॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|66
SK 2737
1|3|66
भुजोऽनवने
SK 2737
सूत्रच्छेद:
भुजः - पञ्चम्येकवचनम् , अनवने - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
भुज पालनाभ्यवहारयोः इति रुधादौ पठ्यते। तस्मादनवने ऽपालने वर्तमानादात्मनेपदं भवति। भुङ्क्ते, भुञ्जाते, भुञ्जते। अनवने इति किम्? भुनक्त्येनम् अग्निराहितः। अनवन इति प्रतिषेधेन रौधादिकस्यएव ग्रहनं विज्ञायते, न तौदादिकस्य भुजो कौटिल्ये इत्यस्य। तेन इह न भवति, विभुजति पाणिम्।
`अवनप्रतिषेधेन` इत्यादि। अवनं पालनम्। तत्प्रतिषेधेन रौधादिकस्य भुजेग्र्रहणं विज्ञायते; न तौदादिकस्य-- `{भुजौ-- धातुपाठः} भुज कौडिस्ये` (धातुपाठः-1417) इत्यस्य। यथैव हि सवत्सा धेनुरानीयतामित्युक्ते यस्या हि वत्सेन सह सम्बन्धः सम्भवति सैव गोधेनुरानीयते, न महिष्यादिधेनुः; तथेहाप्यवनप्रतिषेधेन यस्य भुजोऽनवने वृत्तिः सम्भवति, स एव रौधादिकः प्रतीयते; तस्मात् तस्यैव ग्रहणं विज्ञायते। तेन निर्भुजति, विभुजतीति तौदादिकस्यात्मनेपदं न भवति॥
अनवनप्रतिषेधेनेत्यादि। संसर्गवद्विप्रयोगोऽपि विशेषस्मृतिहेतुः। यथा दोग्ध्रीपर्यायो धेनुशब्दः संसर्गिभिः विशेषेऽवस्थाप्यते--सवत्सा धेनुरानीयतां सकिशोरा सवर्करेति, तथाऽवत्साऽकिशोराऽवर्करेति। यस्या आनयने द्दष्टः संसर्गः सैव तत्र गृहीता आनीयते; तद्वदिहापीत्यर्थः॥
सिद्धान्तकौमुदी
ओदनं भुङ्क्ते । अभ्यवहरतीत्यर्थः । बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् । वृद्धो जनो दुःखशतानि भुङ्क्ते । इहोपभोगो भुजेरर्थः । अनवने किम् । महीं भुनक्ति ।
भुजोऽनवने। अवनं---रक्षणम्। ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः। ननु भुज पालनाऽब्यवहारयो` रिति धातुपाठे स्थितम्। तत्र `बुभुजे पृथिवी`मित्यत्र न पालनमर्थः. तथा सति `अनवने` इति पर्युदासादात्मनेपदाऽयोगात्। नाप्यभ्यवहरणम्, असंभवात्। नहि पृथिव्या अभ्यवहरणं संभवति। तथा `वृद्धो जनो दुःखशतानि भुङ्क्ते` इत्पि न युज्यते, दुःखशतानां पालनस्य अभ्यवहरणस्य चाऽसंभवात्. तत्राह-- इह उपभोगो भुजेरर्थ इति। धातूनामनेकार्थकत्वादिति भावः। महीं भुनक्तीति। रक्षतीत्यर्थः। अत्र रौधादिकस्यैव `भुज पालनाभ्यवहारयो`रित्यस्य ग्रहणम् -- नतु `भुजो कौटिल्ये` इति तौदादिकस्याऽपीति भाष्यम्। भुजति वासः = कुटिली भवतीत्यर्थः।
अवनं-- पालनम्। `अदने` इति वक्तव्ये अनवन इति पर्युदासस्य प्रयोजनद्वयम्। संयोगवद्विप्रयोगस्यापि विशेषावधारणहेतुत्वाद्रौधादिकस्यैव भुजेर्ग्रहममित्येकम्, अदनादर्थान्तरेऽप्युपभोगादौ आत्मनेपदं भवतीति द्वितीयम्, तदाह-- बुभुजेपृथिवीपाल इति। इहेति। उपभोग इत्युपलक्षममात्मसात्करणस्यापि।पृथिवीं बुभुजे। स्वाधीनां चकारेत्यर्थः। भुज पालनाभ्यवहारयोरित्यस्य रूधादेस्वे ग्रहणमिति भुजो कौटिल्य इत्यस्मात्तुदादेः परस्मैपदमेव। पाणिं विभुजति। मूलानि विभुजति।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
भुजोऽनवने अनवनकौटिल्ययोः।।1।। अनवनकौटिल्ययोरिति वक्तव्यम् । इहापि यथा स्यात् ‐ प्रभुजति वाससी, निभुजति जानुशिरसी इति ।। तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । यस्य भुजेरवनमनवनं चाऽर्थस्तस्य ग्रहणम् । न चाऽस्य भुजेरवनमनवनं चाऽर्थः ।। 66 ।।