Page loading... Please wait.
1|3|68 - भीस्म्योर्हेतुभये
॥ तस्मै पाणिनये नम: ॥
1|3|68
SK 2594
भीस्म्योर्हेतुभये  
सूत्रच्छेद:
भीस्म्योः - षष्ठीद्विवचनम् , हेतुभये - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
णेः इति वर्तते। अकर्त्रभिप्रायार्थो ऽयमारम्भः। विभेतेः स्मयतेश्च ण्यन्तादात्मनेपदं भवति हेतुभये। हेतुः प्रयोजकः कर्ता लकारवाच्यः, ततश्चेद् भयं भवति। भयग्रहणम् उपलक्षणार्थम्, विस्मयो ऽपि तत एव? जटिलो भीषयते। मुण्डो भीषयते। जटिलो विस्मापयते। मुण्डो विस्मापयते। हेतुभये इति किम्? कुञ्चिकयैनं भाययति। रूपेण विस्माययति। अत्र कुञ्चिका भयस्य करणम्, न हेतुः।
`हेतुभये`इति। हेतोर्भयं हेतुभयमिति। `पञ्चमी भयेन` 2|1|36 इति समासः। भीतिर्भयम् = त्रासः, अनिष्टापाताशङ्का। `ततश्चद्भयं भवति` इति। यदि ततो हेतुसंज्ञकात् प्रयोजकाद्भयं भवत्येवमात्मनेपदं भवति, नान्यथेति। यद्येवम्,स्मयत्यर्थो न विशेषितः स्यात्; यस्माद्भयं बिभेतेरेवार्थो न स्मरतेः, ततश्च रूपेण विस्माययतीत्यवमादावप्यात्मनेपदं स्यात्। मुण्डो विस्मापयत इत्यादौ न स्यादित्यत आह-- `भयग्रहणम्` इत्यादि। भयग्रहणं हि धात्वर्थोपलक्षणार्थम्। धात्वर्थश्चेत् प्रयोजकाद्भवतीत्ययमर्थो विवक्षितः।तेन विस्मयोऽपि यदि तत एव हेतोर्भवति यद्येषोऽर्थो लभ्यत इति स्मयत्यर्थोऽपि विशेषित एव। विस्मयः = आश्चर्यम्। `मुण्डः` इति। मुण्डगुणोपेतत्वान्मुण्डः। `भीषयते` इति। `ञिभी भये` (धातुपाठः-1084),`विभाषा लीयतेः` 6|1|50 इत्यतो विभाषाग्रहणानुवृत्तेः `बिभेतेर्हेतुभये` 6|1|55 इति पक्ष आत्त्वम्। `भियो हेतुभये षुक्` 7|3|40 इति षुक्। `विस्मापयते` इति। `{ष्मिङ`-धातुपाठः} स्मिङ ईषद्धसने` (धातुपाठः-948)। `नित्यं स्मयतेः` 6|1|56 इत्यात्त्वम्;र्तिह्यी` 7|3|36 इत्यादिना पुक्।`कुञ्चिकयैनं भाययति` इति। करणादत्र भयम्, न हेतोः प्रयोजकात्। तेनात्मनेपदं न भवति। षुगप्यत्र न भवति, स हीकारान्तस्यैवेष्यते, `भियो हेतुभये षुक्` 7|3|40 इत्यत्र भी ई-- इतीकारप्रश्लेषनिर्द्देशात्। `रूपेण विस्माययति` इति। अत्र करणादेव विस्मयः;न हेतोः॥
भयमनिष्टापातशङ्गासाधनमात्रं लोकिको हेतुः, न वान्तरेण साधनं क्रिया सम्भवतीति विशेषणसामर्थ्यात् कृत्रिमत्वाच्च पारिभाषिकस्य हेतोर्ग्रहणमित्याह--हेतुः प्रयोजक इत्यादि। ततश्चेद्भयं भवतीति। यद्येवम्, स्मयत्यर्थो न विशेषितः स्यात्, न हि स्मयतेर्भयमर्थः, अऽत आह-भयग्रहणमिति। चितविकारस्योपलक्षणमित्यर्थः। विस्मयोऽपि तत एवेति। अत्र चेद्भवतीत्यनुषङ्गः। भीषयत इति। ठ्भियो हेतुभये षुक्ऽ। भाययत इति।ठ्बिभेतेर्हेतुभयेऽ इति वैकल्पिकमात्वम्। एवं च अत्र षुक् न भवति; तद्विधावाकारप्रश्लेषात्। विस्मापयत इति। ठ्नित्यं स्मयतेःऽ इत्यात्वम्। ठर्तिह्रीऽ इत्यादिना पुक्। कुञ्चिकयेति। कारणादत्र भयम्, न हेतोः। यद्यपि तद्व्यापारे णिज्विधानात् प्रयोजकसाध्यमेव भयम्, तथापि विशेषणोपादानसामर्थ्यादेवं विज्ञायते-अन्यनिरपेक्षाद्धेतोरेव यद्भयमिति। एवं च मौण्ड।ल्èनं भाययतीत्यत्रापि गुणगुणिनोर्भेदविवक्षायां न भवति। उदाहरणे तु तादात्म्यस्य विवक्षितत्वाद्धेतोरेव भयम्॥
सिद्धान्तकौमुदी
ण्यन्ताभ्यामाभ्यामात्मनेपदं स्याद्धेतोश्चेद्भयस्मयौ । सूत्रे भयग्रहणं धात्वर्थोपलक्षणम् । मुण्डो भापयते ॥
भीस्म्योर्हेतुभये - भीस्म्योर्हेतुभये ।अनुदात्तङितः॑इत्यत आत्मनेपदमिति, "णेरणौ" इत्यतो णेरिति चानुवर्तते । हेतुः- प्रयोजकः । तदाह - आभ्यां ण्यन्ताभ्यामित्यादि अकत्र्रभिप्रायार्थमिदम् । ननु हेतोश्चेद्भयस्मयावित्यनुवपपन्नं, सूत्रे स्मयग्रहणाऽभावादित्यत आह — सूत्रे भयेति । सूत्रे भयग्रहणं स्मिङ्घात्वर्थस्य स्मयस्याप्युलक्षणमित्यर्थः । मुण्डो भापयते इति । अत्र आत्त्वं पुक्, आत्मनेपदं च । भिय आत्त्वाऽभावपक्षे विशेषमाह —
भीस्म्योर्हेतुभये - भीस्म्योः । व्यत्ययेन षष्ठीत्याह — - आभ्यामिति ।णेरणौ॑ इत्यतो णेरित्यनुवृत्तेण्र्यन्ताभ्यामेव विधिरकत्र्रभिप्रायार्थः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!