॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|62
SK 2734
1|3|62
पूर्ववत् सनः
SK 2734
सूत्रच्छेद:
पूर्ववत् - अव्ययम् , सनः - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Menwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
सनः पूर्वो यो धातुः आत्मनेपदी, तद्वत् सन्नन्तादात्मनेपदम् भवति। येन निमित्तेन पूर्वस्मादात्मनेपदं विधीयते तेन एव सन्नन्तादपि भवति। अनुदात्तङित आत्मनेपदम् 1|3|12 आस्ते, शेते। सन्नन्तादपि तदेव निमित्तम् आसिसिषते, शिशयिषते। नेर् विशः 1|3|17 निविशते, निविविक्षते। आङ उद्गम्ने 1|3|40 आक्रमते, आचिक्रंसते। इह न भवति, शिशत्सति, मुमूर्षति। न हि शदिम्रियतिमात्रम् आत्मनेपदनिमित्तम्। किं तर्हि? शिदाद्यपि, तच् च इह न अस्ति। यस्य च पूर्वत्र एव निमित्तभावः प्रतिशिध्यते, तत् सन्नन्तेश्वप्यनिमित्तम् अनुचिकीर्षति। पराचिकीर्षति। इह जुगुप्सते, मीमांसते इति? अनुदात्तङित इत्येव सिद्धम् आत्मनेप्दम्। अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति इति।
`पूर्ववत्` इति। `तेन तुल्यं क्रिया चेद्वतिः` 5|1|114 इति वतिः।। पूर्वशब्दः सम्बन्धिशब्दत्वादवधिमपेक्षते। स चावधिः श्रुतत्वात्सन्नेव विज्ञायत इत्याह-- `सनः पूर्वो यो धातुः` इति। यद्येवम्, अवधिभावोपगम एव सन्ग्रहणस्योपयुक्तत्वात्त सन्नन्तादात्मनेपदं भवतीति, न तत्रैतल्लभ्यते; कुतस्तर्हि स्यात्? धातुमात्रात्, नैतदस्ति; एवं ह्रात्मनेपदं परस्मैपदानुक्रमणमनर्थकं स्यात्। अथ प्रत्ययान्तात् स्यात्? एवमपि सन्ग्रहणमनर्थकं स्यात्, पूर्ववत् प्रत्ययादिति वाच्यं स्यात्। तस्मात् पत्र्यासन्नं सनं त्यक्त्वा न युक्त्वा न युक्ताऽन्यन्यस्याश्रुतस्य परिकल्पनेति सन्न्तादेव भवतीति विज्ञायते। `येन` इत्यादिना वत्यर्थमाचष्टे। `तदेव निमित्तम्` इति। अनुदात्तेत्वं ङित्त्वञ्च धात्वन्तरावस्थायामपि सन्नन्ताद्वचनसामथ्र्यान्निमित्तं भवति। `असिसिषते` इति। इटि कृते `अजादेर्द्वितीयस्य` 6|1|2 इति सिशब्दस्य द्विर्वचनम्। `निविविक्षते` इति। `विश प्रवेशने` (धातुपाठः-1424), पूर्ववत् कित्त्वषत्वकत्वानि। `आचिक्रंसते` इति। आत्मनेपदनिमित्तत्वात् `स्नुक्रमोरनात्मनेपदनिमित्ते` 7|2|36 इतीण् न भवति। `शिशत्सति`, मुमूर्षति`इति। अत्र सनो यः पूर्वो भागः, तस्यात्मनेपदनिमित्तत्वमस्ति; शीयते, म्रियत इत्यात्मनपददर्शनात्। तत आत्मनेपदेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुमाह-- `इह न भवति` इत्यादि। किं कारणमित्याह-- `न हि` इत्यादि। किं तर्हि? `शिदाद्यपि`इति। शिच्छब्देनात्र शिद्भावित्वं शित्सम्बन्धित्वञ्चोक्तम्। आदिशब्देन लुङलिङोग्र्रहणम्, तच्चेह नास्तीति न ह्रत्र सनः पूर्वभागस्य शिद्भावित्वं शित्सम्बन्धित्वं वास्ति; शित्प्रत्ययस्यास्मिन् विषयेऽत्यन्तासम्भवात्, नापि म्रियतेः परौ लुङलिङौ स्तः; तस्मान्नेह शदिम्रियत्योरात्मनेपदनिमित्तत्वमस्तीति न भवत्यात्मनेपदम्।