॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|56
SK 2729
1|3|56
उपाद्यमः स्वकरणे
SK 2729
सूत्रच्छेद:
उपात् - पञ्चम्येकवचनम् , यमः - पञ्चम्येकवचनम् , स्वकरणे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
शेषात् कर्तरि परस्मैपदे प्राप्ते उपपूर्वात् यमः स्वकरणे वर्तमानादात्मनेपदं भवति। पाणिग्रहणविशिष्टम् इह स्वकरनम् गृह्यते, न स्वकरणमात्रम्। भार्याम् उपयच्छते। स्वकरणे इति किम्? देवदत्तो यज्ञदत्तस्य भार्याम् उपयच्छति।
यदि स्वकरणमात्र आत्मनेपदं भवति शाकटकादिस्वीकारेऽपि स्यादिति चोद्यमपाकर्त्तुमाह-- `पाणिग्रहणम्` इत्यादि। एवं मन्यते-- प्रतिनियतविषया हि शब्दशक्तयो भवन्ति, यस्मादुपपूर्वो यमिरात्मनेपदान्त एवंविध एव स्वीकारे वर्तते; न तु सर्वस्मिन्। तस्मात् पाणिग्रहणात्मकमेव स्वीकरणं गृह्रते। उपयच्छत इति पूर्ववद्यच्छादेशः॥
इह स्वस्य सतो रूपान्तरेण यत्करणं तत्स्वकरणमिति न गृह्यते, किं तर्हि? यदाऽस्वं स्वं करोति तदा भवितव्यम्, च्विप्रत्ययस्तु विकल्पितत्वान्न भवति। पाणिग्रहणविशिष्टमिति। पाणिग्रहणं नाम कश्चित्कन्यासंस्कारस्तद्विशिष्टमित्यर्थः। भाष्ये तु-अस्वस्य सतः स्वत्वापादनमेव स्वकरणमित्युक्तम्। भट्टिकाव्येऽपि तदनुगुणः प्रयोगः- उपायंस्त महास्त्राणि, उपायंसत नासतम्, नोपायंस्त दशानन इति। देवदतो यज्ञदतस्य भार्यामुपयच्छति, यज्ञदतसम्बन्धिनीं भार्यां दास्यादिरूपेण स्वीकरोतीत्यर्थः। पाणिग्रहणाभावाद् वृत्तिकारमते युक्तं प्रत्युदाहरण्, भाष्यकारमते त्वत्रापि भवितव्यम्॥
सिद्धान्तकौमुदी
स्वकरणं स्वीकारः । भार्यामुपयच्छते ।
उपाद्यमः। `आत्मनेपद`मिति शेषः। ननु `स्वं वरुआमुत्पादयती`त्यर्थे `वस्त्रमुपयच्छती`त्यत्राप्यात्मनेपदं स्यादित्यत आह--स्वकरणं स्वीकार इति। अस्वस्य सतः स्वत्वेन परिग्रहः स्वकरणशब्देन विवक्षित इत्यर्थः। च्विप्रत्ययस्तु वैकल्पिकः, `समर्थानां प्रथमाद्वे`त्युक्तेरिति भाष्ये स्पष्टम्।
स्वकरणं स्वीकार इति। स्वकरणमित्यत्र च्विर्न भवति, `समर्थानां प्रथमाद्वे`ति विकल्पात्। स्वकरणशब्देन भार्यास्वीकारो गृह्यते इति वृत्तिकृत्। भट्टिस्तु स्वीकारमात्रेऽपि प्रायुङ्क्त `उपायंस्त महाऽस्त्राणी`ति।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
उपाद्यमः स्वकरणे इह कस्मान्न भवति। स्वं शाटकान्तमुपयच्छति - इति? अस्वं यदा स्वं करोति तदा भवितव्यम्। यद्येवं स्वीकरणमिति प्राप्नोति। विचित्रास्तद्धितवृत्तयः। नातस्तद्धित उत्पद्यते ।। 56 ।।