॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|37
SK 2710
1|3|37
कर्तृस्थे चाशरीरे कर्मणि  
SK 2710
सूत्रच्छेद:
कर्तृस्थे - सप्तम्येकवचनम् , च - अव्ययम् , अशरीरे - सप्तम्येकवचनम् , कर्मणि - सप्तम्येकवचनम्
अनुवृत्ति:
नियः  [1|3|36] - पञ्चम्येकवचनम् , आत्मनेपदम्  [1|3|13] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
कर्तृस्थे शरीरे कर्मणि निय: आत्मनेपदम्
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
नयतेः कर्ता देवदत्ताऽदिर् लकारवाच्यः। कर्तृस्थे कर्मण्यशरीरे सति नयतेरात्मनेपदं भवति। शरीरं प्राणिकायः, तदेकदेशो ऽपि शरीरम्। क्रोधं विनयते। मन्युं विनयते। कर्तृस्थे इति किम्? देवदत्तो यज्ञदत्तस्य क्रोधं विनयतेइ। अशरीरे इति किम्? गडुं विनयति। घाटां विनयति। कर्मणि इति किम्? बुद्ध्या विनयति। प्रज्ञया विनयति।
`नयतेः कत्र्ता` इति। अर्थद्वारकः सम्बन्धो वेदितव्यः। `तदेकदेशोऽपि शरीरम्` इति। समुदायेषु हि प्रवृत्ताः शब्दाः क्वचिदवयवेष्वपि वत्र्तन्त इति भावः। कथं पुनर्मुख्ये सति गौणस्यापि ग्रहणं लभ्यते? शरीरग्रहणात्। इह लघुत्वात् कायग्रहणं कत्र्तव्ये यच्छरीरग्रहणं कत्र्तव्ये यच्छरीरग्रहणं करोति तच्छरीरैकदेशोऽपि शरीरश्रुत्या नाम गृह्रेतेत्येवमर्थम्। `क्रोधं विनयते` इति। अत्र नयतेर्यः कत्र्ता स हि बुद्धीन्द्रियदेहसमुदायस्वभावो देवदत्तादिः। तत्रैव कर्म क्रोधो वत्र्तत इति कर्त्तृस्थं कर्माशरीरं भवति। एवं गडुं विनयतीत्यादौ गड्वादैः शरीरैकदेशस्य कर्मणः कर्त्तृस्थाभावो वेदितव्यः। अत्र च क्रोधाद्यपगमः क्रियाफलं कत्र्रभिप्राय एवेति ` स्वरितञितः कत्र्रभिप्राये` 1|3|72 इत्यनेनैव सिद्धे नियमार्थमेतद्वचनं वेदितव्यम्-- कर्त्तृस्थे कर्मण्यशरीर एव, नान्यत्रेति॥
नयतेरात्मनेपदविधानातत्सम्बन्ध्येव कर्ता लकारवाच्यः प्रत्यासन्नो गृह्यत इत्याह--नयतेः कर्तेति। तदेकदेशोऽपि शरीरमिति। अपिशब्दोऽवधारणे। इह शरीरस्यैव चैतन्यविशिष्टस्य कर्तृत्वं लौकिकाः प्रतियन्ति, न तद्व्यतिरिक्तस्य बुद्धीन्द्रियादिमतश्चतनस्य । न च शरीरमेवशरीरस्थं भवति, अतस्तदेकदेश एव तद्ग्रहणेन गृह्यते इत्यर्थः। अत्र क्रोधाद्यपनयनफलं कर्त्रभिप्रायमिति ठ्स्वरितञितःऽइत्येव सिद्धे नियमार्थमिदम्-- कर्तृस्थे कर्मण्यशरीरस्थ एवेति । अथ कथम् ठ्विगण्य्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवःऽ इति? केचिदाहुः-अपगमे वर्तमानादिदमात्मनेपदविधानं भवति, अत्र तु करोत्यर्थे प्राप्त्यर्थे प्राप्त्यर्थे वा वर्तते, अनेकार्थत्वाद्धातूनामिति॥
सिद्धान्तकौमुदी
नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्ने एव स्यात् । सूत्रे शरीरशब्देन तदवयवो लक्ष्यते । क्रोधं विनयते । अपगमयति । तत्फलस्य चित्तिप्रसादस्य कर्तृगत्वात् स्वरितञित (कौमुदी-2158) इत्येव सिद्धे नियमार्थमिदम् । तेनेह न । गडुं विनयति । कथं तर्हि विगणय्य नयन्ति पौरुषमिति । कर्तृगामित्वाविवक्षायां भविष्यति ।
कर्तृस्थे। निय इति। कर्मकारके कर्तृस्थे सति णीञ्धातोर्यदात्मनेपदं कर्तृगे फले ञित्त्वात्प्राप्तं, तच्छरीरावयवभिन्न एव सति कर्मकारके स्यात्। कर्मणः शरीरावयवत्वे तु कर्तृगेऽपि फले परस्मैपदमेवेत्यर्थः। ननु सूत्रे शरीरग्रहणात्कथं शरीरावयवेत्युक्तमित्यत आह-- सूत्रे इति। शीरतादात्म्यापन्नस्यैव कर्तृतया शरीरस्य कर्तृस्थ्तवं न संभवति। शरीरावयवानां तु समवायेन आधारतया तत्संभवतीति भावः। ननु क्रोधापगमस्य क्रोध विषयशत्रुगताऽनिष्टपरिहारफलकत्वाञ्ञित्वेऽप्यात्मनेपदऽप्राप्तेस्तद्विध्यर्थत्वात्कथमुक्तनियमार्थत्वमस्य सूत्रस्येत्यत आह-- तत्फलस्येत्यादि। गडुं विनयतीति। कर्मणो गडोः शरीरावयवत्वान्नात्मनेपदमित्यर्थः। कथं तर्हीति। पौरुषस्य कर्मणः शरीरावयवभिन्नतया आत्मनेपदप्रसङ्गादिति भावः। कर्तृगामित्वेति। कर्तृस्थे कर्मणि नियः कर्तृगे फले ञित्त्वात् प्राप्तमात्मनेपदं शरीरावयवभिन्न एवेति नियम्यते, ननु विधीयते। अत्र तु फलस्य कर्तृगामित्वं सदपि न विवक्षितम्, अतो नात्मनेपदमिति भावः।
कर्तृस्थे। कर्मणीति। आत्मगामिनि क्रियाफले इत्यर्थः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!