॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|76
SK 2743
1|3|76
अनुपसर्गाज्ज्ञः
SK 2743
सूत्रच्छेद:
अनुपसर्गात् - पञ्चम्येकवचनम् , ज्ञः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
कर्त्रभिप्राय इति वर्तते। अनुपसर्गाज् जानातेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति। गां जानीते। अश्वं जाणीते। अनुपसर्गातिति किम्? स्वर्गं लोकं न प्रजानाति मूढः। कर्त्रभिप्राये इत्येव, देवदत्तस्य गं जानाति।
नास्योपसर्गाः सन्तीति बहुव्रीहिः। कतसकर्मकार्थेञ्चेदम्। `अकर्मकाच्च` 1|3|45 इत्येवं सिद्धत्वात्॥
सकर्मकार्थमिदम्, अन्यत्र ठकर्मकाच्चऽ इति सिद्धत्वात्। गां जानीत इति ।स्वर्ग लोकं न प्रतिजानातीति। ठ्संप्रतिभ्यामनाध्यानेऽ इत्यनेनापि न भवति; आध्यानविषयत्वात्। प्रजानातीति वा पाठः॥
सिद्धान्तकौमुदी
गां जानीते । अनुपसर्गात्किम् । स्वर्गं लोकं न प्रजानाति । कथं तर्हि भट्टिः । इत्थं नृपः पूर्वमवालुलोचे ततोनुडजज्ञे गमनं सुतस्येति । कर्मणि लिट् । नृपेणेति विपरणामः ।
अनुपसर्गाज्ज्ञः। अनुपसर्गाज्ज्ञादातोरात्नेपदमित्यर्थः। `अकर्मकाच्चे`त्येव सिद्धे सकर्मकार्थमिदम्। तदाह--गां जानीते इति। कथमिति। अनुपूर्वकस्य अनुमत्यर्थकस्य ज्ञाधातोरुपसर्गपूर्वकतया प्रकृतसूत्रस्याऽप्रवृत्तेः सकर्मकतया `अकर्मकाच्चे`त्यस्याप्यप्रवृत्तेरनुजज्ञे इतिकथमात्मनेपदमित्यर्थः। समाधत्ते-- कर्मणि लिडिति। तथा च `भावकर्मणोटरित्यात्मनेपदमिति भावः। सुतस्य गमनमनुज्ञातमित्यर्थः फलति। नन्वेवं सति `नृप` इति प्रथमान्तरस्य कथमिहान्वय इत्यत आह-- नृपेणेति विपरिणाम इति। अवालुलोचे इत्यत्रान्वितं नृप इति प्रथमान्तरं तृतीयया विपरिणमितमत्रानुषज्यते इत्यर्थः।
अनुपसर्गाज्ज्ञः। अकर्मकाच्चेत्येव सिद्धे सकर्मकार्थ आरम्भः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!