इह तर्हि कस्मान्न भवति-- अनुचिकीर्षति, पराचिकीर्षतीति? करोतेर्हि गन्धनादिष्वर्थेष्वात्मनेपदं विहितम्, अतस्त्दविवक्षायां सनन्तादपि तेन भवितव्यमित्याह-- `यस्य च` इत्यादि। गन्धनादिष्वर्थेषु पूर्वत्रासनन्तावस्थायाम् `अनुपराभ्यां कृञः` 1|3|79 इत्यनेन परस्मैपदविधानात् करोतेरात्मनेपदाभावः क्रियते। तस्मादाभ्यां सनन्तादप्यात्मनेपदनिमित्ताभावान्न भवति।`अथ जुगुप्सते, मीमांसत इत्यत्र कथमात्मनेपदम्, यावता `पूर्ववत्सनः` 1|3|62 इत्युच्यते, न च गुपादिषु सनः प्रागेवात्मनेपदं भवतीति; अतः पूर्ववदित्यतिदेशाभावान्न भवितव्यमात्मनेगदेनेत्यत आह-- `इह` इत्यादि। `जुगुप्सते`इति। `गुप्तिज्किद्भ्यः सन्` 3|1|5 इति सन्। `मीमांसते` इति। `मानबध` 3|1|6 इत्यादिना सन्, अभ्यासस्य `सन्यतः` 7|4|79 इतीत्वे दीर्घः। कथं पुनरिह `अनुदात्तङित आत्मनेपदम्` 1|3|12 , यावता गुपादाववयवेऽनुदात्तेत्वं लिङ्गम्, न जुगुप्सादौ समुदाय इत्यत आह -- `अवयवे कृतम्` इत्यादि। यथा गोः कर्णादाववयवे कृतं लिङगं समुदायस्य विशेषकं भवति, तथा गुपादाववयवे कृतमनुदात्तेत्त्वं समुदायस्य जुगुप्स इत्येवमादेर्विशेषक्रं भवति। यद्येवम्, गोपयति, तेजयति, सङ्केतयतीत्येवमादावपि प्राप्नोति, सत्यम्; स्यादेतत्-- अवयवेकृतं लिङगं तस्य समुदायस्य गोर्विशेषकं भवति, यं समुदायं सोऽवयवो न व्यभिचरति; सनन्तं पुनर्न व्यभिचरति; णिजन्तन्तु व्यभिचरतीत्यतोऽत्रात्मनेपदेन न भवितव्यम्; वात्र्तमेतत्, सनन्तमपि व्यभिचरतीति विनापि तेन गोपयतीत्यादौ सम्भवात्। तस्मात् समुदायं यं गुपादिर्न व्यभिचरति, तस्यासम्भवात् सर्वस्य गुपादावयवे कृतमनुदात्तेत्त्वं लिङ्गं समुदायस्य विशेषकं भविष्यति। ततश्च गोपयतिप्रभृतिभ्योऽप्यात्मनेपदं प्राप्नोतीत्येव। एवं तर्हि `निगरणचलनार्थेभ्यश्च` 1|3|87 इत्यत्र चकारोऽनुक्तसमुध्चयार्थः क्रियते। तेन गुपादिभ्यो ण्यन्तेभ्यः परस्मैपदात्मनेपदापवादो भविष्यति॥
पूर्ववदिति। ठ्तेन तुल्यम्ऽ इत्यादिना तृतीयचान्ताद्वतिः, न पञ्चम्यन्तात्; लक्षणाभावात् । यथा च ब्राह्यणेन तुल्यं वैश्यादधीत इत्युक्ते ब्राह्मणादिवद् वैश्यादधीते इति पञ्चम्यर्थो गम्यते, तथेहापि पूर्वस्मादिव सनन्तादप्यात्मनेपदमित्यर्थो लभ्यते। ठ्तुल्यार्थैःऽ इति हि तृतीया सर्वविभक्त्यर्थानन्तर्भावयति। यदि सनः पूर्वो यो धातुरिति। एतेन ठ्सनःऽ इति पूर्वस्यावधिनिर्देशः।