॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|7
SK 189
1|3|7
चुटू
SK 189
सूत्रच्छेद:
चुटू - प्रथमाद्विवचनम्
अनुवृत्ति:
प्रत्ययस्य  [1|3|6] - षष्ठ्येकवचनम् , उपदेशे  [1|3|2] - सप्तम्येकवचनम् , इत्  [1|3|2] - प्रथमैकवचनम् , आदि  [1|3|5] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
उपदेशे प्रत्ययस्य आदि चुटू इत्
सूत्रार्थ:
औपदेशिक-अवस्थायाम् प्रत्ययस्य आद्यस्थः चवर्गीयवर्णः टवर्गीयवर्णः च इत्संज्ञकः भवति ।
उपदेशः नाम किम्? "उपदेशः आद्योच्चारणम्" । इत्युक्ते, आदिऋषिभिः (पाणिनि-कात्यायन-पतञ्जलिभिः) यस्य उच्चारणं कृतम् सः उपदेशः । आदिऋषिभिः कस्य कस्य उच्चारणं कृतम्? प्रत्याहाराणाम्, प्रत्ययानाम्, आदेशानाम्, आगमानाम्, धातूनाम् । अतः एते सर्वे, यथा ऋषिभिः मूलरूपेण उच्चारिताः, तस्याम् स्थितौ उपदेशसंज्ञकाः भवन्ति । (अस्मिन् विषये विस्तारेण उपदेशेऽजनुनासिक इत् 1|3|2 अस्य सूत्रस्य विवरणे उक्तम् अस्ति ।)

उपदेशस्थितौ प्रत्ययस्य प्रथमः वर्णः यदि चवर्गीयः वा टवर्गीयः, तर्हि तस्य अनेन सूत्रेण इत्संज्ञा भवति ।

चवर्गीयस्य उदाहरणानि - जस् (ज्-वर्णस्य इत्संज्ञा) , च्फ (च्-वर्णस्य इत्संज्ञा), ञ्य (ञ्-वर्णस्य इत्संज्ञा) ।
टवर्गीयस्य उदाहरणानि - टा (ट् -वर्णस्य इत्संज्ञा) , ण्वुल् (ण्-वर्णस्य इत्संज्ञा), ड (ड्-वर्णस्य इत्संज्ञा) ।

अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - इँर इत्संज्ञा वाच्या । इत्युक्ते, "इँर्" अस्य शब्दसमुहस्य इत्संज्ञा भवति । यथा - दृशिँर् (प्रेक्षणे) अस्मिन् धातोः "इँर्" इति शब्दसमूहस्य उपस्थितौ अनेन वार्त्तिकेन तस्य शब्दसमुहस्यैव इत्संज्ञा भवति । इँकारस्य रेफस्य वा भिन्नरूपेण इत्संज्ञा न कर्तव्या ।
One-line meaning in English
The letters च्, छ्, ज्, झ्, ञ्, ट्, ठ्, ड्, ढ्, ण् occurring at the beginning of a प्रत्यय in its औपदेशिक form get the term इत् ।
काशिकावृत्तिः
