम् आदिस्थ-लकार-शकार-कवर्गीवर्णस्य इत्-संज्ञा भवति ।
उपदेशः नाम किम्? "उपदेशः आद्योच्चारणम्" । इत्युक्ते, आदिऋषिभिः (पाणिनि-कात्यायन-पतञ्जलिभिः) यस्य उच्चारणं कृतम् सः उपदेशः । आदिऋषिभिः कस्य कस्य उच्चारणं कृतम्? प्रत्याहाराणाम्, प्रत्ययानाम्, आदेशानाम्, आगमानाम्, धातूनाम् । अतः एते सर्वे, यथा ऋषिभिः मूलरूपेण उच्चारिताः, तस्याम् स्थितौ उपदेशसंज्ञकाः भवन्ति । (अस्मिन् विषये विस्तारेण उपदेशेऽजनुनासिक इत् 1|3|2 अस्य सूत्रस्य विवरणे उक्तम् अस्ति ।)

यदि कश्चन प्रत्ययः तद्धितः नास्ति, यदि च तस्य औपदेशिकस्थितौ प्रथमः वर्णः ल् / श् / कवर्गीयः अस्ति, तर्हि तस्य अनेन सूत्रेण इत्संज्ञा भवति । यथा -
उदाहरणानि -
1) "ल्युट्" अयं कृत्-प्रत्ययः । अतः अस्य आदिवर्णः ल् इत्संज्ञकः भवति ।
2) "शप्" अयं विकरणप्रत्ययः । अतः अस्य आदिवर्णः श् इत्संज्ञकः भवति ।
3) "क्त्वा" अयं कृत्-प्रत्ययः । अतः अस्य आदिवर्णः क् इत्संज्ञकः भवति ।
4) "ङीष्" अयं स्त्रीप्रत्ययः । अतः अस्य आदिवर्णः ङ् इत्संज्ञकः भवति ।
5) "लच्छ्" अयं तु तद्धितप्रत्ययः । अतः अस्य आदिवर्णः ल् इत्संज्ञकः न भवति ।
6) "कन्" अयमपि तद्धितप्रत्ययः । अतः अस्य आदिवर्णः क् इत्संज्ञकः न भवति ।
One-line meaning in English
The letters च्, छ्, ज्, झ्, ञ्, ट्, ठ्, ड्, ढ्, ण् occurring at the beginning of a non-तद्धित प्रत्यय in its औपदेशिक form get the term इत् ।
काशिकावृत्तिः
तद्धितवर्जितस्य प्रत्ययस्यादितो वर्तमाना लकारशकारकवर्गा इत्संज्ञा भवन्ति। लकरः, ल्युट् च 3|3|115 चयनम्, जयनम्। शकारः, कर्तरि शप् 3|1|68 भवति, पचति। कवर्गः, क्तक्तवतू निष्ठा 1|1|26 भुक्तः, भुक्तवत्। प्रियवशो वदः खच् 3|2|38 प्रियंवदः, वशंवदः। ग्लाजिस्थश्च ग्स्नुः 3|2|139 ग्लास्नुः, जिष्णुः, भूष्णुः। भञ्जभासमिदो घुरच् 3|2|161 भुअङ्गुरम्। टाङसिङसाम् इनाऽत्स्याः 7|1|12 वृक्षात्, वृक्शस्य। अतद्धिते इति किम्? चूढालः। लोमशः। कर्णिका।
`प्रियंवदः` इति। `प्रियवशे वदः खच्` 3|2|38 , `अरुर्द्विषदजन्तस्य` 6|3|66 इति मुम्। `जिष्णुः`- इति। `ग्लाजिस्थश्च क्स्नुः` 3|2|139 इति। ये तु क्स्नुप्रत्ययं गितमिच्छन्ति तन्मतेनेदं गकारस्योदाहरणम्। ये तु कितमिच्छन्ति तन्मतेनेमपि ककारस्योदाहरणं भवति।`चूडाल#ः` इति। मत्वर्थे `प्राणिस्थादातो लजन्यतरस्याम्` 5|2|95 इति लच् प्रत्ययः। ननु च प्रयोजनाभावादत्रेत्संज्ञा न भविष्यति; लित्प्रत्ययात् पूर्वस्योदात्तत्वं प्रयोजनमिति चेत्, न; चित्स्वरस्य हि सर्वस्य रस्यापवादत्वात् प्रत्ययस्वरेणह्रन्तोदात्तत्वे सिद्धे चित्करणस्यैतत् प्रयोजनम्-- चित्स्वर एव यथा स्यात्, योऽन्यः स्वरः प्राप्नोति स मा भूदिति। इदं तु प्रत्युदाहरणम्-- लोमान्यस्य सन्तीति `लोमादिपामादि` 5|2|99 इत्यादिना शः, लोमशः? एतदपि नास्ति, अत्रापि प्रोयजनाभावादेवेत्संज्ञा न भविष्यति। इदं तर्हि प्रत्युदाहरम्-- `कर्णललाटात् कनलङ्कारे` 4|3|65 इति भावार्थे कन्; कर्णिका, यद्यत्रेत्संज्ञा स्यात् `किति च` 7|2|118 इत्यादिवृद्धिः स्तात्, ततश्च रूपमेव न सिद्ध्येत? यद्येवम् इवमेवोपन्यसनीयम्, नेतरे? एवं मन्यते-- एतदर्थम् `अतद्धिते`इति क्रियमाणमिहापि मन्दधियां प्रतिपत्तिगौरवं परिहर्तु चूडालः, लोमश इत्येवमर्थमपि भवितुमर्हतीति॥