, न त्वात्मनेपदापेक्षया परपञ्चमीति दर्शयति। यद्येवम्, सनन्तादात्मनेपदमिति न लभ्येत, ठ्सनःऽ इत्यस्य सकृच्छ्4%अतस्यावधिनिर्देशेनोपक्षीणत्वाद्, अत आह-तद्वत्सनन्तादपीति। अवधित्वेनापि तावत्सनः श्रुतत्वात् प्रत्यासत्या तदन्तादेव विधिर्विज्ञायत इति भावः। अथैवं कस्मान्न विज्ञायते सनन्तादात्मनेपदं भवति, पूर्ववदिति श्रौतोऽन्वयः, तत्र कुतः पूर्ववदित्यपेक्षायां सन्निहितत्वात्सन एव पूर्ववदिति विज्ञास्यत इति ? एवं मन्यते-एवं विज्ञायमानेऽयमेव योगः पूर्वस्यावधिः सम्भाव्येत, यथा-ठ्पूर्वत्रासिद्धम्ऽ इत्यत्र तत एव योगात् पूर्वत्रेति। ततश्चायमर्थः स्याद्-ठनुदार्तङ्तिःऽ इत्यारभ्येतः पूर्वं ये धातवो निर्दिष्टास्तेभ्यः सनन्तेभ्यस्तद्वदेवात्मनेपदं भवतीति, ततश्चोतरो विधिः सनन्तान्न स्यात्-ठ्भुजोऽनवनेऽ,बभुक्षत इति,तस्मात्सनः पूर्ववदित्येव श्रौतोऽन्वय एष्टव्य इति। यद्ययं कार्यातिदेशः शास्त्रातिदेशो वा विज्ञायेत, तदा सन्प्रकृतौ प्रयोगान्तरे द्दष्टमित्येव निमितनिरपेक्षं कार्यं शास्त्रं वातिदिश्यमार्नीमहाप्यतिदिश्येत-शिशत्सति, मुमुर्षति; शीयते, म्रियते इत्यत्र द्दष्टत्वादिति मतेऽनयोः पक्षयोर्दोषं द्दष्ट्वा निमितातिदेशमाश्रित्याह-येन निमितेनेति। निमितस्य तुल्यत्वातद्द्वारकं यदात्मनेपदाविधेस्तुल्यत्वं तदाश्रीयते इत्यर्थः। पूर्वमिति। सनुत्पतेः प्राक् प्रयोगान्तर इत्यर्थः। पूर्वस्मादिति युक्तः पाठः, तथा च सनन्तादपीति सङ्गच्छते। यद्यपि प्रकृतिगतं ङ्त्वाइदिकं सनन्ते धातौ वचनशतेनापि प्रापयितुमशक्यम् निमितं भवतीत्यतिदेशार्थः, तावता च निमितातिदेशवाचोयुक्तिः। आसिसिषत इति । इटि कृते ठजादेर्द्वितीयस्यऽ इति सिशब्दस्य द्विर्वचनम्। निविविक्षत इति।ठ्हलन्ताच्चऽ इति सनः कित्वम्, व्रश्चादिषत्वम्, ठ्षढोः कः सिऽ। आचिक्रंसत इति । आङ् आत्मनेपदनिमितत्वात् ठ्स्नुक्रमोःऽ इतीड् नैव भवति। निमितातिदेशाश्रयणस्य फलमाह-इहेति। कारणमाह-न हीति । शिदाद्यपीति। शिद्भावित्वादिकमपीत्यर्थः। आदिशब्देन लुङ्लिङेर्ग्रहणम्, तच्चेह नास्ति। कृते सनि तदन्तमेव शिद्भावि, न शदिम्रियतिभ्यात्। शिशयिषत इत्यादौ तु कृतेऽपि सनि तदानीमपि ङ्त्वाइदिकं प्रकृतिगतं विद्यत इति भावः। यदि तर्हि निमितातिदेशः, अनुचिकीर्षतीत्यत्रापि प्रसङ्गः; गन्धनादेरर्थस्य ङ्त्विस्य चात्मनेपदनिमितस्य सन्यपि परस्मैपदे निमितत्वात्। कार्यातिदेशे तु न दोषः;ठनुपरभ्यां कृञःऽ इति परस्मेपदेनापवादेनात्मनेपदस्य बाधितत्वादत आह--यस्य चेति । न योग्यतामात्रेण निमितत्वम्, किं तर्हि? कुर्वद्रूपस्येति स्नुक्रमोरित्यत्र वक्ष्यत इति भावः। यदि कुर्वद्रूपं निमितम्, जुगुप्सत इत्यादौ कथम्, न ह्यत्र प्रकृतिगतमनुदातेत्वं तत्रात्मनेपदं कदाचिदपि करोति नित्यसनत्वाद् गुपादीनामत आह--इहेत्यादि। न वात्रानेनात्मनेपदम्, किं तर्हि? ठनुदातङ्तिःऽ इत्यनेनेत्यर्थः। कथं पुनः समुदायस्य जुगुप्सादेरनुदातेत्वमत आह--अवयव इति। अवयवे ह्यचारितार्थं लिङ्गं सामर्थ्यात्समुदायस्य विशेषकं