॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|61
SK 2538
1|3|61
म्रियतेर्लुङ्‌लिङोश्च
SK 2538
सूत्रच्छेद:
म्रियते - पञ्चम्येकवचनम् , लुङ्‌लिङोः - सप्तमीद्विवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
म्र्ङ् प्राणत्यागे। ङित्त्वादात्मनेपदम् अत्र सिद्धम् एव। नियमार्थम् इदं वचनम्। म्रियतेर् लुङ्लिङोः शितश्चाऽत्मनेपदं भवति, अन्यत्र न भवति। अमृत। मृषीष्ट। शितः खल्वपि म्रियते, म्रियेते, म्रियन्ते। नियमः किमर्थः? मरिश्यति। अमरिस्यत्।
`नियमार्थमिदं वचनम्िति। म्रियतेर्लुङलिङोः शित एव यथा स्यात्। यद्येवम्, ङिद्ग्रहणं किमर्थम्? यावताऽन्यत्रात्मनेपदेन न भवितव्यमिति? उच्यते; स्वरार्थमुपदिश्यते-- मा हि मृतेति लुङि `तास्यनुदात्तेन्ङिदुपदेशाल्ल सार्वधातुकस्य` 6|1|180 इति अनुदात्तत्वे कृते धातोरन्तोदात्तत्वं भवति। `तिङङतिङः` 8|1|28 इति निघातोऽत्र `हि च` 8|1|34 इति प्रतिषिध्यते। अडागमोऽपि `न माङयोगे` 6|4|74 इति। `अमृत` इति। `ह्यस्वाद्ङात्` 8|2|27 इति सिचो लोपः। `मृषीष्ट` इति। आशिषि लिङ, तस्य `लिङाशिषि` 3|4|116 इत्याद्र्धधातुकत्वाद्विकरणाभावः; `सुट् तिथोः` 6|4|107 इति सुट्; वलि 6|1|64 यलोपः। `म्रियते`इति। तुदादित्वाच्छः; `रिङ शयग्लिङक्षु` 7|4|28 इति रिङादेशः, `अचि श्नुधातु` 6|4|77 इत्यादिनेयङ। `मरिष्यति`इति। `ऋद्धनोः स्ये` 7|2|70 इतीट्॥
लुङ्लिङेः इति स्थानषष्ठीयम्, विषयसप्तमी वा। नियमार्थमिति। यदि नियमः क्रियते, ङ्त्किरणं किमर्थम्, यावताऽप्राप्ते विधिरवास्तु? इह मा हि मृतेति लुङ् ठ्तास्यिनुदातेत्ऽ इति ङ्ल्लिक्षणः सार्वधातुकनिघातो यथा स्यात्। तिङ्निघातोऽत्र ठ्हि चऽ इति प्रतिषिद्धः॥
सिद्धान्तकौमुदी
लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र । ङित्त्वं स्वरार्थम् । म्रियते । ममार । ममर्थ । मम्रिव । मर्तासि । मरिष्यति । मृषीष्ट । अमृत ॥ अथ परस्मैपदिनः सप्त ॥ 1405 रि 1406 पि गतौ । अन्तरङ्गत्वादियङ् । रियति । पियति । रेता । पेता । 1407 धि धारणे 1408 क्षि निवासगत्योः 1409 षू प्रेरणे । सुवति । सविता । 1410 कॄ विक्षेपे । किरति । किरतः । चकार । चकरतुः । करिता । करीता । कीर्यात । अकारीत् ॥
म्रियतेः। अनुदात्तहितः` इत्यत आत्मनेपदमित्यनुवर्तते। चकारेण `शदेः शितः` इत्यतः शित इत्यनुकृष्यते। प्रकृतिभूतादित्यध्याहार्यम्। तदाह - लुङ्?लिङोरिति। तङ् स्यादिति। आत्मनेपदं स्यादित्यर्थः, `म्रियमाण` इत्यत्र आनस्यापि इष्टत्वात्। ननु हित्त्वादेव सिद्धे किमर्थमिदमित्याशङ्क्य नियमार्थमित्याह - नान्यत्रेति। तर्हि ङित्त्वं व्यर्थमित्यत आह -- ङित्त्वं स्वरार्थमिति। `तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्त`मित्येतदर्तमित्यर्थ-। म्रियते इति। शे कृते रिङियङाविति भावः। ऋदन्तत्वाद्भारद्वाजमतेऽपि नेडित्याह -- ममर्थेति। मम्रिवेति। क्रादिनियमादिट्। मर्ता। `ऋद्धनोः स्ये` इति इटं मत्वाह - मरिष्यतीति। रि पि गताविति। द्वाविमावनिटौ। ननु शे कृते तिपमाश्रित्य इकारस्य परत्वाल्लघूपधगुणः स्यादित्य आह- अन्तरह्गत्वादियङिति। कृ? विक्षेपे इति। दीर्घानतोऽयं , सेट्। किरतीति। `ऋत इद्धातो`रितीत्त्वं। रपत्वम्। चकरतुरिति। कित्त्वेऽपि `ऋच्छत्यृ?ता`मिति गुण इति भावः। `वृ?तो वे`ति मत्वाह - करिता करीतेति।
म्रियतेर्लुङ्?लिङोश्च। चात् `शित` इति अनुकृष्यते। तदाह-- शितश्च प्रकृतिभूतादिति।तङिति। आत्मनेपदमित्यर्थः। तेन `म्रियमाण` इति सिद्धम्। स्वरार्थमिति। ` मा हि मृते` त्यत्र `तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्त`मित्यनेन ङितः परस्य लादेशसार्वधातुकस्यानुदात्तत्वे कृते धातुरुदात्तः। ङित्त्वाऽभावे तु प्रत्ययस्योदात्तत्वे धातुरनुदात्तः स्यात्। न च सिज्लोपस्याऽसिद्धत्वान्ङितः परत्वं लसार्वधातुकस्य दुरुपपादमिति तस्य कथमनुदात्तता स्यादिति शङ्क्यम्, ङित्त्वसामर्थ्यात्सिज्लोस्याऽसिद्धत्वं नेति सुवचत्वात्। `अमृते`त्यत्राडागमस्यैवोदात्तत्वान्मृङो ङित्त्वस्य न किंचित्प्रयोजनमिति अण्निवारणाय `मा हि मृते` ति माङः प्रयोगः। `तिङ्ङतिङः` इति तिङन्तनिघातेऽपि ङित्त्वं व्यर्थमेव स्यादिति `हि` शब्दप्रयोगः। हि प्रयोगे तु `हि चे`त्यनेन तिङन्तनिघातनिषेधादिष्टस्वरः सिध्यतीति बोध्यम्। रि पि गतौ। परत्वाल्लघूपधगुणः स्यादित्याशङ्कायामाह--अन्तरङ्गत्वादिति।
लघुसिद्धान्तकौमुदी
लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र। रिङ्। इयङ्। म्रियते। ममार। मर्ता। मरिष्यति। मृषीष्ट। अमृत॥ पृङ् व्यायामे॥ 43॥ प्रायेणायं व्याङ्पूर्वः। व्याप्रियते। व्यापप्रे। व्यापप्राते। व्यापरिष्यते। व्यापृत। व्यापृषाताम्॥ जुषी प्रीतिसेवनयोः॥ 44॥ जुषते। जुजुषे॥ ओविजी भयचलनयोः॥ 45॥ प्रायेणायमुत्पूर्वः। उद्विजते॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!