Page loading... Please wait.
1|3|49 - अनोरकर्मकात्
॥ तस्मै पाणिनये नम: ॥
1|3|49
SK 2722
अनोरकर्मकात्  
सूत्रच्छेद:
अनोः - पञ्चम्येकवचनम् , अकर्मकात् - पञ्चम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
वदः इति, व्यक्तवाचाम् इति च वर्तते। अनुपूर्वाद् वदतेरकर्मकाद् व्यक्तवाग्विषयादात्मनेपदं भवति। अनुवदते कठः कलापस्य। अनुवदते मौद्गः पैप्पलादस्य। अनुः सादृश्ये। यथा कलापो ऽधीयानो वदति तथा कठः इत्यर्थः। अकर्मकातिति किम्? पूर्वम् एव यजुरुदितम् अनुवदति। व्यक्तवाचम् इत्येव। अनुवदति वीणा।
`अनुवदति` इति। अनुशब्दः पुनरित्यस्यार्थे वत्र्तते। पुनर्वदतीत्यर्थः। यजुषात्र कर्मणा सकर्मकत्वम्।
व्यक्तवाचामिति वर्तत इति। न तु समुच्चारण इति सर्वानुवृतौ वचनमिदमनर्थकं स्यादिति भावः। तद्व्यक्तवाक्सम्बन्धिनो वदेरिति सूत्रार्थमाह--व्यक्तवाग्विषयादिदि। अनुः साद्दश्ये इति। तेन कलापस्येति तुल्यार्थयोगे शेषलक्षणा षष्ठीति भावः। यथेत्यादि। वदनमात्रसाद्दश्ये तात्पर्यमिति कर्म न विवक्षितमिति भावः। अनुवदति। पुनर्वदतीत्यर्थः॥
सिद्धान्तकौमुदी
व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । अकर्मकात्किम् । उक्तमनुवदति । व्यक्तावाचां किम् । अनुवदति । वीणा ।
अनोरकर्मकात् - अनोरकर्मकात् ।व्यक्तावाचा॑मित्यनुवृत्तं विषयषष्ठन्तमाश्रीयते । समुच्चारणे इति निवृत्तम् । तदाह — व्यक्तवाग्विषयादिति । मनुष्यकर्तृकादित्यर्थः । अनुवदते इति । अनुः सादृश्ये ।तुल्यार्थैरतुलोपमाभ्या॑मिति षष्ठी । कठः कलापेन तुल्यं वदतीत्यर्थः । वस्तुतस्तु शेषषष्ठीत्येवोचितम् ।तुल्यार्थै॑रित्यत्रअतुलोपमाभ्या॑मिति पर्युदासेनाऽनव्ययानामेव तुल्यार्थानां ग्रहणात् । अन्यथाच्नद्र इव मुख॑मित्यादावपि तृतीयाषष्ठओरापत्तेरित्यलम् ।
अनोरकर्मकात् - अनुवदते कठ इति । अनुः सादृश्ये । तेन कलापस्येति तुल्यार्थयोगे शेषलक्षणा षष्ठी ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!