प्रियंवद इति। ठरुर्द्विषदजन्तस्य मुम्ऽ । जिष्णुरिति। स्नुप्रत्ययस्य गित्वपक्षे गकारस्येदमुदाहरणम्। चूडाल इति । मत्वर्थे ठ्प्राणिस्थादातो लजन्यतरस्याम्ऽइति । अत्र प्रयोजनाभावादेव न भविष्यतीति शक्यं वक्तुम्। कर्णिकेति। ठ्कर्णललाटात् कनलङ्कारेऽइति भवार्थे कन्। अत्र ठ्किति चऽ इति वृद्धिः स्यात्, रूपञ्च न सिध्येत्। अथ तुदिर्च्छिदिर्प्रभृतिषु इरित्यस्य समुदायस्य केनेत्संज्ञा?मा भूत्समुदायस्य, रेफस्य हलन्त्यम् इति भविष्यति, इकारस्य उपदेशेजनुनासिक इत् इति। इरितो वा इत्यात्रापि-- इश्च रश्चेरौ तावितावस्येति विग्रहः, न तु इरित्ययं समुदायः स इद्यस्येति। अवश्यं च इकारस्य पृथगीत्संज्ञेषितव्या, स्वरितेत इत्यात्मनेपदं यथा स्यादिति। यद्येवम्, ठिदितो नुम् धात्तोःऽ इति नुम् प्राप्नोति, कुम्भीधान्यन्यायेन न भवति; यस्य पुनः कुम्भ्यां वान्यत्र वा, नासौ कुम्भीधान्यः। नायं न्यायो नुम्विधौ शक्य आश्रयितुम्। इह हि न स्यात्-टुअनदिऽ नन्दथुरिति। ज्ञापकात् सिद्धम्, यदयम् ठ्न हशःऽ इति क्सस्य प्रतिषेधं शास्ति, तज्ज्ञापयति-नेदितां नुम्भवति; अन्यथा हशेरिदित्वान्नुमि सति अनिगुपधात्वात् क्सस्य प्राप्तिरेव नास्ति, किं तन्निषेधेन। परिहारान्तरमप्यत्र नुम्विधौ वक्ष्यते॥
सिद्धान्तकौमुदी
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः । इति शसः शस्येत्संज्ञा ॥
`राम शस्`-इति स्थिते, `न विभक्तौ तुस्मा` `इति सकारस्य नेत्वम्। तत्र शकारस्य अनन्त्यत्वाद्धलन्त्यमित्यस्याऽप्राप्तावाह-लशक्वतद्धिते। `लशकु` इति समाहारद्वन्द्वः। उपदेशेऽजनुनासिक इत्, `आदिर्ञिटुडवः, `षः प्रत्ययस्ये`त्यतः-इदिति , आदिरिति, प्रत्ययस्येति चानुवर्तते। अतद्धित इति षष्ठ�र्थे सप्तमी। तद्धितभिन्नस्य प्रत्ययस्य आदिभूतं लकारशकारकवर्गम् इत्संज्ञं भवतीत्यर्थः। तदाह--तद्धितवर्जेति। अतद्धित इति किम् ?। `कर्णललाटात्कनलङ्कारे`। कर्णिका। अत्र ककारस्य तद्धितावयवत्वान्नेत्त्वम्। सति तस्मिन् `किति चे`त्यादिवृद्धिः स्यात्। एतेन प्रयोजनाऽभावादेव लशादितद्धितेषु नेत्त्वमित्यतद्धितग्रहणं व्यर्थमिति निरस्तम्। इति शस इति। शकारस्येत्संज्ञायां `तस्य लोप` इति लोपः। शकारोच्चारणं तु `जसः शी` `तस्माच्छसो नः` इत्यादौ विषयविभागार्थम्। राम असिति स्थिते, अकः सवर्णे दीर्घ इति बाधित्वा, अतो गुण इति प्राप्ते प्रथमयोरिति पूर्वसवर्णदीर्घे, रामास् इति स्थिते।
लशक्व। `आदिर्ञिटुडवः` इत्यत `आदि`-रित्यनुवर्तते `षः प्रत्ययस्ये`त्यतः प्रत्ययस्येति। `अतद्धिते` इति पर्युदासाद्वा लभ्यत इत्याह--प्रत्ययाद्या इति। लश्त शश्च कुश्चेति समाहारद्वन्द्वे `लशक्वि`ति नपुंसकम्। तदितरेतरयोगद्वन्द्वेन विवृणोति-लशकवर्गा इति। अतद्धित इति कम् ?, `प्राणिस्थादातः-`इति लच्। चूडालः। `लोमादिभ्यः[शः`]। लोमशः। अत्र प्रयोजनाऽभावादेव नेत्संज्ञेति नेदं प्रत्युदाहरणमिति नव्याः। `कर्णललाटा`दिति भवार्थे कन्। कर्णिका। सत्यां हीत्संज्ञायां `किति चे`ति वृद्धिः स्यात्। प्रत्ययाद्या इति किम् ?। `जल्पभिक्षे`ति वृडः षाकन्। वराकः। अत्र `क्ङिति चे`ति गुणो न स्यात्।
लघुसिद्धान्तकौमुदी
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!