Page loading... Please wait.
1|3|45 - अकर्मकाच्च
॥ तस्मै पाणिनये नमः ॥
1|3|45
SK 2718
अकर्मकाच्च   🔊
सूत्रच्छेदः
अकर्मकात् (पञ्चम्येकवचनम्) , च (अव्ययम्)
अनुवृत्तिः
-
अधिकारः
-
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
अकर्त्रभिप्रायार्थम् इदम्। कर्त्रभिप्राये हि अनुपसर्गाज् ज्ञः 1|3|76 इति वक्ष्यति। जानातेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति। सर्पिशो जानीते। मधुनो जानीते। कथं च अयम् अकर्मकः? न अत्र सर्पिरादि ज्ञेयत्वेन विवक्षितम्। किं तर्हि? ज्ञानपूर्विकायां प्रवृत्तौ करणत्वेन। तथा च ज्ञो ऽविदर्थस्य करणे 2|3|51 इति षष्ठी विधीयते सर्पिषो जानीते, मधुनो जानीते। सर्पिशा उपायेन प्रवर्तते इत्यर्थः। अकर्मकातिति किम्? स्वरेण पुत्रं जानाति।
`कथञ्चायमकर्मकः` इति। एवं मन्यते-- सर्पिरादि ज्ञेयत्वेन विवक्षितं कर्म, अतस्तेन कर्मणा सकर्मक एवायमित्यभिप्रायः। `कथम्` इति। न कथञ्चिदित्यर्थः। तथा चेत्यादिना `नात्र सर्पिरादि कर्मत्वेन, अपि तु करणत्वेन विवक्षितम् इत्यत्र युक्तिमाह-- `सर्पिषोपायेन` इत्यादि। यस्य सर्पिःष्वभिष्वङगो विना तेन भुजिक्रियायामभिलाषो न भवति तस्य भोजने प्रवृतिंत प्रति सर्पिरुपायभावं प्रतिपद्यत इति तेनोपायेन स प्रवर्तत इति। `अकर्मकादिति किम्` इति। `नात्र सर्पिरादि ज्ञेयत्वेन विवक्षितम्। किं तर्हि? करणत्वेन` इति ब्राउवता वृत्तिकृता साक्षाच्छब्दोपात्तेन करणेन सकरणादात्मनेपदं भवतीत्युक्तं भवति। एवञ्च सकरणादित्येवं वाच्यम्, किमकर्मकग्रहणेनेति भावः। एवमुच्यमाने करणयुक्तात् सकर्मकादपि स्यादिति दर्शयितुमाह--- `स्वरेण पुत्रं जानाति` इति॥
अकर्त्रमिप्रायार्तमिदमिति। अथ कर्त्रभिप्राये कथम्, तत्राह-कर्त्रभिप्रायो हीति। ननु सोपसर्गात्कर्त्रभिप्रायेऽप्यनेनैवात्मनेपदमेषितव्यम्--औषधस्यानुजानीते, औषधस्यानुजिज्ञासत इति; तस्मात्सर्पिषो जानीते इत्युदाहरणाभिप्रायमेतद्वेतव्यम्। कथं चायमकर्मक इति। ठ्सर्पिषःऽ इति कर्मणि शेषत्वेन षष्ठी, न माषाणामश्नीयादितिवत्। तेन सर्पिरादिना ज्ञेयेन सकर्मक इति मत्वा प्रश्नः। अकर्मकादिति किमिति। यदि सर्पिरादि करणत्वेन विविक्षितम्, तर्हि करणादिति वक्तव्यमित्यभिप्रायः। एवमुच्यमाने सकर्मकादपि स्यादेवेति दर्शयतिस्वरेणेति॥
सिद्धान्तकौमुदी
सर्पिषो जानीते । सर्पिषो उपायेन प्रवर्तते इत्यर्थः ।
अकर्मकाच्च - अकर्मकाच्च ।ज्ञ आत्मनेपदटमिति शेषः । सर्पिषो जानीते इति । अत्र ज्ञाधातुः प्रवृत्तौ वर्तते ।ज्ञोऽविदर्थस्य करणे॑ इति तृतीयार्थे षष्ठी । तदाह — सर्पिषोपायेन प्रवर्तते इति । "अनुपसर्गाज्ज्ञः" इति वक्ष्यमाणेनैव सिद्धे सोपसर्गार्थमिदम् । सर्पिषोऽनुजानीते ।
अकर्मकाच्च - अकर्मकाच्च ।अनुपसर्गाज्ज्ञः॑ इत्यनेनैव सिद्धेसर्पिषोऽनुजानीते॑ इत्यादिसोपसर्गार्थमिदं सूत्रम् ।
लघुसिद्धान्तकौमुदी
सर्पिषो जानीते। सर्पिषोपायेन प्रवर्तत इत्यर्थः॥
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.