चवर्गटवर्गौ प्रत्ययस्यादी इत्सञ्जौ भवतः। गोत्रे कुञ्जाऽदिभ्यश्च्फः 4|1|98 कौञ्जायनः। छस्य ईयादेशं वक्ष्यति। जस् ब्राह्मणाः झस्य अन्ताऽदेशं वक्ष्यति। शण्डिकाऽदिभ्यो ञ्यः 4|3|92 शाण्डिक्यः। तवर्गः, चरेष्टः 3|2|16 कुरुचरी, मद्रचरी। ठस्य इकादेशं वक्ष्यति। सप्तम्यां जनेर् डः 3|2|97 उपसरजः, मन्दुरजः। ढस्य एयादेशं वक्ष्यति। अन्नाण्णं 4|4|85 आन्नः। पृथग्योगकरणम् अस्य विधेरनित्यत्वज्ञापनार्थम्। तेन वित्तश्चुञ्चुप्चणपौ 5|2|26 केशचुञ्चुः, केशचणः। अवात् कुटारच् च 5|2|30, नते नासिकायाः संज्ञायां टिटञ्नाट्ज्भ्रटचः 5|2|31 अवटीतः। आदिः इत्येव। कर्मणि घटो ऽठच् 5|2|35 कर्मठः।
`कौञ्जायन्यः` इति। च्फञन्तात् `व्रातच्फञोरस्त्रियाम्` 5|3|113 इति स्वार्थे ञ्यः। `छस्येयादेशं वक्ष्यति` इति। इत्संज्ञापवादम्। `शाण्डिक्यः` इति। `शण्डिकादिभ्यो ञ्यः` 4|3|92 इति शण्डिकोऽभिजनोऽस्येत्यर्थे ञ्यः, तत्र हि `सोऽस्याभिजनः` इति वत्र्तते। `मन्दुरजः`इति। `ङयापोः संज्ञाच्छन्दसोर्बहुलम्` 6|3|62 इति मन्दूराशब्दस्य ह्यस्वत्वम्। `अन्नाण्णः- आन्नः` इति। `अन्नं लब्धा` इत्य्रथे णः। तत्र हि `धनगणं लब्धा` 4|4|84 इत्यतो लब्धेत्यनुवत्र्तते। अथ किमर्थं पृथग्योगः क्रियते, `चुटुषाः प्रत्ययस्य` इत्येक एव योगः क्रियतामित्यत आह-- `पृथग्योगकरणम्` इत्यादि। `तेन वित्तः` 5|2|26 इत्यादिनाऽस्य विधेरनित्यत्वज्ञापनस्य प्रयोजनं दर्शयति॥
आदी इदिति। प्रारम्भे वर्तमानावित्यर्थः। कौञ्जायन्य इति। च्फञन्तात् ठ्व्रतच्फञोरस्त्रियाम्ऽइति स्वार्थे स्वर्थे ञ्यः। शण्डिकादिभ्यो ञ्य इति। सोऽस्या भिजनः इति तत्र वर्तते। मन्दुरज इति । ड।लपोस्सैज्ञाच्छन्दसोः इति ह्रस्वः। अन्नाण्ण इति । ठ्धनगणं लब्धाऽइत्यतो लब्धेति तत्रानुवर्ते। किमर्थो योगविभागः,ठ्चुटूअषाः प्रत्ययस्यऽइत्येक एव योगः क्रियतामत आह-पृथगित्यादि। केशचुञ्चुः केशचण इति । अत्र चकारस्येत्संज्ञायाम् ठ्चितःऽइत्यन्तोदातत्वं स्यात्, पित्करणन्तु पर्यायार्थं स्यात्। अवादित्यस्यानुवृत्तिर्दर्शिता॥
सिद्धान्तकौमुदी
प्रत्ययाद्यौ चुटू इतौ स्तः । इति जस्येत्संज्ञायाम् ।
देवदत्तहन्तृंहतन्यायस्तु नात्र प्रवर्तत इति स्वादिसन्धौ मनोरथ इत्यत्र प्रञ्चितम्। राम जस् इति स्थिते--चुटू। `उपदेशेऽजनुनासिक इत्` इत्यतः `इ` दित्यनुवर्तते। तच्च द्विवचनान्ततया विपरिणम्यते। `आदिर्ञिटुडवः` इत्यत `आदि`ग्रहणमनुवर्त्त्य द्विवचनान्ततया विपरिणम्यते। `षः प्रत्ययस्ये`त्यनुवर्तते। तदाह--प्रत्ययाद्यावित्यादिना। इति जस्येति। इत्संज्ञायां तस्य लोप` इति लोपः। जकारस्तु जसश्शीत्यादौ शसो निवृत्त्यर्थः।
