Page loading... Please wait.
1|3|43 - अनुपसर्गाद्वा
॥ तस्मै पाणिनये नमः ॥
1|3|43
SK 2716
अनुपसर्गाद्वा   🔊
सूत्रच्छेदः
अनुपसर्गात् (पञ्चम्येकवचनम्) , वा (अव्ययम्)
अनुवृत्तिः
आत्मनेपदम्  1|3|12 (प्रथमैकवचनम्) , क्रमः  1|3|38 (पञ्चम्येकवचनम्)
अधिकारः
-
सम्पूर्णसूत्रम्
अनुपसर्गात् क्रमः वा आत्मनेपदम्
सूत्रार्थः
उपसर्गरहितात् "क्रम्" धातोः विकल्पेन आत्मनेपदस्य प्रत्ययाः भवन्ति ।
Additional description will be added soon.
One-line meaning in English
When the verb क्रम् is used without any उपसर्ग, it optionally gets the प्रत्ययाः of आत्मनेपद.
काशिकावृत्तिः
क्रमः इति वर्तते। अप्राप्तविभाषेयम्। उपसर्गवियुक्तात् क्रमतेरात्मनेपदं वा भवति। क्रमते। क्रामति। अनुपसर्गातिति किम्? सङ्क्रामति।
`अप्राप्तविभाषेयम्` इति। वृत्यादीनां निवृत्त्वात्।
अप्राप्तविभाषेयमिति। ठुपपराभ्याम्ऽ इत्यस्य नियमार्थत्वाद् वृत्यादिसूत्रमनुपसर्गविषयमेवेति न तत्रायं विकल्प इति भावः॥
सिद्धान्तकौमुदी
क्रामति । क्रमते । अप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव ॥
अनुपसर्गाद्वा - अनुपसर्गाद्वा ।कर्म आत्मनेपद॑मिति शेषः । अप्राप्तविभाषेयमिति । अनुपसर्गात् क्रमेरात्मनेपदस्य कदाप्यप्राप्तेरिति भावः । वृत्त्यादाविति । वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधान्नित्यमेवेत्यर्थः ।
अनुपसर्गाद्वा - वृत्त्यादौ त्विति । न च वृत्त्यादिसूत्रं सोपसर्गे चरितार्थमित्यनुपसर्गात्क्रमेर्वृत्त्याद्यर्थेऽपि विभाषैवाऽस्त्विति वाच्यम्,उपपराभ्या॑मिति नियमस्योक्तत्वात् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.