॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|3|32
SK 2705
1|3|32
गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः
SK 2705
सूत्रच्छेद:
गन्धन-अवक्षेपण-सेवन-साहसिक्य-प्रतियत्न-प्रकथन-उपयोगेषु - सप्तमीबहुवचनम् , कृञः - पञ्चम्येकवचनम्
अनुवृत्ति:
आत्मनेपदम्  [1|3|13] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
गन्धन-अवक्षेपण-सेवन-साहसिक्य-प्रतियत्न-प्रकथन-उपयोगेषु कृञः आत्मनेपदम्
सूत्रार्थ:
गन्धनम् (हिंसात्मकसूचना), अवक्षेपणम् (निन्दा), सेवनम् (सेवा), साहसिक्यम् (बलात्कारः), प्रतियत्नम् (गुणपरिवर्तनम्), प्रकथनम् (कथनम्), उपयोग - एतेषु अर्थेषु कृ-धातुः आत्मनेपदी ज्ञातव्यः ।
डुकृञ् (करणे) अयं धातुः वस्तुतः उभयपदी अस्ति । परन्तु एतेषु अर्थेषु तस्मात् केवलम् आत्मनेपदस्य प्रत्ययाः एव भवन्ति -

1) गन्धनम् (कस्यचन अनुपस्थितौ तस्य विषये निन्दापूर्वकम् भाषणम्) - सः तानसेनम् उत्कुरुते ("तानसेनस्य अनुपस्थितौ तस्य विषये निन्दापूर्वकं भाषते" इत्यर्थः) ।
2) अवक्षेपणम् (निन्दा) - राजा शत्रुम् उदाकुरुते ("निर्भत्सयति" इत्यर्थः) ।
3) साहसिक्यम् (बलात्कारः) - सः परदारान् प्रकुरुते ("सहसा बलात्कारं करोति" इत्यर्थः ) ।
4) प्रतियत्नम् (अन्यपदार्थस्य गुणग्रहणम्) - इन्धनम् उदकस्य उपस्कुरुते ("जले नूतनान् गुणान् निर्माति" इत्यर्थः । कृञः प्रतियत्ने 2|3|53 इति षष्ठीविभक्तिः ।]
5) प्रकथनम् (कथनम्) - गुरुः वेदम् प्रकुरुते ("कथयति" इत्यर्थः) ।
6) उपयोग (उपयोजनम् ) - धनिकः शतं धर्मार्थं प्रकुरुते ("धर्मकार्यार्थम् प्रयुङ्क्ते" इत्यर्थः) ।

अन्येषु अर्थेषु उभयपदमेव भवति । यथा - कटं करोति कुुरुते वा ।
One-line meaning in English
The verb गन्धनम् कृ is आत्मनेपदी when used in the meaning of (a) To backbite, (b) To defame, (3) To do service or help out (4) To force someone to do something against their wish, To rape (5) To make someone change their properties, and (6) To narrate.