युटू। `आदिर्ञिटुडवः` इत्यत `आदिः,` `षः प्रत्ययस्य` इत्यतः `प्रत्ययस्ये`ति चानुवर्तते, तदाह-प्रत्ययाद्याविति। प्रत्ययाद्यविति किम् ?। वाचाटः। `तेन वित्तश्चुञ्चुप्चणपौ` इत्यत्र प्रत्ययादौ यकारो लुप्तनिर्दिष्टस्तेन चस्य नेत्संज्ञेति वक्ष्यति।
लघुसिद्धान्तकौमुदी
प्रत्ययाद्यौ चुटू इतौ स्तः॥
महाभाष्यम्
चुटू चुञ्ञ्चुप्चणपोश्चकारप्रतिषेधः ।। 1 ।। चुञ्ञ्चुप्चणपोश्चकारस्य प्रतिषेधो वक्तव्यः । । केशचुञ्ञ्चुः । केशचणः । इदर्थाऽभावात्सिद्धम् ।। 2 ।। इत्कार्याऽभावादत्रेत्संज्ञा न भविष्यति ।। इदमस्तीत्कार्यम्। चितः अन्त उदात्तो भवतीति अन्तोदात्तत्वं यथा स्यात् । पित्करणमिदानीं किमर्थं स्यात् ?। पित्करणं किमर्थमिति चेत्पर्यायार्थम् ।। 3 ।। पित्करणं किमर्थमित चेत्पर्यायार्थमेतत्स्यात् । एवं तर्हि यकारादी चुञ्ञ्चुप्चणपौ । किं यकारो न श्रूयते ?। लुप्तनिर्दिष्टो यकारः । इर उपसंख्यानम् ।। 4 ।। इर उपसंख्यानं कर्तव्यम् । रुधिर् ‐ अरुधत्, अरौत्सीत् ।। अवयवग्रहणात्सिद्धम् ।।5।। रेफस्याऽत्र हलन्त्यम् 1|3|3 इतीत्सञ्ञ्ज्ञा भविष्यति, इकारस्य उपदेशेऽजनुनासिक इत् (2) इति । अवयवग्रहणादिति चेदिदिद्विधिप्रसङ्गः ।। 6 ।। अवयवग्रहणादिति चेदिदिद्विधिरपि प्राप्नोति । भेत्ता छेत्ता । इदितो नुम्धातोः 7|1|58 इति नुम्प्राप्नोति । यदि पुनरयमिदिद्विधिः कुम्भीधान्यन्यायेन विज्ञायेत । तद्यथा ‐ कुम्भीधान्यः श्रोत्रियः इत्युच्यते । यस्य कुम्भ्यामेव धान्यं स कुम्भीधान्यः । यस्य पुनः कुम्भ्यां चाऽन्यत्र च धान्यं, नाऽसौ कुम्भीधान्यः । नायमिदिद्विधिः कुम्भीधान्यन्यायेन शक्यो विज्ञातुम् । इह हि दोषः स्यात् ‐ टुनदिनन्दथुरिति । एवं तर्हि नैवं विज्ञायते ‐ इकार इदस्य सोऽयमिदित्तस्येदिति इति । कथं तर्हि ?। इकार एवेत् इदित्, इदिदन्तस्येति ।। अथ वा ऋकारस्यैवेदमित्त्वभूतस्य ग्रहणम् । तस्य च उपदेशेऽजनुनासिक इतीत्संज्ञा भविष्यति ।। अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति ‐ नैवं जातीयकानामिदिद्विधिर्भवतीति यदयमिरितः कांश्चिन्नुमनुषक्तान्पठति ‐ उबुन्दिर् निशामने । स्कन्दिर्गतिशोषणयोः ।। अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति ‐ इर् शब्दस्येत्संज्ञा भवतीति यदयमिरितो वा 3|1|57 इत्याह ।। अथ वाऽन्त इति वर्तते ।। 7 ।।