भवति। यद्येवम्, गोपयति तेजयतीत्यदावपि प्रसङ्गः। अथ यं समुदायं योऽवयवो न व्यभिचरति, तत्र कृतं लिङ्गं तस्य विशेषकं भवति; णिजन्तं च व्यभिचरति, विनापि तेन जुगुप्सत इति गुपेः प्रयोगादित्युच्येत। वक्तव्यो वा विशेषः, अयमुच्यते-ठ्गुप गोपनेऽ इत्यस्य सन्विधौ ग्रहणम्, तस्माच्च नित्यं सनेव भवति, नापरः प्रत्ययः प्रत्ययः। गोपायतीत्यादिकस्तु प्रयोगः ठ्गुपू रक्षणेऽ इत्यस्य, स चान्य एव। अवश्यञ्चैतदेवं विज्ञेयम्-अन्य एव सन्प्रकृतिः तस्माच्च सनेव भवतीति; अन्यथा निन्दाया अन्यत्र यथा णिज् भवति तथा लङदिरपि स्यात्। एवं तिजिप्रभृतयोऽपि, क्षमाद्यर्थे यत्र सन्निष्यते तत्रानुदातेतो नित्यसनन्ताश्च; क्षमादिभ्योऽन्यत्र तु तत्र णिजिष्यते तत्राननुबन्धका एव चुरादौ पठितव्याः॥
सिद्धान्तकौमुदी
सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिषते । शिशयिषते । निविविक्षते । पूर्ववत्किम् । बुभूषति । शदेः (कौमुदी-2362) (कौमुदी-2528) इत्यादिसूत्रद्वये सनो नेत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनेह न । शिशत्सति । मुमूर्षति । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य (कौमुदी-2240) एधांचक्रे ।
पूर्ववत्सनः। पूर्वेणेव पूर्ववत्। `तेन तुल्यटमिति तृतीयान्तद्वतिः। पूर्वशब्देन सन्प्रकतिर्विवक्षिता। तदाह-- सनः पूर्व इत्यादि। एदिधिषते इति। सन्प्रकृतेरेधधातोरात्मनेपदित्वात्तत्प्रकृतिकसन्नन्तादात्मनेपदम्। `नेर्विशः` इत्यात्मनेपदविधानात्तत्प्रकृतकसन्नन्तादपि आत्मनेपदम्। ननु `शदेः शितः` `म्रियतेर्लुङ्लङोश्चे`त्यस्य ग्रहणम्। `शदे`रित्यादिसूत्रद्वये `पूर्ववत्सनः` इति, `नानोर्ज्ञः` इत्यतो नेति चानुवर्त्त्य शदेर्म्रियतेश्च सन्ननतान्नात्मनेपदमिति व्याख्येयमित्यर्थः। नन्वेवं सति शीयते म्रियते इत्यादावात्मनेपदं न लभ्येतेत्यत आह-- वाक्यभेदेनेति। `शदेः शितः` म्रियतेर्लुङ्लिङोश्चे`त्येकं वाक्यम्. शिद्भाविनः शदेरात्मनेपदं स्यात्, मृङो लुङ्लिङ्प्रकृतिभूतात्, शित्प्रकृतभूताच्चात्मनेपदं स्यान्नान्यत्रेत्यर्थः। तेन शीयते म्रियते ममारेत्यादि सिध्यति। `सनो ने`त्यपरं वाक्यम्। शदेः, म्रियतेश्च सन्नन्तान्नात्मनेपदमित्यपरम्। तेन शिशत्सति, मुमूर्षति इत्यादौ नात्मनेपदमित्यर्थः।
निविविक्षत इति। `नेर्विशः` इत्यात्मनेपदविधानात्सन्नन्तादपि आत्मनेपदम्। सनो नेत्यनुवर्त्त्येति। `नानोर्ज्ञः`, `पूर्ववत्सनः` इति सूत्राभ्या`मिति शेषः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