काशिकावृत्तिः
कर्त्रभिप्राये क्रियाफले सिद्धम् एवाऽत्मनेपदम्। अकर्त्रभिप्रयार्थो ऽयमारम्भः। गन्धनाऽदिष्वर्थेषु वर्तमानत् करोतेरात्मनेपदं भवति। गन्धनम् पकारप्रयुक्तं हिंसात्मकं सूचनम्। तथा हि, बस्त गन्ध अर्दने, अर्द हिंसायाम् इति चुरादौ पथ्यते। अवक्षेपणम् भर्त्सनम्। सेवनम् अनुवृत्तिः। साहसिक्यं साहसिकं कर्म। प्रतियत्नः सतो गुणान्तराधानम्। प्रकथनं प्रकर्षेण कथनम्। उपयोगो धर्मादि प्रयोजनो विनियोगः। गन्धने तावत् उत्कुरुते। उदाकुरुते। सूचयति इत्यर्थः। अवक्षेपणे श्येनो वर्तिकाम् उदाकुरुते। भर्त्सयति इत्यर्थः सेवते गणकानुपकुरुते। महामात्रानुपकुरुते। सेवते इत्यर्थः। साहासिक्ये परदारान् प्रकुरुते। तेषु सहसा प्रवर्तते इत्यर्थः। प्रतियत्ने एधो दकस्य उपस्कुरुते। काण्डं गुडस्य उपस्कुरुते। तस्य सतो गुणन्तराधानं करोति इत्यर्थः। षष्ठीसुटौ करोतेः प्रतियत्न एव विधीयेते। प्रकथने गाथाः प्रकुरुते। जनापवादान् प्रकुरुते। प्रकर्षेण कथयति इत्यर्थः। उपयोगे शतम् प्रकुरुते। सहस्रं प्रकुरुते। धर्मार्थं शतं विनियुङ्क्ते इत्यर्थः। एतेषु इति किम्? कटं करोति।
`अपकारप्रयुक्तम्` इति। तृतीयासमासोऽयम्। अपकारमुद्दिश्य यत्प्रवर्तते तदपकारप्रयुक्तं वेदितव्यम्। `हिंसात्मकम्` इति। हिनस्तीति हिंसः, पचाद्यच्, हिंस आत्मा यस्य तत् तथोक्तम्। पीडाकरणमित्यर्थः। `सूचनम्` इति दोषाविष्करणम्। कथमेतद्विज्ञायत एंविधं सूचनं गन्धनमित्याह-- `तथा ह` इत्यादि। `वस्त` इत्यादिनना गन्धयतिधातुरर्दयतेरर्थे वत्र्तते इति दर्शयति। `अर्द हिंसायाम्` इत्यादिना अर्दयतेर्हिसात्मकत्वम्। एवञ्च हिंसार्थेनार्दयतिना गन्धयतेः समानार्थतां दर्शयता गन्धनशब्दवाच्यस्यार्थस्य हिंसात्मकत्वं दर्शितं भवति। भत्र्सनं तिरस्करणम्। अनुवृत्तिः परचितावधारणम्। `साहसिक्यं साहसं कर्म` इति। `ओजः सहोऽम्भसा वत्र्तते` 4|4|27 इति ठक्, साहसिकः। तस्य कर्मेति तस्माद्गुणवचनब्राआहृणादित्वात् 5|1|123 ष्यञ्, साहसिक्यम्। `उपयोगो धर्मादिप्रयोजनो विनियोगः` इति। धर्मादिषु प्रयोजनं यस्य स तथोक्तः। आदिशब्दः कामापरिग्रहाय। `एधो दकस्योपस्कुरुते` इति। `उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु` 6|1|134 इति सुट्। `कृञः प्रतियत्ने` 2|3|53 इति षष्ठी॥
अपकारप्रयुक्तमिति अपकारेण प्रयुक्तमनेन मेऽपकृतमित्येतया बुद्ध्या कृतमित्यर्थः। अथ वा--कथं मयाऽपकृतं स्यादिति बुद्ध्या प्रवर्तितमित्यर्थः। हिसात्मकमिति। सूचितस्य वधबन्धनादिका हिंसा, इह तु तत्करणत्वात्सूचनमेव हिंसा स्वभावमित्युक्तम्। कथं पुनर्ज्ञायते गन्धनं हिंसात्मकमित्यत आह-- तथा हीति। चुरादाविति। स्वभावानुवादः। साहसिक्यमिति। सहसा वर्तते साहसिकः ठोजःसहोम्भसा वर्ततेऽ इति ठक्, तस्य कर्मणि ष्यञ् । वर्तिकाउशकुनिविशेषः। एधोदकस्येति। समाहारद्वन्द्वः। ठ्कृञः प्रतियत्नेऽ इति षष्ठी। उपस्कुरुत इति। ठुपात्प्रतियत्नऽ इत्यादिना सुट्॥
सिद्धान्तकौमुदी
