॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|70
SK 2592
1|3|70
लियः सम्माननशालिनीकरणयोश्च
SK 2592
सूत्रच्छेद:
लियः - पञ्चम्येकवचनम् , सम्माननशालिनीकरणयोः - सप्तमीद्विवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
णेः इति वर्तते। अकर्त्रभिप्रायार्थो ऽयमारम्भः। लीङ् श्लेषणे इति दिवादौ पठ्यते ली श्लेषणे इति च क्र्यादौ। विशेषाभावाद् द्वयोरपि ग्रहणम्। लियो ण्यन्तात् संमानने शालीनीकरणे च वर्तमानादात्मनेपदं भवति। चशब्दात् प्रलम्भने च। सम्माननं पूजनम् जटाभिरालापयते। पूजां समधिगच्छति इत्यर्थः। शालीनीकरणं न्यग्भावनम् श्येनो वर्तिकामुल्लापय्ते। न्यक्करोति इत्यर्थः। प्रलम्भने कस्त्वामुल्लापयते। विसंवादयति इत् यर्थः। विभाषा लीयतेः 6|1|51 इति वा आत्वं विधीयते। तदस्मिन् विषये नित्यम् अन्यत्र विकल्पः। व्यवस्थितविभाषा हि सा। सम्माननादिषु इति किम्? बालकमुल्लापयति।
`विशेषाभावात्` इति। कतं पुनर्विशेषभावः, यावता निरनुबन्धकत्वं सानुबन्धकत्वञ्चानयोर्विशेषोऽस्त्येव,ततश्च `निरनुबन्धकग्रहणे न सानुबन्धकस्यट (व्या।प।#आ53) इत्यनया पिरभाषाय न लीङो ग्रहणेन भवितव्यम्। तदयुक्तमुक्तं विशेषाभावाद्द्वयोरपि ग्रहणमिति? नैष दोष-, उत्सृष्टानुबन्धको हि लीह ल्यन्तो भवति। उत्सृष्टे चानुबन्धे द्वयमेवाभेदकं भवति-- अर्थः, शब्दान्तरत्वञ्च। तत्रार्थस्तावदनयोरेक एव, शब्दान्तरत्वमपि नास्ति। शब्दान्तरत्वञ्च प्रकृतिबेदविकरणभेदाभ्यां भवति। न चानयोण्र्यन्तयोः प्रकृतिभेदःष नापि विकरणभेदोऽस्ति;शब्विकरणत्वात्। यदपि `विभाषा लीयतेः` 6|1|50 इत्यात्त्वं तदप्युभयोर्भवति। तथा च वक्ष्यति-- `किमिदं लीयतेरिति? लीनातिलीयत्योरागन्तुकेन यका निदशः` इति। `न्यग्भावम्` इति। अभिभवनमित्यर्थः। `जटाभिः` इति। हेतौ तृतीया। जटा हि पूजाद्यधिगमहेतुभूताः। तथा हि-- यस्य जटाः सन्ति लोके महानयं तपस्वीतयुपजातसम्प्रत्ययैः पूज्यते॥
विशेषाभावादिति। निरनुबन्धकपरिभाषा तु ठ्वामदेवाद् ड।ल्ड्ड।लैऽ इत्यत्र ज्ञापिता प्रत्ययग्रहणविषयैवेति मन्यते। संमानने शालीनीकरणे च वर्तमानादिति। संमाननं विषयः,न धात्वर्थः। यदाह--पूजामधिगच्छतीत्यर्थ इति। धात्वर्थे तु पूजयतीति वाच्यं स्यात्, यथा न्यक्करोतीत्यर्थ इति। अकर्मकश्चायचमस्मिन् प्रयोगे पूजाख्यस्य कर्मण आत्मनेपदसहितेन धातुनैवोपातत्वात् पुत्रीयतीतिवदित्याहुः। जटाभिरिति। हेतौ तृतीया, यस्य हि जटाः सन्ति लोके स पूज्यते॥
सिद्धान्तकौमुदी
लीङ्लियोर्ण्यन्तयोरात्मनेपदं स्यारदकर्तृगेऽपि फले पूजाभिभवयोः प्रलम्भने चार्थे । जटाभिर्लापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वार्तिकामुल्लापयते । अभिभवतीत्यर्थः । बालमुल्लापयते । वञ्चयतीत्यर्थः ॥
लियः संमानन। `लिय` इतिलीलीङोर्ग्रहणम्। `अनुदात्तङितः` इत्यत् आत्मनेपदमिति, `णेरणौ` इत्यतो णेरिति चानुवर्तते। `णिचश्चे`ति सिद्देऽकर्त्रभिप्रायार्थमिदम्। संमाननं - पूजालाभः। शालिनीकरणम् - अभिनवः। चकारात् `गृधिवच्च्यो`रितिपूर्वसूत्रात्प्रलम्भनग्रहणं समुच्चीयते। तदाह-- लीङ्लियोरित्यादिना।
लियः संमानन। चात्प्रलम्भने।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!