Page loading... Please wait.
1|3|6 - षः प्रत्ययस्य
॥ तस्मै पाणिनये नमः ॥
1|3|6
SK 474
षः प्रत्ययस्य   🔊
सूत्रच्छेदः
षः (प्रथमैकवचनम्) , प्रत्ययस्य (षष्ठ्येकवचनम्)
अनुवृत्तिः
इत्  1|3|2 (प्रथमैकवचनम्) , उपदेशे  1|3|2 (सप्तम्येकवचनम्) , आदिः  1|3|5 (प्रथमैकवचनम्)
अधिकारः
-
सम्पूर्णसूत्रम्
उपदेशे प्रत्ययस्य आदिः षः इत्
सूत्रार्थः
उपदेशे प्रत्ययस्य आद्यस्थः षकारः इत्संज्ञकः भवति ।
उपदेशः नाम किम्? "उपदेशः आद्योच्चारणम्" । इत्युक्ते, आदिऋषिभिः (पाणिनि-कात्यायन-पतञ्जलिभिः) यस्य उच्चारणं कृतम् सः उपदेशः । आदिऋषिभिः कस्य कस्य उच्चारणं कृतम्? प्रत्याहाराणाम्, प्रत्ययानाम्, आदेशानाम्, आगमानाम्, धातूनाम् । अतः एते सर्वे, यथा ऋषिभिः मूलरूपेण उच्चारिताः, तस्याम् स्थितौ उपदेशसंज्ञकाः भवन्ति । (अस्मिन् विषये विस्तारेण उपदेशेऽजनुनासिक इत् 1|3|2 अस्य सूत्रस्य विवरणे उक्तम् अस्ति ।)

उपदेशस्थितौ प्रत्ययस्य प्रथमः वर्णः यदि "ष्" अस्ति, तर्हि तस्य अनेन सूत्रेण इत्संज्ञा भवति । यथा - ष्यङ् , ष्वुन्, ष्फक् - एतेषु प्रत्ययेषु षकारस्य इत्संज्ञा भवति ।
One-line meaning in English
The letter ष् at the beginning of the औपदेशिक form of a प्रत्यय is called "इत्" ।
काशिकावृत्तिः
षकारः प्रत्ययसय आदिः इत्संज्ञः भवति। शिल्पिनि ष्वुन् 3|1|145 नर्तकी, रजकी। प्रत्ययस्य इति किम्? षोडः, षण्डः, षडिकः। आदिः इत्येव अविमह्योष्टिषच् अविषः, महिषः।
`रजकी` इति। षित्त्वात् `षिद्गौरादिभ्यश्च` 4|1|49 इति ङीष्। अथ केनात्रानुनासकिलोपः? `अनिदिताम्` 6|4|24 इति चेत्? न; तत्र क्ङितीत्युच्यते,न चात्र क्ङित्प्रत्ययोऽस्ति, नैष दोषः; `जनीजृष्क्नसुरञ्जौ।ञमन्ताश्च` (ग।सू।धातुपाठः-817) #इतिमित्संज्ञाकरणं रञ्जेज्र्ञापकम्- अक्ङित्यपि तस्यानुनासिकलोपो भवति, अन्यथा णौ रञ्जेरकारस्यानुपधत्वात् `अत उपधायाः` 7|2|116 इति वृद्ध्या न भवितव्यमिति मित्संज्ञाकरणमनर्थकं स्यातदित्येके।`घञि च भावकरणयोः` 6|4|27 इत्यत्र चकार्सयानुक्तसमुच्चयार्थत्वादक्ङित्यपि क्कचिद्रञ्जेरनुनासकिलोपो भवतीत्यपरे।`षोडः` इति। षड् दन्ता अस्येति बहुव्रीहिः; `वयसि दन्तस्य दतृ` 5|4|141 इति दत्रादेशः, ऋकार उगित्कार्यार्थः; `षष उत्वं दतृदशधासूत्त्रपदादेः ष्टुत्वञ्च` (वा।765) पृषोदरादिपाठात् षषोऽन्त्यस्योत्वम्, `आद्गुणः` 6|1|84 , उत्तरपदादिष्टुतवमिति दकारस्य डकारः। षोडत् इति स्थिते षोडन्तमाचष्ट इति `तत्करोति तदादष्टे` (वा।200,201) इति णिच्, `णाविष्ठवत् कार्यम् प्रातिपदिकस्य` (वा।813) इतीष्ठवद्बावाट्टिलोपः-- षोडयतीति, ततः पचाद्यच्, णिलोपः।`षण्डः` इति। `षणु दाने` (धातुपाठः-1464)। `ञमन्ताड्डः` (द।उ।5।7), `उणादयो बहुलम्` 3|3|1 इति बहुलवचनात् `धात्वादेः षः सः` 6|1|62 इति सत्वं न भवति। अथ वा-- `षण्ड` इत्येतदव्युत्पनन्नं प्रातिपदिकमिति।