गन्धनं हिंसा । उत्कुरुते । सूचयतीत्यर्थः । सूचनं हि प्राणवियोगानुकूलत्वाद्धिंसैव । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुते । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवते । परदारान्प्रकुरुते । भर्त्सयतीत्यर्थः । तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते । गुणमाधत्ते । गाथाः प्रकुरुते । प्रकथयति । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । एषु किम् । कटं करोति ॥
गन्धनावक्षेपण। `आत्मनेपदमकर्त्रभिप्रायेऽपी`ति शेषः। गन्धनं हिंसेति। गन्ध अर्दने। अर्द हिंसायामित्युक्तेरिति भावः। सूचयतीति। परदोषमाविषकरोतीत्यर्थः। नन्वेवं सति कथमस्य गन्धने वृत्तिः ?, हिंसाया असत्त्वादित्यत आह-- सूचनं हीति। श्येनो वर्तिकामिति। वर्तिका - शकुनिविशेषः। साहसिक्ये उदाहरति-- परदारान् प्रकुरुते इति। साहसप्रवृत्तिविषयीकरोतीत्यर्थः। सहसा वर्तते साहसिकः। `ओजस्सहोऽम्भसा वर्तते` इति ठक्। तस्य कर्म असमीक्ष्यकरणं = साहसिक्यम्। तदाह--तेषु सहसा प्रवर्तते इति। फलितार्थकथनमिदम्, साहसप्रवृत्तिमात्रार्थकत्वे द्वितीयानुपपत्तेः। अतः साहसप्रवृत्तिविषयीकरणपर्यन्तानुधावनमिति बोध्यम्। प्रतियत्ने उदाहरति - एधोदकस्योपस्कुरुते इति। एधशब्दोऽदन्तः `अवोदैधौद्मप्रश्रथहिमश्रथाः` इति सूत्रे निपातितः। एधश्च उदकं चेति समाहारद्वन्द्वः। यद्वा एधस्शब्दः सकारान्तो नपुंसकलिङ्गः। एधश्च दकं चेति विग्रहः। दकशब्द उदकवाची। `प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च` इति हलायुधः। `काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् रिउआयामि`त्यमरः। प्रतियत्नो गुणाधानमित्यभिप्रेत्य आह-- गुणमाधत्ते इति। काष्ठस्य शोषणादिगुणाधानम्। दकस्य तु गन्धद्रव्यसंपर्कजनितगन्धाधानम्।
गन्धनं हिंसेति। गन्ध अर्दने, अर्द हिंसायामित्यनयोश्चुरादौ पाठादिति भावः। सहसा वर्तते साहसिकः। `ओजः सहोम्भसे`ति ठक् तस्य कर्म साहसिक्यम्। ब्राआहृणादित्वत्ष्यञ्। परदारानित्यादि। तान्वशीकरोतीत्यर्थः। साहसिक्यं न धात्वर्थः, तथाहि सति परदारानिति कर्मणोऽनन्वयः स्यात्, किं तु प्रयोगोपाधिरित्यभिप्रेत्याह--- तेषु सहसेति। एधो दकस्येति। एधशब्दोऽकारान्तः-- `अवोदैधौद्मे`ति निपातितः। एधाश्च उदकं च एषां समाहारः। यद्वा एधः शब्दः सकारान्तः। तथा च एधांसि च दकं चेति विग्रहः। दकशब्दोऽप्युदकवाच्येवेत्यर्थोऽत्र न भिद्यते। उक्तं च हलायुदे-- `प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं चे`ति।
लघुसिद्धान्तकौमुदी
गन्धनं सूचनम्। उत्कुरुते। सूचयतीत्यर्थः। अवक्षेपणं भर्त्सनम्। श्येनो वर्तिकामुत्कुरुते। भर्त्सयतीत्यर्थः। हरिमुपकुरुते। सेवत इत्यर्थः। परदारान् प्रकुरुते। तेषु सहसा प्रवर्तते। एधोदकस्योपस्कुरुते। गुणमाधत्ते। कथाः प्रकुरुते। प्रकथयतीत्यर्थः। शतं प्रकुरुते। धर्मार्थं विनियुङ्क्ते। एषु किम्? कटं करोति॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!