पूर्ववत्सनः किमिदं पूर्वग्रहणं सनपेक्षम् ‐ प्राक्सनो येभ्य आत्मनेपदमुक्तं तेभ्यः सन्नन्तेभ्योऽपि भवतीति। आहोस्विद्योगापेक्षम् ‐ प्रागेतस्माद्योगाद्येभ्यो योगेभ्य आत्मनेपदमुक्तं तेभ्यः सन्नन्तेभ्योऽपि भवतीति। किं चातः? यदि सनपेक्षम्, निमित्तमविशेषितं भवति। पूर्ववत्सनः न ज्ञायते ‐ किमन्ताद्भवितव्यमिति। अथ योगापेक्षमुत्तरत्र विधिर्न प्रकल्पेत ‐ बुभुक्षते उपयुयुक्षत इति। यथेच्छसि तथास्तु। अस्तु तावत्सनपेक्षम्। ननु चोक्तम् ‐ निमित्तमविशेषितं भवतीति। निमित्तं च विशेषितम्। कथम्? सनमेवात्र निमित्तत्वेनापेक्षिप्यामहे। पूर्ववत्सन आत्मनेपदं भवति। कुतः? सन इति। अथ वा पुनरस्तु योगापेक्षम्। ननु चोक्तम् ‐ उत्तरत्र विधिर्न प्रकल्पेतेति। विधिश्च प्रक्लृप्तः। कथम्? उत्तरत्रापि पूर्ववत्सनः इत्येवानुवर्तिष्यते। किमर्थं पुनरिदमुच्यते? पूर्ववत्सन इति शदिम्रियत्यर्थम् ।। 1 ।। शदिम्रियत्यर्थोऽयमारम्भः। शदिम्रियतिभ्यां सन्नन्ताभ्यात्मनेपदं मा भूदिति। इतरथा हि ताभ्यां सन्नन्ताभ्यामात्मनेपदप्रतिषेधः ।। 2 ।। इतरथा हि अनुच्यमानेऽस्मिन् शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदस्य प्रतिषधो वक्तव्यः स्यात्। शिशत्सति मुमूर्षति। कथं पुनः पूर्ववत्सनः इत्यनेन शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदस्य प्रतिषेधः शक्यो विज्ञातुम्? वतिनिर्देशोऽयम्। कामचारश्च वतिनिर्देशे वाक्यशेषं समर्थयितुम्। तद्यथा ‐ उशीनरवन्मद्रेषु यवाः सन्ति, न सन्तीति। मातृवदस्याः कलाः सन्ति, न सन्तीति। एवमिहापि पूर्ववद्भवति, न भवतीति। न भवतीत्येवं वाक्यशेषं समर्थयिष्यामहे ‐ यथा पूर्वयोर्योगयोः सन्नन्ताभ्यामात्मनेपदं न भवति, एवमिहापि शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदं न भवतीति। यदि तर्हि शदिम्रियत्यर्थोऽयमारम्भः, विधिर्न प्रकल्पते ‐ आसिसिषते। शिशयिषते। अथ विध्यर्थः, शदिम्रियतिभ्यां सन्नन्ताभ्यात्मनेपदं प्राप्नोति। यथेच्छसि तथास्तु। अस्तु तावत्प्रतिषेधार्थः। ननु चोक्तं विधिर्न प्रकल्पते इति । विधिश्च प्रक्लुप्तः । कथम् ? एतदेव ज्ञापयति ‐ सन्नन्तादात्मनेपदं भवतीति। यदयं शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदस्य प्रतिषेधं शास्ति। अथ वा पुनरस्तु विध्यर्थः। ननु चोक्तम् ‐ शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदं प्राप्नोति - इति। नैषः दोषः। प्रकृतं सनो न इत्यनुवर्तिष्यते। क्व प्रकृतम् ? ज्ञाश्रुस्मृदृशां सनः। नानोर्ज्ञः। सकर्मकात्सनो न भवति । प्रत्याङ्भ्यां श्रुवः सनो न । शदेः शितः सनो न । म्रियतेर्लुङ्लिङोश्च सनो नेति । इहेदानीं पूर्ववत्सनः इति, सन इत्यनुवर्तते, नेति निवृत्तम् । एवं च कृत्वा सोऽप्यदोषो भवति, यदुक्तम् ‐ निमित्तमविशेषितं भवतीति । नैव वा पुनरत्र शदिम्रियतिभ्यां सन्नन्ताभ्यामात्मनेपदं प्राप्नोति । किं कारणम् ? शदेः शितः इत्युच्यते। न च शदिरेवात्मनेपदस्य निमित्तम् । किं तर्हि ? शिदपि निमित्तम् । अथापि शदिरेव शित्परस्तु निमित्तम् । न चायं सन्परः