Page loading... Please wait.
1|3|33 - अधेः प्रसहने
॥ तस्मै पाणिनये नमः ॥
1|3|33
SK 2706
अधेः प्रसहने   🔊
सूत्रच्छेदः
अधेः (पञ्चम्येकवचनम्) , प्रसहने (सप्तम्येकवचनम्)
अनुवृत्तिः
आत्मनेपदम्  1|3|12 (प्रथमैकवचनम्) , कृञः  1|3|32 (पञ्चम्येकवचनम्)
अधिकारः
-
सम्पूर्णसूत्रम्
अधेः कृञः प्रसहने आत्मनेपदम्
सूत्रार्थः
"प्रसहनम्" (क्षमादानम् , विजयप्राप्तिः) एतस्मिन् अर्थे "अधि" उपसर्गात् "कृ" धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
"प्रसहनम्" इत्युक्ते "क्षमाकरणम् / विजयप्राप्तिः" इति । अस्मिन् अर्थे "अधि+ कृ" इत्यस्य आत्मनेपदत्वं भवति । यथा - राजा शत्रुं अधिकुरुते ("विजयं प्राप्नोति / क्षमां करोति" इत्यर्थः) । अन्येषु अर्थषु तु उभयपदम् - अर्थम् अधिकरोति अधिकुरुते वा (सञ्चयति इत्यर्थः) ।
One-line meaning in English
When the उपसर्ग "अधि" is attached to the verb "कृ", it gets the प्रत्ययाः of आत्मनेपद ; provided that the meaning is "to forgive / to obtain victory".
काशिकावृत्तिः
अकर्त्रभिप्रायार्थो ऽयमारम्भः। अधिपूर्वात् करोतेः प्रसहने वर्तमानातात्मनेपदं भवति। प्रसहनम् अभिभवः अपराजयो वा। तम् अधिचक्रे। तम् अभिवभूव, न तेन प्राजितः इत्यर्थः। प्रसहने इति किम्? अर्थम् अधिकरोति। पृथग्योगकरणम् उपसर्गविशेषणार्थम्।
`तमधितक्रे` इति। कृञो लिट्, तस्य चैशादेशः। `द्विर्वचनेऽचि 1|1|58 इति स्थानिवद्भावाद्द्विर्वचनम्, `उरत` 7|4|66 इत्यत्त्वम्, रपरत्वञ्च, `हलादिः शेषः` 7|4|60 `कुहोश्चुः` 7|4|62 इति चुत्वम्॥
प्रसाहनमभिभव इति। ठ्सा साहया युधा नृभिः पृतनाषाड्ऽ इत्यादौ दर्शनात्। केचितु ठ्षह मर्षणेऽभिभवे च्छन्दसिऽ इति पठन्ति, तत्र ठ्च्छन्दसिऽ इति प्रायिकं द्रष्टव्यम्। अपराजयो वेति। पराजेतुं समर्थस्यैव क्षमया यस्तदभावः स इत्यर्थः। तथा च भारविः- ठ्भवाद्दशाश्चेदधिकुर्वते परान्ऽ इति, भवाद्दशाश्चेत्परानधिकुर्वतेउ क्षमया न पराजयन्ते, क्षमन्त इत्यर्थः, तदहन वा तेन पराजित इत्यर्थ इति। तेनात्मनेपदवाच्येन कर्त्रा तमित्येद्वाच्यः कर्मभूतो न पराजित इत्यर्थः। पृथग्योगकरणमित्यादि। प्रकथनोपयोगप्रसहनेषु ठधेःऽ इत्युच्यमाने गन्धनादिष्वपि अधिपूर्वादेव स्यात्। अथ तत्राधिग्रहणं न क्रियेत, प्रसहनेऽप्यध्यभावेऽपि प्रसङ्गः;अत उत्सर्गेण प्रसहनं विशेषयिस्यामीति प्रसहने वा उत्सर्गं विशेषयिष्यामीति योगविभाग इत्यर्थः॥
सिद्धान्तकौमुदी
प्रसहनं क्षमाऽभिभवश्च । षह मर्षणेऽभिभवे चेति पाठात् । शत्रुमधिकुरुते । क्षमत इत्यर्थः । अभिभवतीति वा ।
अधेः प्रसहने - अधेः प्रसहने । अधेः परस्मात् कृञः प्रसहनवृत्तेरात्मनेपदमित्यर्थः ।
Text Unavailable. Please use feedback link below to provide the text if you have.
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.