॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|34
SK 2707
1|3|34
वेः शब्दकर्म्मणः
SK 2707
सूत्रच्छेद:
वेः - पञ्चम्येकवचनम् , शब्दकर्म्मणः - पञ्चम्येकवचनम्
अनुवृत्ति:
कृञः  [1|3|33] - पञ्चम्येकवचनम् , आत्मनेपदम्  [1|3|13] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
शब्दकर्मण: वे: कृञ: आत्मनेपदम्
सूत्रार्थ:
यत्र शब्दः कर्मपदम् अस्ति, तत्र "वि + कृ" धातोः आत्मनेपदं भवति ।
"शब्दः कर्मपदम् अस्ति" इत्युक्ते यत्र क्रियायाः कर्मपदम् शब्द/ध्वनिरूपेण भवति । तत्र "वि + कृ" इत्यस्य आत्मनेपदं भवति । यथा - स्वरान् विकुरुते (उच्चारयति इत्यर्थः) । अन्येषु अर्थेषु तु उभयपदमेव भवति । यथा - कामः चित्तं विकरोति विकुरुते वा (विचलितं करोति इत्यर्थः) ।
One-line meaning in English
The verb वि + कृ is आत्मनेपदी when the कर्मपद denotes a sound.
काशिकावृत्तिः
कृञः इत्यनुवर्तते। विपूर्वत् करोतेरकर्त्रभिप्राये क्रियाफले शब्दकर्मण आत्मनेपदं भवति। कर्मशब्द इह कारकाभिधायी, न क्रियावचनः। क्रोष्टा विकुरुते स्वरान्। ध्वाङ्क्षो विकुरुते स्वरान्। शब्दकर्मणः इति किम्? विकरोति पयः।
`कर्तरि कर्म` 1|3|14 इत्येवमादौ क्वचित् कर्मशब्दस्य क्रियावाचिना दृष्टा। इहापि तस्य क्रियावाचिता मा विज्ञायीत्याह- `कर्मशब्द इह कारकाभिधायि`इति। अथक्रियाभिधायी कस्मान्न भवति? विपूर्वस्य करोतेः शब्दनक्रियायां वृत्त्यसम्भवात्। `शब्दकर्मणः` इति। धातोरर्थद्वारकं चेदं विशेषणम्-- शब्दः कर्मास्येति; शब्दकर्मा धात्वर्थः। तदर्थस्य शब्दकर्मत्वात्तद्द्वारेण धातुरपि शब्दकर्मेति; अन्यथा हि क्रियावाचित्वाद्धातोः कतं शब्दः कर्मास्येति सम्बन्ध उपपद्यते॥
ठुदोऽनूर्ध्वकर्मणिऽ इत्यादिवत् कर्मशब्दः क्रियावाची मा विज्ञायीत्याह-- कर्मशब्द इत्यादि। विपूर्वस्य करोतेः शब्दक्रियायां वृत्यसम्भवात्, कृत्रिमसम्भवे लौकिकस्य ग्रहणायोगाच्च। किंच ठ्वेः शब्दःऽ इत्येव वक्तव्यम्, कर्मग्रहणमनर्थकम्, विकरेति पय इति सकर्मकत्वाद् उतरेणापि न भवति॥
सिद्धान्तकौमुदी
स्वरान्विकुरुते । उच्चारयतीत्यर्थः । शब्दकर्मणः किम् । चित्तं विकरोति कामः ।
वेः शब्दकर्मणः। शब्दः कर्म कारकं यस्य तस्मात्कृञो विपूर्वादात्मनेपदमित्यर्थः।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!