Page loading... Please wait.
1|3|54 - समस्तृतीयायुक्तात्
॥ तस्मै पाणिनये नमः ॥
1|3|54
SK 2727
समस्तृतीयायुक्तात्   🔊
सूत्रच्छेदः
समः (पञ्चम्येकवचनम्) , तृतीयायुक्तात् (पञ्चम्येकवचनम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
सम्पूर्वाच् चरतेस् तृतीयायुक्तादात्मनेपदं भवति। तृतीया इति तृतीयाविभक्तिर् गृह्यते, तया चरतेरर्थद्वारको योगः। अश्वेन सञ्चरते। तृतीयायुक्तातिति किम्? उभौ लोकौ सञ्चरसि इमं च अमुं च देवल। यद्यप्यत्र तदर्थयोगः सम्भवति, तृतीया तु न श्रूयते, इति प्रत्युदाहरणं भवति।
यद्यत्र तृतीयेति गृह्रते, तदेहापि स्यात्-- उभौ लोकौ सञ्चरति इमाञ्चामुत्र देवलेति। अत्रापि तृतीयार्थो गम्यत एव। तपसा श्रुतेन वा विद्यत एवेत्येतच्चेतसि कृत्वाह-- `तृतीया` इति। ` तृतीयाविभक्तिर्गृह्रते` इति। यद्येवं तया सह धातोः सम्बन्धो नोपपद्यते। न हि तृतीय धातुवाच्येत्याह-- `तया` इत्यादि। अर्थो द्वारं मुखमुपायो यस्य स तथोक्तः। तृतीयार्थेन धात्वर्थस्य युक्तवादौपचारिको धातोस्तृतीयीर्थेन योग इति दर्शयति। `यत्रप्यत्र तदर्थेन योगः सम्भवति` इति। विना करणेन क्रियानिष्पत्तेरभावात्, तथापि न भवति। `तृतीय तु` इत्यादि। तृतीयायपुक्तग्रहणं ह्रेवमर्थं क्रियते-- श्रूयमाणतृतीययुक्ताद्यथा स्यादिति, अन्यथा सम इत्येवं वक्तव्यं स्यात्? अनुक्तेऽपि सिद्ध्वतात् तृतीयाप्रयोगस्य। न हि तेन विना क्रियानिष्पत्तिरुपपद्यते। तस्माद्यत्र तृतीया श्रूयते तन्मूलोदाहरणम्, यत्र तु न श्रूयते तत्प्रत्युदाहरणम्॥
विभक्तिर्गृ ह्यते इति । तत्रैव तृतीयाशब्दस्य मुख्यत्वात् । यद्येवम्, तया सह धातोः सम्बन्धो न भवति; न हि तृतीया धातुवाच्या, नापि धातुस्तृतीयान्त इत्यत आह-तयेत्यादि। तृतीयार्थेन धात्वर्थस्य योगादौपचारिको धातोस्तृतीयायोग इत्यर्थः। यद्यप्यत्रेति। न हि चेष्टारूपसञ्चरणमन्तरेम करणं सम्भवति, अतोऽश्रुतेऽपि करणपदे तपसा श्रुतेन वेति गम्यमानत्वातदर्थयोगस्य सम्भवः। तृतीया त्विति। एतदर्थमेव हि पूर्वमुक्तम्--विभक्तिर्गृ ह्यत इति। तृतीयायुक्तादिति वाऽनर्थकं स्तात्। यदि तदर्थयोगः स्यात्, सर्वत्रैवं तदर्थभावादिति भावः॥
सिद्धान्तकौमुदी
रथेन संचरते ।
समस्तृतीयायुक्तात् - समस्तृतीया । सकर्मकादिति निवृत्तम् । संपूर्वात्तृतीयान्तसमभिव्याह्मताच्चरेरात्मनेपदमित्यर्थः । तृतीयायुक्तादिति किम् । रथिकाः संचरन्ति । अत्र यद्यपि रथेनेत्यर्थाद्गम्यते, तथापि तृतीयान्तश्रवणाऽभावान्नात्मनेपदम् । एतदर्थमेव योगग्रहणम् । अन्यथातृतीयये॑त्येवावक्ष्यत् । सकर्मकादप्येतदात्मनेपदं भवति, अविशेषात्, अत एव॒तृतीयायुक्तादिति किम् । उभौ लोकौ संचरसीभं चामुं च लोक॑मिति भाष्यं सङ्गच्छते ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
रथेन सञ्चरते॥
महाभाष्यम्
समस्तृतीयायुक्तात् तृतीयायुक्तादिति किमर्थम्? उभौ लोकौ संचरसीमं चामुं च देवल। तृतीयायुक्तादित्युच्यमानेऽप्यत्र प्राप्नोति। अत्रापि हि तृतीयया योग इति। एवं तर्हि तृतीयायुक्तादित्युच्यते। सर्वत्र च तृतीयया योगः। तत्र प्रकर्षगतिर्विज्ञास्यते ‐ साधीयो यत्र तृतीया योग इति। क्व च साधीयः? यत्र तृतीया श्रूयते ।। 54 ।।