`षडिकः` इति। षडङगुलिदत्तशब्दात् अनुकम्पायाम् `बह्वचोऽमनुष्यनाम्नष्ठज्वा` 5|3|78 इति ठच्। `ठाजादापूध्र्वं द्वितीयादयः` 5|3|83 इति ङगुलिदत्तस्य लोपः; `ठस्येकः` 7|3|50 इतीकादेशः। षडशब्द्सय `यस्येति च` 6|4|148 इत्यकारलोपः, तस्य स्थानिवद्भावे सति व्यवधानात् षट्शब्दस्य `यचि भम्` 1|4|18 इति भसंज्ञा न भवति। अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वात् `झलां जशोऽन्ते` 8|2|39 इति जश्त्वम् = षकारस्य डकारः। यद्येषां षकारस्येत्संज्ञा स्यात्, स्त्रीविवक्षायां `षिद्गौरादिभ्यश्च` 4|1|41 इति ङीष् स्यात्। षण्डशब्दोऽयं यद्यपि बलीवर्दे वत्र्तते, तथापि स्त्रीगवीष्पपि षण्डधर्मयोगाद्वृत्तिरस्य सम्भवत्येव। यद्यप्येते षोडादयो लाक्षणिकाः, तथाप्युदेशग्रहणेन षकारो विशिष्यत इति भवन्त्येतानि प्रत्ययग्रहणस्य प्रत्यदाहरणानि। भवति ह्रत्राप्युदेशे षकारः।`अविषः, महिषः` इति। `अव रक्षणे` (धातुपाठः-600) `मह पूजायाम्` (धातुपाठः-1867), `अविमह्रोष्टिषच्` (द।उ।9।3।) ननु च`उणादयो बहुलम्` 3|3|1 इति बहुलवचनात् प्रत्ययसंज्ञैवात्र न भवति, सत्यामपि तस्यामित्संज्ञा न भविष्यति, बहुलवचनात्, तत् कस्मादादिग्रहणमेतदनुवत्र्तत#ए? एवं मन्यते-- उत्तरार्थमवश्यमादिग्रहणमनुवत्र्तमानमिहापि स्पष्टार्थं भविष्यति।
रजकीति। ठ्षिद्गौरादिभ्यश्चऽ इति ङीष्। कथं पुनरत्रोपधालोपः, यावता अनिदितां हल उपधायाः क्ङिति इत्युच्यते? ज्ञापयतिरञ्जेरक्ङित्यपि क्वचिदुपधालोपो भवतीति । षोड इति। षड् दन्ता अस्य वयसि दन्तस्य दतृ षष उत्वम्, दतृदशधासूतरपदादेः ष्टुअत्वम् । षषोऽन्त्यस्योत्वम् उतरपदादेर्डकारः, षोडन्तमाचष्टे इति णिचि टिलोपे पचाद्यचि णिलोपः। ठ्षणु दानेऽठ्ञमन्ताड्डःऽ, उणादयो बहुलम् इति बहुलवचनात् इत्संज्ञासत्वयोरभावः। षडिक इति। अनुकम्पितः षड्ङ्गुलिः बह्वचो मनुष्यनाम्नष्ठज् वा ठ्ठाजादावूर्द्धं द्वितीयादचःऽ इति ङ्गुलिशब्दस्य लोपः, यस्येतिलोपस्य स्थानिवद्भावात् षकारान्तेऽवधौ भसंज्ञाया अभावादन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाज्जश्त्वम्। अत्रेत्संज्ञायां ङीष्प्रसङ्गः। यद्यप्येते समुदाया न क्वाप्युपदिश्यन्ते, षकारस्तु षष उत्वम्, षणु दाने इत्युपदेशस्थो भवति। अविषः महिष इति। अविमह्यएष्टिषच् । नन्वत्र प्रयोजनाभावादेव षकारस्येत्संज्ञा न भविष्यति; ईकारस्य टित्वादेव सिद्धेः। न च पक्षे ङीषर्थः षकारः, ङीपोषऽपि चितः परस्योदातनिवृत्तिस्वरेणोदातत्वात्, सत्यम्; अन्यतरस्यैव श्रवणार्थ उपदेशः स्यादिति टकारस्यापि शङ्क्योत॥
सिद्धान्तकौमुदी
प्रत्ययस्यादिः ष इत्स्यात् ॥
षः प्रत्ययस्य - षऋ प्रत्ययस्य । "आदिर्ञिटुडवः" इत्यत आदिरित्यनुवर्तते ।उपदेशेऽजनुनासिक इ॑दित्यत इदिति च । तदाह — प्रत्ययस्यादिरिति । षकारस्य इत्संज्ञायां तस्य लोपः ।
षः प्रत्ययस्य - षः प्रत्ययस्य ।आदिर्ञिटुडवः॑इत्यतआदि॑रित्यनुवर्तत इत्यभिप्रकेत्याह — -प्रत्ययस्यादिरिति । प्रत्ययस्य किम् षोडश.॒षष उत्व॑मित्यत्र उपदेशस्थोऽयं षकारस्येत्संज्ञा न भविष्यति, टित्वादेवाऽविषी महिषीति रूपसिद्धेः । न च पक्षे ङीष्यन्तोदात्तः प्रयोजनमिति वाच्यम्,अनुदात्तस्य च यत्रोदात्तलोपः॑इत्युदात्तनिवृत्तिस्वरेण टितः परस्य ङीपोऽप्युदात्तत्वात् । अत्राहुः — -विनिगमनाऽभावेव पक्षे टकारस्याऽपि श्रवणं स्यात् । तथा च षित्त्वान्ङीषिअविषी॑त्यादिरुपसिद्धिः स्यात् । अतः षकारस्यैव श्रवणं भवतु मा कदाचिट्टकारस्य श्रवणं भूदित्येतदर्थमादिग्रहणानुवृत्तिरिति ।
लघुसिद्धान्तकौमुदी
प्रत्ययस्यादिः ष इत्संज्ञः स्यात्। जल्पाकः। भिक्षाकः। कुट्टाकः। लुण्टाकः। वराकः। वराकी॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.