शित्परो भवति । यत्र तर्हि शिन्नाश्रीयते म्रियतेर्लुङ्लिङोश्च इति। अत्रापि न म्रियतिरेवात्मनेपदस्य निमित्तम् । किं तर्हि ?। लुङ्लिङावपि निमित्तम्। अथापि म्रियतिरेव लुङ्लिङ्परस्तु निमित्तम् । न चायं सन्परः लुङ्लिङ्परो भवति। किं पुनः पूर्वस्य यदात्मनेपददर्शनं तत्सन्नन्तस्यातिदिश्यते ? एवं भवितुमर्हति । पूर्वस्यात्मनेपददर्शनात्सन्नन्तादात्मनेपदभाव इति चेद्गुपादिष्वप्रसिद्धिः ।। 3 ।। पूर्वस्यात्मनेपददर्शनात्सन्नन्तादात्मनेपदं भवतीति चेद् गुपादिष्वप्रसिद्धिः । गुपादीनां न प्राप्नोति जुगुप्सते मीमांसत इति । न ह्येतेभ्यः प्राक्सन आत्मनेपदं नापि परस्मैपदं पश्यामः । सिद्धं तु पूर्वस्य लिङ्गातिदेशात् ।। 4 ।। सिद्धमेतत् । कथम् ? पूर्वस्य यदात्मनेपदलिङ्गं तत्सन्नन्तस्याप्यतिदिश्यते । कृञादिषु तु लिङ्गप्रतिषेधः ।। 5 ।। कृञादिषु तु लिङ्गस्य प्रतिषेधो वक्तव्यः । अनुचिकीर्षति पराचिकीर्षतीति । अस्तु तर्हि ‐ प्राक्सनो येभ्य आत्मनेपदं दृष्टं तेभ्यः सन्नन्तेभ्योऽपि भवतीति। ननु चोक्तं पूर्वस्यात्मनेपददर्शनात्सन्नन्तादात्मनेपदभाव इति चेद्गुपादिष्वप्रसिद्धिः इति । नैषः दोषः । अनुबन्धकरणसार्मथ्याद् भविष्यति । अथवाऽवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति । तद्यथा ‐ गोः सक्थनि कर्णे वा कृतं लिङ्गं समुदायस्य विशेषकं भवति । यद्यवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति ‐ जुगुप्सयति मीमांसयतीत्यत्रापि प्राप्नोति । नैषः दोषः । अवयवे कृतं लिङ्गं कस्य समुदायस्य विशेषकं भवति। यं समुदायं योऽवयवो न व्यभिचरति । सनं च न व्यभिचरति, णिचं च पुर्नव्यभिचरति । तद्यथा ‐ गोः सक्थनि कर्णे वा कृतं लिङ्गं गोरेव विशेषकं भवति न गोमण्डलस्य। प्रत्ययग्रहणं णियगर्थम् ।। 6 ।। प्रत्ययग्रहणं कर्तव्यम् । पूर्ववत्प्रत्ययादिति वक्तव्यम् । किं प्रयोजनम् ? णियगर्थम् । णियगन्तादपि यथा स्यादिति । आकुस्मयते। विकुस्मयते। हृणीयते। महीयते इति। तत्र को दोषः? तत्र हेतुमण्णिचः प्रतिषेधः ।। 7 ।। तत्र हेतुमण्णिचः प्रतिषेधो वक्तव्यः। आसयति। शाययतीति । सूत्रं च भिद्यते । यथान्यासमेवास्तु । कथमाकुस्मयते विकुस्मयते हृणीयते महीयते इति ? अनुबन्धकरणसार्मथ्याद् भविष्यति । अथवा - अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति । तद्यथा ‐ गोः सक्थनि कर्णे वा कृतं लिङ्गं समुदायस्य विशेषकं भवति । यद्यवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति, हृणीययति महीययतीत्यत्रापि प्राप्नोति । अवयवे कृतं लिङ्गं कस्य समुदायस्य विशेषकं भवति। यं समुदायं योऽवयवो न व्यभिचरति । यकं च न व्यभिचरति, णिचं तु व्यभिचरति । तद्यथा ‐ गोः सक्थनि कर्णे वा कृतं लिङ्गं गोरेव विशेषकं भवति न गोमण्डलस्य ।। 62 ।।