॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|64
SK 2735
1|3|64
प्रोपाभ्यां युजेरयज्ञपात्रेषु
SK 2735
सूत्रच्छेद:
प्रोपाभ्याम् - पञ्चमीद्विवचनम् , युजेः - पञ्चम्येकवचनम् , अयज्ञपात्रेषु - सप्तमीबहुवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
युजिर् योगे स्वरितेत्। तस्य कर्त्रभिप्राये क्रियाफले सिद्धम् एव आत्मनेपदम्। अकर्त्रभिप्रायार्थो ऽयमारम्भः। प्र उप इत्येवं पूर्वात् युजेरयज्ञपात्रप्रयोगविषयादात्मनेपदं भवति। प्रयुङ्क्ते। उपयुङ्क्ते। अयज्ञपात्रेषु इति किम्? द्वन्द्वं न्यञ्च पात्राणि प्रयुनक्ति {देवसंयुक्तानि}। स्वराध्यन्तोपसृष्टादिति वक्तव्यम्। उद्युङ्क्ते। नियुङ्क्ते। स्वराद्यन्तौपसृष्तातिति किम्? संयुनक्ति।
`युज समाधौ`(धातुपाठः-1177) इत्यस्यानुदात्तेत्त्वात् सिद्धमात्मनेपदमित्यतस्तस्येह ग्रहणमयुक्तमित्यभिप्रायेणाह-- `युजिर् योगे` इति। `प्रयुङ्कते` इति। रुधादित्वात् `श्नसोरल्लोपः` 6|4|111 इत्यकारलोपः। `चोः कुः` 8|2|30 इति कुत्वम् = जकारस्य गकारः, `खरि च` 8|4|54 इति चत्त्र्वम् = ककारः, `नश्च` 8|3|24 इत्यादिनाऽनुस्वारः, `अनुस्वारस्य ययि परसवर्णः` 8|4|57 इति ङकारः।`स्वराद्यन्तोपसृष्टाविति वक्तव्यम्` इति। स्वरोऽज् आदिरन्तो वा यस्य स स्वराद्यन्तः, तदुपसृष्टात् = तत्सम्बन्धाद्युजेरात्मनेपदं भवति-- इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्- इह सूत्रे प्रशब्दोऽजन्तोपसर्गलक्षणार्थः, उपशब्दोजाद्युपलक्षणार्थः, उपशब्दोऽजाद्युपलक्षणार्थः, तेन सर्वेणाजन्तेनाजादिना चोपसर्गेण चयुक्ताज्युजेरात्मनेपदं भवतीति। स्वराद्यन्तोपसृष्टादिति किम्? निर्युनक्ति॥
प्रोपाभ्यां युजेरयज्ञपात्रेषु॥ युजिर्योगे इति । ठ्युज समाधौऽ इत्यस्य,न दैवादिकस्य, अनुदातेत्वादेव सिद्धम्, युजरिति च विवक्षित इकारः, न त्वागन्तुकः। यज्ञपात्रविषयता चास्यैव सम्भवतीति भावः। प्रयुङ्क्त इति। ठ्रुधादिभ्यः श्नम्ऽ ठ्श्नसोरल्लोपःऽ कुत्वचर्त्वे, अनुस्वारपरसवर्णौ। स्वराद्यन्तोपसृष्टदिति। स्वरःउअ इ, आदिरन्तो वा यस्य स स्वराद्यन्तः। तेनोपसर्गेण सम्बन्धः, स्वराद्यन्तोपसृष्टः- सम् निस् दुस् इत्येतान् वर्जयित्वा सर्व एवोपसर्गास्संगृहीताः॥
सिद्धान्तकौमुदी
प्रयुङ्क्ते । उपयुङ्क्ते ॥ ।स्वराद्यन्तोपसर्गादिति वक्तव्यम् (वार्तिकम्) ॥ उद्युङ्क्ते । नियुङ्क्ते । अयज्ञपात्रेषु किम् । द्वन्द्वंन्यञ्चि पात्राणि प्रयुनक्ति ।
प्रोपाभ्यां। `आत्मनेपद`मिति शेषः। स्वरेति। स्वरौ अचौ आद्यन्तौ यस्य सः स्वराद्यन्तः। तथाभूतोपसर्गात्परत्व एव युजेरात्मनेपदमित्यर्थः। द्वन्द्वमिति। द्वन्द्वं द्विशः, न्यञ्चि-- अधोबिलानीत्यर्थ-।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
प्रोपाभ्यां युजेरयज्ञापात्रेषु स्वराद्युपसृष्टात्। स्वराद्युपसृष्टादिति वक्तव्यम्। उद्युङ्क्ते अनुयुङ्क्ते । अपर आह ‐ स्वराद्यन्तोपसृष्टात्। स्वराद्यन्तोपसृष्टादिति वक्तव्यम् । प्रयुङ्क्ते नियुङ्क्ते विनियुङ्क्ते ।। 64 ।।